expr:class='"loading" + data:blog.mobileClass'>

रविवार, 9 अगस्त 2026

प्रथम सावधिक परीक्षा- उत्तरम्-

 उत्तरम्-

प्रथम सावधिक परीक्षा

संस्कृत प्रश्नपत्रम्

1-(ग) विज्ञानम्

2-(ख) वाष्पयानेन

3-(क) यन्त्रोपकरणानि

4-(ग) आकाशे

5-(क) प्राप्त + एव

6-(ग) विदितवेदितव्यः

7-(ग) सर्वशास्त्राणि

8-(ख) अतिगहनं तमः

9-(ख) लक्ष्म्याः गर्वः

10-(ग) घोरा निद्रा

11-(ख) सर्वं ईश्वरवशम्

12-(ग) यत्किञ्च विश्वे अस्ति सर्वम्

13-(ग) त्यागभावेन भोगं कुरु

14-(ग) लोभः

15-(क) कस्य धनम् ?

16-(ख) क्रमौचित्यात् पूज्यान् कथं अभिवादयिष्यामि ?

17-(ग) अविरुद्धप्रकारः उचितः

18-(ग) शिरसा प्रणामं कृत्वा

19-(ग) कल्याणिन्! आयुष्मान् भूयाः

20-(ख) दीर्घकालीनः मनोरथः पूर्णः अभवत्

21-(ख) कालिदासः

22-(ग) भवभूतिः

23-(ग) कर्मणा

24-(क) शुकनासः

25-(ख) अपगतमलिनम्

26-(ग) शब्दार्थौ

27-(ग) दानार्थम्

28-(ग) सुप्ताः

29-(ख) कुमित्रम्

30-(क) विक्रमः।                                          ​31.- लौकिकसंस्कृतसाहित्यस्य’

32.-दृश् धातु 

​33.- लट्-कृदन्त प्रयोगः/भूतकालिकं पदम्

​34.-(i) प्रथमपुरुषः 

(ii) नपुंसकलिंगम् 

(iii) प्रथमा विभक्तिः (एकवचनम्)

 (iv) लङ् लकारः (भूतकालः)

​35.-विक्रमार्कराजः यज्ञार्थं समुद्राह्वानार्थं कञ्चिद् ब्राह्मणं समुद्रतीरे प्रेषितवान्।

​36.-(i)लङ् लकार- क्तवतु-प्रत्ययान्तं रूपम्।

(ii) बहुवचनम्

(iii) मण्डपः

(iv) प्रथमपुरुषः

​37.(i)-ऋषयः मन्त्रकृतां  कारणेन ‘अग्रणीमन्त्रकृताम्’ इति उच्यन्ते।

(ii)-ज्ञानस्य उपमा कविना उष्णरश्मेः (सूर्यात्) प्राप्तात् चैतन्यात् सह उपन्यस्ता।

​38.(i) सम्बोधन-प्रथमा विभक्तिः

(ii) ‘आप’ धातु

​39.-(i) मनसो (ii) नैनेद्देवा (iii) मातरिश्वा

40.-वाक्यं शुद्धं कुरुत-

(क) ते बालकाः पुस्तकानि पठन्ति।

(ख) मम माता भोजनं पचति।

(ग) वृक्षात् पत्राणि पतन्ति।

41.-(क) छात्रा: विद्यालयं गच्छन्ति ।

(ख) साधवः धर्मं चरन्ति।

(ग) फलानि मधुराणि सन्ति।

42.-(क) पठ्+क्त्वा-पठित्वा।                          (ख) गम्+तव्यत् -गन्तव्यम्।                           (ग) मयूर + ङीप्-मयूरी

43.(क) गृहस्य समीपम् = उपगृहम् ।                (ख) धर्मात् भ्रष्टः = धर्मभ्रष्टः।                           (ग) विद्यायाः हीनः = विद्याहीनः।

44.-(क) पुत्तलिका - पुतली / गुड़िया।            (ख) शिल्पिन् - मूर्तिकार / कारीगर।                (ग) पद्मम् - कमल का फूल।

45.-(क)चतुर्थी विभक्तिः- 'नमः'  अव्ययपदस्य योगे "नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च" सूत्रेण चतुर्थी विभक्तिः भवति।

(ख) पञ्चमी विभक्तिः-वृक्षात् पत्राणां पृथग्भावः (अपादानम्) भवति, अतः "ध्रुवमपायेऽपादानम्" इति सूत्रेण अपादानकारके पञ्चमी विभक्तिः भवति।

(ग) सप्तमी विभक्तिः-अनेकेषु समाजेषु वा एकस्य जात्यादिभिः वैशिष्ट्यनिर्धारणे "यतश्च निर्धारणम्" सूत्रेण निर्धारणकारके सप्तमी विभक्तिः भवति।

46.-(क) अत्यधिकम् = अति + अधिकम्।         (ख) देवालय: = देव + आलय:।                        (ग) गण + ईश: = गणेश:।

47.-'अ''                               आ'

अस्ति यद्यपि सर्वत्र         नीरं नीरजराजितम्।

रमते न मरालस्य            मानसं मानसं विना॥ 

कुर्वनेवेह कर्माणि         जिजीविषेच्छतं समाः।।

एवं त्वयि नान्यथेतोऽस्ति    न कर्म लिप्यते नरे ॥असुर्या नाम ते लोका       अन्धेन तमसाऽऽवृताः।

48.-

सेवायाम्,                                              श्रीमान् प्राचार्य महोदयः,                         राजकीय कृत +२ उच्च विद्यालयः,    सोनारायठाढ़ी, देवघरम् (झारखण्डम्)।

विषयः: रुग्णताकारणात् दिनद्वयस्य अवकाशार्थं प्रार्थनापत्रम्।

महोदय,                                                             सविनयं निवेदनम् अस्ति यत् अहम् अतीव ज्वरेण पीड़ितः अस्मि। अस्मात् कारणात् अहम् विद्यालयम् आगन्तुं न शक्नोमि। अतः मह्यम् ०८.०८.२०२६ तः ०९.०८.२०२६ पर्यन्तं दिनद्वयस्य (२) अवकाशं प्रदाय अनुगृह्णन्तु।अस्य कृते अहम् भवतः सदा कृतज्ञः भविष्यामि।भवदीयः आज्ञाकारी छात्रः।                          नाम - मनोहर:                                         कक्षा - १०मी (दशमी)।                  अनुक्रमाङ्कः- २७।                            दिनाङ्कः - ०८/०८/२०२६                        49.-सर्गबन्धः: न्यूनातिन्यूनं ८ सर्गाः भवन्ति।नायकः: धीरोदात्तगुणयुक्तः राजा देवः वा भवति।रसः: शृङ्गारः, वीरः, शान्तः वा प्रधानरसः भवति।कथा: इतिहासप्रसिद्धा लोकप्रसिद्धा वा भवति।उद्देश्यम्: धर्म-अर्थ-काम-मोक्षाणां प्राप्तिः भवति।उदाहरणम्:-रघुवंशम् (कालिदासः),कुमारसम्भवम् (कालिदास:)किरातार्जुनीयम्,(भारवि:), शिशुपालवधम् (माघ:)।                                 50.-(क) रघुवंशम् - महाकविः कालिदासः।     (ख) उत्तररामचरितम् - भवभूतिः।                  (ग) श्रीमद्भगवद् गीता - महर्षिः वेदव्यासः।       (घ) रामायणम् - महर्षिः वाल्मीकिः।              (ङ) हर्षचरितम् - बाणभट्टः।                          (च) कादम्बरी - बाणभट्टः।                           51.-​इदम् एकम् प्राचीनम् मन्दिरम् अस्ति।​अत्र बहवः भक्ताः सन्ति।मन्दिरस्य शिखरम् अति विशालम् अस्ति।चित्रस्य पुरतः चत्वारः जनाः स्थिताः सन्ति।​आकाशः स्वच्छः नीलवर्णः च दृश्यते।                                    52.-1.अहङ्कारी 2.व्याकुलाः 3.प्रणम्य 4.निष्कासयितुम् 5.मूर्खताम्

प्रथम सावधिक परीक्षा संस्कृत प्रश्नपत्रम्

प्रथम सावधिक परीक्षा
संस्कृत प्रश्नपत्रम्
 कक्षा-द्वादशः
पूर्णाङ्काः - ८०
समय - ३ घण्टा
अभ्यर्थिनः यथाशक्ति स्वशब्देषु उत्तरं दद्युः।
अन्ते चिह्नानि पूर्णचिह्नं सूचयन्ति ।
सर्वेषां प्रश्नानामुत्तरं लिखत ।
भाग-अ
(बहुविकल्पीय प्रश्नः)
प्रश्नसङ्ख्या १ तः ३० पर्यन्तं बहुविकल्पप्रकारः भवति।प्रत्येकस्य प्रश्नस्य चत्वारः विकल्पाः सन्ति । सम्यक् विकल्पं चित्वा उत्तरपत्रे लिखन्तु। प्रत्येकं प्रश्नः १ अङ्कस्य अस्ति। -1 x 30 = 30
प्रश्न संख्या 1-30 वस्तुनिष्ठप्रश्नाः सन्ति ।
सर्वे प्रश्नाः समानाङ्काः ।
सर्वे प्रश्नाः अनिवार्याः ।
प्रदत्तेषु विकल्पेषु समुचितम् उत्तरं चिनुत ।
अपठितांश-अवबोधनम्-
निर्देश-अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः उत्तरत-
अनुच्छेदः-
अस्माकं जीवने पदे पदे प्रत्येकेषु कार्येषु विज्ञानं व्याप्तमस्ति।विज्ञानस्य चमत्कारान् दृष्ट्वा वयम् आश्चर्यं कुर्मः।सर्वेषु क्षेत्रेषु एवं विज्ञानस्य लाभाः दृश्यन्ते। अद्य वयं वाष्पयानेन देशदेशान्तरेषु परिभ्रमामः। पोतेन अनायासं नदीः समुद्रांश्च तरामः। विमानेन आकाशे स्वच्छन्दंविहरामः।अद्यतुराकेट यानेन तु चन्द्रमसि अपि भ्रमणाय प्रयत्नं कुर्मः।अद्य अस्माकं जीवने विद्युतः उपयोगं तु सर्वत्र दृश्यते मोटर,बस,कार, स्कूटर इत्यादिभिः यानैः तु वयं प्रतिदिनं प्रतिपलं च गमनागमनं कुर्मःअद्य अस्माकं जीवने विद्युतः उपयोगं तु सर्वत्रदृश्यते रात्रीणां अन्धकारे विद्युद्दीपकं प्रज्वाल्य सर्वत्र प्रकाशं कुर्मः। विद्युतः प्रभावेण व्यजनानि चलन्ति,रोमाञ्चकारीणि दारूणेऽपि शिशिरे शैत्यभयं न भवति। उद्योगक्षेत्रेषु विद्युतः शक्त्या मुद्रणयन्त्राणि, अनेकानि लौहमयानि यन्त्रोपकरणानि चलन्ति । तेभ्यःनवीनानि वस्तूनि निर्मीयन्ते।
1.अस्माकं जीवने पदे पदे किं व्याप्तम् ?
(क).आश्चर्यम्
(ख).प्रकाशम्
(ग).विज्ञानम्
(घ).स्वच्छन्दम्
2.वयं देशदेशान्तरेषु केन परिभ्रमामः ?
(क).रेलयानेन
(ख).वाष्पयानेन
(ग).बसयानेन
(घ).वायुयानेन
3. 'अनेकानि' इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) यन्त्रोपकरणानि
(ख) आश्चर्यानि
(ग) दिनानि
(घ) वायुयानानि
4.'गगने' इति पदस्य कृते अत्र किं पर्यायपदं प्रयुक्तम् ?
(क).वायुयाने
(ख).वाष्पयाने
(ग).आकाशे
(घ).राकेटयाने
5.प्राप्तैव-अस्य सन्धिं-विच्छेदं किम् ?
(क) प्राप्त+ एव
(ख) प्राप्त्+ एव
(ग) प्राप्ता+ एव
(घ) प्राप्ते+ एव
पठितावबोधनम्- 
निर्देश : 
अधोलिखितं गद्यांशं, पद्यं, नाट्यं च पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः उत्तरं चिनतु-
गद्यांशः-
"तात चन्द्रापीड। विदितवेदितव्यस्याधीतसर्वशाश्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति। केवलं च निसर्गत एवातिगहनं तमो यौवनप्रभवम्।अपरिणामोपशमो दारूणो लक्ष्मीमदः।अप्रबोधा घोरा च राज्यसुखसन्निपातनिद्राभवति, इत्यतः विस्तरेणाभिधीयसे।" 
6. चन्द्रापीडः कीदृशः कथितः?
(क) अल्पविद्याधरः
(ख) अविदितवेदितव्यः
(ग) विदितवेदितव्यः
(घ) अशिक्षितः
7. चन्द्रापीडेन किं अधीतम् इति गद्यांशे उक्तम्?
(क) केवलम् आगमाः
(ख) केवलानि पुराणानि
(ग) सर्वशास्त्राणि
(घ) वेदाः एव
8. यौवनप्रभवं किं भवति इति उक्तम्?
(क) ज्ञानम्
(ख) अतिगहनं तमः
(ग) वैराग्यम्
(घ) तपस्या
9. ‘दारुणो लक्ष्मीमदः’ इत्यस्य अर्थः कः?
(क) लक्ष्म्याः सौम्यप्रभावः
(ख) लक्ष्म्याः गर्वः
(ग) दानशीलता
(घ) वैराग्यम्
10.राज्यसुखसन्निपातेन का अवस्था भवति?
(क) जागरूकता
(ख) ज्ञानवृद्धिः
(ग) घोरा निद्रा
(घ) तपस्या
पद्यम्-
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्।।
11. ‘ईशावास्यमिदं सर्वम्’ इति मन्त्रे किम् उक्तम्?
क. सर्वं मानववशम्
ख. सर्वं ईश्वरवशम्
ग. सर्वं राजवशम्
घ. सर्वं प्रकृतिवशम्
12. ‘यत्किञ्च जगत्यां जगत्’ इत्यस्य अर्थः कः?
क. केवलं पर्वताः एव
ख. केवलं नद्या एव
ग. यत्किञ्च विश्वे अस्ति सर्वम्
घ. केवलं वनस्पतयः
13. ‘तेन त्यक्तेन भुञ्जीथा’ इत्यस्य संदेशः कः?
क. परधनं चोरय
ख. केवलं धनं सञ्चय
ग. त्यागभावेन भोगं कुरु
घ. सर्वं परित्यज्य जीव
14. ‘मा गृधः’ इत्यनेन किम् निषिद्धम्?
क. अध्ययनम्
ख. कर्म
ग. लोभः
घ. दानम्
15. ‘कस्यस्विद्धनम्’ इत्यनेन कः भावः सूचितः?
क. कस्य धनम् ?
ख. धनं केवलं राज्ञः
ग. धनं केवलं कुटुम्बस्य
घ. धनं केवलं स्वस्य
नाट्यांशः- 
लवः:(प्रविश्य,स्वगतम्) क्रमौचित्यात् पूज्यानपि सतः कथमभिवादयिष्ये?,अविज्ञातवयः(विचिन्त्य) अयं  पुनरविरुद्धप्रकार इति वृद्धेभ्यः श्रूयते। (सविनयमुपसृत्य) एष वो लवस्य शिरसा प्रणामपर्यायः। 
 अरुन्धतीजनकौ : कल्याणिन्! आयुष्मान् भूयाः।
अरुन्धती : एहि वत्स! (लवमुत्सङ्गे गृहीत्वा आत्मगतम्) दिष्ट्या न केवल-मुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः।
16. ‘लवः’ किम् चिन्तयन् प्रविशति?
क. कथं नृत्यं करिष्यामि?
ख. क्रमौचित्यात् पूज्यान् कथं अभिवादयिष्यामि?
ग. कुतः आगतोऽस्मि?
घ. किमर्थं अत्र तिष्ठामि?
17. लवः वृद्धेभ्यः किम् श्रुतवान्?
क. धनं सञ्चितव्यम्
ख. अभिवादनं निषिद्धम्
ग. अविरुद्धप्रकारः उचितः
घ. युद्धं करणीयम्
18. लवः वृद्धान् कथं प्रणमति?
क. पादौ प्रक्षालयन्
ख. हस्तेन आह्वाय
ग. शिरसा प्रणामं कृत्वा
घ. मौनेन स्थातुम्
19. अरुन्धतीजनकौ लवस्य अभिवादनस्य प्रत्युत्तररूपेण किम् वदतः?
क. स्वागतं ते
ख. धन्यः असि
ग. कल्याणिन्! आयुष्मान् भूयाः
घ. पुनः आगच्छ
20. अरुन्धती आत्मगतेन कः भावः सूच्यते?
क. तस्य क्रोधः
ख. दीर्घकालीनः मनोरथः पूर्णः अभवत्
ग. भयम् अनुभूतम्
घ. शोकः जातः
21.रघुवंशस्य रचयिता कः ?
(क) भासः
(ख) कालिदासः
(ग) माघः
(घ) अश्वघोषः
22.'उत्तररामचरितम्' इति नाटकस्य रचयिता कः ? 
(क) भासः 
(ख) कालिदासः 
(ग) भवभूतिः 
(घ) अश्वघोषः। 
23. जनकादयः केन सिद्धिम् आस्थिताः ? 
(क) अकर्मणा 
(ख) विकर्मणा 
(ग) कर्मणा 
(घ) सत्कर्मणा।  
24.चन्द्रापीडं कः उपदिशति? 
(क) शुकनासः 
(ख) शुकः 
(ग) तारापीडः 
(घ) बृहस्पतिः। 
25.सर्वत्र कीदृशं नीरम् अस्ति ? 
(क) मलिनम् 
(ख) अपगतमलिनम् 
(ग) नीरजराजितम् 
(घ) मत्स्ययुक्तम्। 
26. सत्कविः कौ द्वौ अपेक्षते ? 
(क) शब्दौ 
(ख) अर्थों 
(ग) शब्दार्थों 
(घ) स्वरव्यञ्जने 
27. समुद्रः राज्ञे किमर्थं रत्नचतुष्टयं दत्तवान् ?
(क) व्ययार्थम्
(ख) सञ्चयार्थम्
(ग) दानार्थम्
(घ) लोभनिवारणार्थम्।
28. लक्ष्म्या परिगृहीताः राजानः कीदृशाः भवन्ति ? 
(क) प्रसन्नाः 
(ख) विक्लवाः 
(ग) सुप्ताः 
(घ) यशस्विनः।
29.पापात् कः निवारयति ? 
(क) सन्त्रिमम् 
(ख) कुमित्रम् 
(ग) राजपुरुषः 
(घ) महाबलिः। 
30.जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं कः स्थितः ?
(क) विक्रमः
(ख) ब्राह्मणः
(ग) पुत्तलिका
(घ) राजा।
भाग-B
 विषयनिष्ठ प्रश्न
खण्ड -अ
( अति लघु उत्तरीय प्रश्ना:)
कस्यापि षट् प्रश्नस्य उत्तरं ददातु।
निर्देश: अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तान् प्रश्नान् निर्देशानुसारम् उत्तरत -2x6-12
बाल्मीकिः लौकिक संस्कृतसाहित्यस्य आदि कविः मन्यतेः।तस्य रामायणं च आदि कविः मन्यते।रामायणस्य कथाविलक्षणा अस्ति। कथ्यते यत् एकदा बाल्मीकिः तमसा तीरे भ्रमण आसीत्।अकस्मात् तस्य दृष्टिः एकेन व्याधेनाशरेशविध्यामाने क्रौञ्चे अपतत् । एतत् कारूणिकं दृश्यं दृष्ट्वा सहसैव वाल्मीकि मुखात् एषा वाणी निस्सृता - 
मा निषाद प्रतिष्ठां त्वमगमः शाश्वती: समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्।।
रामायणं भारतीयानां राष्ट्रकाव्यम् अस्ति । अयं ग्रन्थः भारतस्य पुरातन संस्कृतेः दर्पणः अस्ति । रामः आदर्शपुत्रस्य, आदर्श भ्रातुः, आदर्शनृपस्य च उदाहरणानि प्रस्तौति । लक्ष्मणः कनीयसः भ्रातुरादर्शरूपं प्रस्तौति । सीता आदर्शभार्यायाः उदाहरणं प्रस्तौति । एवमेव दशरथः आदर्शपितुः हनुमान् भक्तिमतः सेवकस्य सुग्रीवः च आदर्श मित्रस्य अनुकरणीयानि उदाहरणानि प्रस्तुवन्ति ।
31.‘आदिकविः’ इति पदसमूहस्य विशेषणं किम्? 
32.‘दृष्ट्वा’ इति पदं कस्य धातोः कृदन्तरूपं अस्ति?
33.‘निस्सृता’ इति क्रियापदस्य लकारः कः? 
34.यथानिर्देशम् उत्तरत -
(1)‘मन्यते’ इति क्रियापदे पुरुषः कः?
 (ii)‘रामायणम्’ इति पदस्य लिङ्गं किम्? 
 (iii)‘दृष्टिः’ इति पदस्य विभक्तिः किम्? 
 (iv) अपतत्’ इति क्रियापदस्य कालः कः?
 अधोलिखितं गद्यांश, पद्यं च पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत -
गद्यांशः
 इत्येवं विचार्य सर्वस्वदक्षिणं यज्ञं कर्त्तुमुपक्रान्तवान् । ततः शिल्पिभिरतीव मनोहरो मण्डपः कारितः। सर्वापि यज्ञसामग्री समहृता । देवमुनिगन्धर्वयक्षसिद्धादयश्च समाहूताः । तस्मिन्नवसरे समुद्राह्वानार्थं कश्चिद्ब्राह्मणः समुद्रतीरे प्रेषितः । सोऽपि समुद्रतीरं गत्वा गन्धपुष्पादिषोडशोपचारं विधायाब्रवीत् “भोः समुद्र ! विक्रमार्को राजा यज्ञं करोति । तेन प्रेषितोऽहं त्वामाह्वातुं समागतः ।" इति जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं स्थितः । कोऽपि तस्य प्रत्युत्तरं न ददौ । तत उज्जयिनीं यावत्प्रत्यागच्छति तावद्देदीप्यमानशरीरः समुद्रो ब्राह्मणरूपी सन् तमागत्यावदत् “भो ब्राह्मण, विक्रमेणास्मानाह्वातुं प्रेषितस्त्वं, तर्हि तेन यास्माकं सम्भावना कृता सा प्राप्तैव । एतदेव सुहृदो लक्षणं यत्समये दानमानादि क्रियते ।
प्रश्नाः
पूर्णवाक्येन उत्तरत -
35.विक्रमार्कराजस्य यज्ञार्थं कं कार्यार्थं समुद्रतीरे प्रेषितवान्?                      
36. निर्देशानुसारम् उत्तरत :
(1)‘उपक्रान्तवान्’ इति धातोः लकारः कः?
(ii)‘समाहूताः’ इति पदस्य वचनं किम्?
(iii)‘मनोहरः’ इति विशेषणस्य विशेष्यं किम्?
(iv)‘प्रत्यागच्छति’ इति क्रियापदस्य पुरुषः कः?
पद्यम् -
अप्यग्रणीमन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते।
यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः॥
37. पूर्णवाक्येन उत्तरत -
(1) ऋषयः कस्य कारणेन ‘अग्रणीमन्त्रकृताम्’ इति उच्यन्ते? 
 (ii) ज्ञानस्य उपमा कविना कस्य सह उपन्यस्ता?
38. यथानिर्देशम् उत्तरत -
(i)‘कुशाग्रबुद्धे’ इति पदस्य विभक्तिः कति? 
 (ii)‘अप्तम्’ इति पदं कस्य धातोः कृतप्रत्ययरूपं अस्ति?
39. अधोलिखितस्य श्लोकस्य अन्वये रित्तस्थानपूर्ति कुरुत-
अनेजदेकं (I)_____ जवीयो(Il)._____आप्नुवन्पूर्वमर्षत्। 
तद्धावतोऽन्यानत्येति॒ तिष्ठत्तस्मिन्नपो (llI). _____दधाति॥
40.-वाक्यं शुद्धं कुरुत-
(क) ते बालकाः पुस्तकेन पठामि।
(ख) मम माता भोजनं पचसि।
(ग) वृक्षात् पत्राणि पतति।
41. उचितरूपैः रिक्तस्थानं पूरयत -
(क) छात्रा:........ गच्छन्ति । (विद्यालय)
(ख) .................... धर्मं चरन्ति। (साधु )
(ग) .................... मधुराणि सन्ति। (फल)
42. प्रत्ययं संयोज्य लिखत
(क) पठ्+क्त्वा-
(ख) गम्+तव्यत् -
(ग) मयूर + ङीप्-
43. अधः समस्तपदानां विग्रहाः दत्ताः, तानाश्रित्य समस्तपदानि रचयत
यथा-देवस्य आलयः = देवालयः।
(क) गृहस्य समीपम् = ....................
(ख) धर्मात् भ्रष्टः = ....................
(ग) विद्यायाः हीनः = ....................
44. शब्दार्थं लिखत-
(क )पुत्तलिका-
(ख) शिल्पिन्-
(ग) पद्मम्-
45. रेखाङ्कितपदस्य विभक्ति तत् कारणं च लिखत -
(क) शिवाय नम: ।
(ख) वृक्षात् पत्राणि पतन्ति।
(ग) बालकेषु मोहन: श्रेष्ठः ।
46. अधोलिखितपदानां सन्धि विच्छेदं वा कुरुत-
(क) अत्यधिकम्-.............+................
(ख) देवालय:-.............+.................
(ग) गण+ईश:-...............................
खण्ड -स
(दीर्घ उत्तरीय प्रश्नः)-5x4-20
चतुर्णां प्रश्नानाम् उत्तरं ददातु। प्रत्येकं प्रश्नस्य उत्तरं अधिकतमं २५० शब्देषु ददातु।
47.श्लोकमेलनं कुरुत -
'अ''                                            आ'
अस्ति यद्यपि सर्वत्र             न कर्म लिप्यते नरे ॥
रमते न मरालस्य                अन्धेन तमसाऽऽवृताः।
कुर्वनेवेह कर्माणि               जिजीविषेच्छतं समाः।।
एवं त्वयि नान्यथेतोऽस्ति      नीरं नीरजराजितम्।
असुर्या नाम ते लोका           मानसं मानसं विना॥  
48.रुग्णताकारणान् प्राचार्याय अवकाशार्थं प्रार्थनापत्रं लिखत।
49.महाकाव्यस्य वैशिष्ट्यं प्रतिपादयत । उदाहरणम् अपि लिखत ।
50.अधोलिखित्तरचनानां लेखकानां नामानि लिखत । (केवलं पञ्चानाम् )
(क) रघुवंशम्-
(ख) उत्तररामचरितम्-
(ग) श्रीमद्भगवद् गीता-
(घ) रामायणम्-
(ङ)हर्षचरितम्-
(च) कादम्बरी-
51. मञ्जूषासहायतया चित्रं दृष्ट्वा पञ्च चाक्यानि रचयत -

मन्जूषाः-प्रार्थनासभा ,छात्राः ,विद्यालयस्य,शिक्षकाः, हरितवर्णीयं ।
52. मञ्जूषातः उचितसङ्केतान् गृहीत्वा अधोलिखितां कथां पूरयित्वा पुनः लिखत-
मञ्जूषा — अहङ्कारी, व्याकुलाः, प्रणम्य, निष्कासयितुम्, मूर्खताम्।
एकः राजा अत्यन्तः __________ (1) आसीत्। सः पण्डितान् आहूय प्रश्नम् अपृच्छत्। तस्य प्रश्नं श्रुत्वा पण्डिताः __________ (2) अभवन्। तदा एकः वृद्धः राजानं __________ (3) अवदत्। सः अवदत् यत् राजा अस्मान् राज्यात् __________ (4) क्षमः अस्ति। अन्ते राजा स्वस्य __________ (5) अवगतवान्।

विविध प्रश्न-1

 झारखण्ड अधिविद्य परिषद् की बारहवीं कक्षा की परीक्षा-2025 की            तैयारी हेतु संस्कृत विषय का आदर्श प्रश्न पत्र-1

 वार्षिक परीक्षा-2024-2025
माँडल प्रश्न पत्र(वस्तुनिष्ठ)
 कक्षा-द्वादश
 विषय-संस्कृत
समय-1.30 घंटा/पूर्णांक-40
सामान्य-निर्देशाः-
*अस्मिन् प्रश्नपत्रे 40 वस्तुनिष्ठप्रश्नाः सन्ति।
*सर्वे प्रश्नाः समानांकाः।
*सर्वे प्रश्नाः अनिवार्याः।
*प्रदत्तेषु विकल्पेषु उचितम् उत्तरं चिनुता।

निर्देशःअधोलिखितं अपठितगद्यांशं पठित्वा प्रदत्तान् प्रश्नान् विकल्पेभ्यः उत्तरं चिनुत -

अस्माकं जीवने पदे पदे प्रत्येक कार्येषु विज्ञानं व्याप्तमस्ति।विज्ञानस्य चमत्कारान् दृष्ट्वा वयम् आश्चर्य कुर्मः।सर्वेषु

क्षेत्रेषु एवं विज्ञानस्य लाभाः दृश्यन्ते। अद्य वयं वाष्पयानेन देशदेशान्तरेषु परिभ्रमामः। पोतेन अनायासं नदीः

समुद्रांश्च तरामः। विमानेन आकाशे स्वच्छन्दंविहरामः।अद्यतुराकेट यानेन तु चन्द्रमसि अपि भ्रमणाय प्रयत्नं कुर्मः।

अद्य अस्माकं जीवने विद्युतः उपयोगं तु सर्वत्र दृश्यते मोटर,बस,कार, स्कूटर इत्यादिभिः यानैः तु वयं प्रतिदिनं

प्रतिपलं च गमनागमनं कुर्मःअद्य अस्माकं जीवने विद्युतः उपयोगं तु सर्वत्रदृश्यते रात्रीणां अन्धकारे विद्युद्दीपकं

प्रज्वाल्य सर्वत्र प्रकाशं कुर्मः। विद्युतः प्रभावेण व्यजनानि चलन्ति,रोमाञ्चकारीणि दारूणेऽपि शिशिरे शैत्यभयं

न भवति। उद्योगक्षेत्रेषु विद्युतः शक्त्या मुद्रणयन्त्राणि, अनेकानि लौहमयानि यन्त्रोपकरणानि चलन्ति । तेभ्यः

नवीनानि वस्तूनि निर्मीयन्ते।

1.अस्माकं जीवने पदे पदे किं व्याप्तम् ?

(A).आश्चर्यम्

(B).प्रकाशम्

(C).विज्ञानम्

(D).स्वच्छन्दम्

2.वयं देशदेशान्तरेषु केन परिभ्रमामः ?

(A).रेलयानेन

(B).वाष्पयानेन

(C).बसयानेन

(D).वायुयानेन

3. 'अनेकानि' इति सर्वनामपदं कस्मै प्रयुक्तम् ?

(A).यन्त्रोपकरणानि

(B).आश्चर्यानि

(C)दिनानि

(D).वायुयानानि

4.'गगने' इति पदस्य कृते अत्र किं पर्यायपदं प्रयुक्तम् ?

(A).वायुयाने

(B).वाष्पयाने

(C).आकाशे

(D).राकेटयाने

5.प्राप्तैव-अस्य सन्धिं-विच्छेदं किम् ?

(A).प्राप्त+ एव

(B).प्राप्त्+ एव

(C). प्राप्ता+ एव

(D).प्राप्ते+ एव

6.चेद् + अस्मिन्-अस्य सन्धिंपदं किम् ?

(A).चेधस्मिन्

(B). चेदस्मिन्

(C).चेदेस्मिन्

(D).चेदास्मिन्

7.तच्छ्रुत्वा-अस्य सन्धिं-विच्छेदं किम् ?

(A).तद् + श्रुत्वा

(B).तद + श्रुत्वा

(C).तत + श्रुत्वा

(D).तत् + श्रुत्वा

8.त्वयि + एवम्-अस्य सन्धिंपदं किम् ?

(A).त्वय्येवम्

(B).त्वय्येवम

(C).त्वयिएवम्

(D).त्वय्येएवम्

9.विक्रमतुल्यम्-अस्य समासिक विग्रहं कुरुत-

(A).विक्रम तुल्यम्

(B).विक्रमस्य तुल्यम्

(C).विक्रमण तुल्यम्

(D).विक्रमेण तुल्यम्

10.क्रियाविधिज्ञम्-अस्य समासिक विग्रहं कुरुत-

(A).क्रियायाः विधिं जानाति क्रियाविधिज्ञः तम्

(B).क्रियायाः विधिं जानाति इति क्रियाविधिज्ञः तम्

(C).क्रियायाः विधिं इति क्रियाविधिज्ञः तम्

(D).क्रियायाः विधिं जानाति इति 

11.सकलगुणनिवासः-अस्य समासिक विग्रहं कुरुत-

(A).सकलम् गुणानां निवासः

(B).सकलानां गुणम् निवासः

(C).सकलानां गुणानां निवासः

(D).सकलस्य गुणानां निवासः

12.यज्ञसामग्री-अस्य समासिक विग्रहं कुरुत-

(A).यज्ञस्य सामग्री

(B).यज्ञम् सामग्री

(C).यज्ञेन सामग्री

(D).यज्ञाय सामग्री

13. समुद्रतीरम्-अस्य समासिक विग्रहं कृत्वा लिखत -

(A).समुद्र तीरम् 

(B).समुद्रस्य तीरम् 

(C).समुद्रे तीरम् 

(D).समुद्राय तीरम् 

14.प्र + √युज् + क्त-अस्य प्रत्यय संयोजनं कृत्वा लिखत -

(A).प्रयुक्तस्य

(B).प्रयुक्तये

(C).प्रयुक्तः

(D).प्रयुक्तेः

15.उत् + √स्था + क्त-अस्य प्रत्यय संयोजनं कृत्वा लिखत -

(A).उत्थितः

(B).उत्थितस्य

(C).उत्थितान्

(D).उत्थिताय

16.उत्प्लुत्य-अस्य प्रकृति-प्रत्ययं पृथक कृत्वा लिखत -

(A). उत् + √प्लु + ल्यप्

(B).उत्प्लु+त्ये

(C).उत्प्लुत्य+स्य

(D).उत्प्लु+त्यान्

17.उपार्जितानां वित्तानां रक्षणं कथं भवति ?

(A) त्यागेन
(B) भोगेन
(C) सञ्चयेन
(D) लोभेन।

18.रघुवंशस्य रचयिता कः ?

(A) भासः
(B) कालिदासः
(C) माघः
(D) अश्वघोषः

19.'उत्तररामचरितम्' इति नाटकस्य रचयिता कः ? 

(A) भासः 
(B) कालिदासः 
(C) भवभूतिः 
(D) अश्वघोषः। 

20. जनकादयः केन सिद्धिम् आस्थिताः ? 

(A) अकर्मणा 
(B) विकर्मणा 
(C) कर्मणा 
(D) सत्कर्मणा।  

21.चन्द्रापीडं कः उपदिशति? 

(A) शुकनासः 
(B) शुकः 
(C) तारापीडः 
(D) बृहस्पतिः। 

22.सर्वत्र कीदृशं नीरम् अस्ति ? 

(A) मलिनम् 
(B) अपगतमलिनम् 
(C) नीरजराजितम् 
(D) कमलभूषितम्। 

23. सत्कविः कौ द्वौ अपेक्षते ? 

(A) शब्दौ 
(B) अर्थों 
(C) शब्दार्थों 
(D) स्वरव्यञ्जने 

24.दधिसमुद्रः कस्य द्वीपस्यावरक: ? 

(A) सुमेरुद्वीपस्य 
(B) मालद्वीपस्य 
(C) सिंहद्वीपस्य 
(D) क्रौञ्चद्वीपस्य। 

25.विभागस्य विपक्षे केषाम् अभियोगो नास्ति ? 

(A) उपभोक्तृणाम् 
(B) अधिकारिणाम् 
(C) कर्मचारिणाम् 
(D) मन्त्रिणाम्। 

26. समुद्रः राज्ञे किमर्थं रत्नचतुष्टयं दत्तवान् ?

(A) व्ययार्थम्
(B) सञ्चयार्थम्
(C) दानार्थम्
(D) लोभनिवारणार्थम्।

27.उद्भिज्जपरिषदः सभापतिः कः आसीत्? 

(A) देवाधिपतिः 
(B) देवराज इन्द्रः 
(C) आम्रः 
(D) अश्वत्थदेवः। 

28.भोजनगोष्ठ्यां लेखकस्य कण्ठनलिकां क: अरुधत् ? 

(A) पत्नी 
(B) स्वामिमहोदस्य किन्तुः
(C) मन्त्रिमहोदयस्य किन्तुः 
(D) शिक्षकः। 

30.भूमेः अभियोगः कुत्र चलति स्म ? 

(A) ग्रामपञ्चायते 
(B) न्यायालये 
(C) नगरे 
(D) ग्रामे। 

31.शिववीरस्य विश्वासपात्रं किम् आदाय तोरणदुर्गं प्रयाति ? 

(क) संवादम् आदाय 
(ख) पत्रम् आदाय 
(ग) पुष्पगुच्छम् आदाय 
(घ) अश्वम् आदाय

32. लक्ष्म्या परिगृहीताः राजानः कीदृशाः भवन्ति ? 

(A) प्रसन्नाः 
(B) विक्लवाः 
(C) सुप्ताः 
(D) यशस्विनः।

32.पापात् कः निवारयति ? 

(A) सन्त्रिमम् 
(B) कुमित्रम् 
(C) राजपुरुषः 
(D) महाबलिः। 
33. समुद्राः कति सन्ति ? 

(A) सप्त 
(B) अष्ट 
(C) नव 
(D) चत्वारः। 

34. श्रीनायार: कुत्र गमनाय इच्छां न प्रकटितवान् ? 

(A) दिल्लीम् 
(B) केरलम् 
(C) कोलकातानगरम् 
(D) महाराष्ट्रम्।  

35.जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं कः स्थितः ?

(A) विक्रमः
(B) ब्राह्मणः
(C) पुत्तलिका
(D) राजा।

36. 'उद्भिज्जपरिषद्' इति पाठस्य लेखकः कः अस्ति ? 

(A) आर्यभट्टः 
(B) हृषीकेश: भट्टाचार्यः 
(C) बाणभट्टः 
(D) अम्बिकादत्तव्यासः। 

37.पशुहत्या केषाम् आक्रीडनम् ? 

(A) पुरुषाणाम् 
(B) स्त्रीणाम् 
(C) सिंहानाम् 
(D) मनुष्याणाम्।  

38.कस्य कारणात् कस्मिन्नपि कार्ये सफलता दुर्घटा अस्ति ? 

(A) पत्न्याः 
(B) न्युः 
(C) किन्तोः 
(D) स्वामिनः।  

39.कतिवर्षदेशीयो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म। 

(A) चतुर्दशवर्षदेशीयः 
(B) द्वादशवर्षदेशीयः 
(C) पञ्चदशवर्षदेशीयः 
(D) षोडशवर्षदेशीयः  

40.चित्तवृत्ति निरोधः कः ?

(A) नृत्यम् 
(B) योग: 
(C)क्रीड: 
(D) उपर्युक्त न कोऽपि

-------------------------------------

झारखण्ड अधिविद्य परिषद् की बारहवीं कक्षा की परीक्षा-2025 की                      तैयारी हेतु संस्कृत विषय का आदर्श प्रश्न पत्र-1

                                              माँडल प्रश्न पत्र(विषयनिष्ठ)
                                                      कक्षा-द्वादश
                                                     विषय-संस्कृत
समय-1.30 घंटा/पूर्णांक-40
सामान्य-निर्देशाः-
1. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृते एव कर्त्तव्याणि-
2. सर्वेषां प्रश्नानाम् संख्या 19 अस्ति ।
3. प्रश्न संख्या 1 तः 7 पर्यन्तम् अति- लघूत्तरीयाः प्रश्नाः सन्ति अस्य कृते 2-2 अंक निर्धारितौ स्तः केचन पंच प्रश्नान् उत्तरत।
4. प्रश्न संख्या 8तः 14 पर्यन्तम् लघूत्तरीयाः प्रश्नाः सन्ति अस्य कृते 3-3 अंका: निर्धारिताः केचन पंचैव प्रश्नाः समाधेयाः ।
5. प्रश्न संख्या 15तः 19 पर्यन्तं दीर्घत्तरीयाः प्रश्नाः सन्ति अस्य कृते 5-5 अंकाः निर्धारिताः केचन त्रयैव प्रश्नान् उत्तरत।
                          
                                                खण्ड क

1.ईशावास्योपनिषद् कस्याः संहितायाः भागः?

2.उपार्जितानां वित्तानां रक्षणं कथं भवति ?

3.राजपुरुषस्य तीक्ष्णतरा आयुधश्रेण्यः किं न सहन्ते ?

4.वाक्यमध्ये प्रविश्य सर्वं कार्यं केन विनाश्यते ?

5. चन्द्रापीडं कः उपदिशति ?

6.मनुष्यस्य आयुः कति वर्षाणि मन्यते?

7.पृथिव्याः कति भेदाः ? 

खण्ड -ग

(लघु उत्तरीय प्रश्न)

सर्वे प्रश्नाः समानांकाः।केचन पंच प्रश्नान् उत्तरत-

8.सन्धिं कुरुत-

(क).स+उत्साहम्

(ख).अति+इव

(ग).सत्+निधिः

9.सन्धिं-विच्छेदं कुरुत-

(क).स्वागतम्

(ख). कालांश:

(ग).सम्यग्रूपेण

10.समस्तपदं लिखत -

(क).महान् अन्धकारः

(ख).पर्वतानां श्रेणी:

(ग). महान् उत्साहः

11.समासिक विग्रहं कुरुत-

(क).विश्वासपात्रम्

(ख).हरितोष्णीषशोभितः

(ग). उपात्तविद्यः

12.उचितं विभक्तिं संयोज्य रिक्तस्थानानि पूरयत-

(क). ..................... परितः वृक्षाः सन्ति । ( ग्राम )

(ख). ――― जनाः सुखम् कामयन्ते । (सर्व)

(ग).) लता परीक्षायाम् ―――  आसीत् । (प्रथम)

13.प्रकृति-प्रत्ययौ संयोज्य लिखत -

(क).उप + √क्रम् + क्तवतु

(ख). वि + अति + √क्रम् + ल्यप्

(ग).√ग्रह् + क्त्वा 

14.उचित क्रियापदैः रिक्तस्थानानि पूरयत-

(क).सः दुग्धं पीत्वा-----।(खेलति / खेलसि)

(ख).सत्यं एव -----।(वचनीयम् / वदनीयम्)

(ग). रामः रावणम् ----- लङ्कां गतवान्।(हन्तुम् / हत्वा)

खण्ड-घ

(दीर्घ उत्तरीय प्रश्न)

सर्वे प्रश्नाः समानांकाः।केचन त्रयाणां प्रश्नानाम् उत्तरं दीयताम-

15.स्थानान्तरण प्रमाणपत्रं प्राप्तुं प्रधानाचार्यं प्रति लिखितं पत्रं लिखत।

16.गद्यकाव्यम् इति विधायाः वैशिष्ट्यं प्रतिपादयत।

17. मञ्जूषायाः उचितानि वाक्यानि चित्वा वार्तालापं पूरयत - 1🗙5=5

प्रज्ञा - रमे ! किं त्वम् ओदनं पचसि ?

रमा -I.------------------------------

प्रज्ञा - तदनन्तरं त्वं किं करिष्यसि ?

रमा -II.------------------------------

प्रज्ञा - ह्यः अहमपि गीताम् अपठम् ।

रमा-III.-----------------------------

प्रज्ञा - किं त्वमद्य विद्यालयं गमिष्यसि ?

रमा-IV.-----------------------------

प्रज्ञा - अहमपि विद्यालयं गमिष्यामि ।

रमा -V.------------------------------

मञ्जूषा-

अधुना मया पत्राणि लिख्यन्ते । तदनन्तरं मया गीता पठिष्यते । आम्, मया ओदनं पच्यते । आम्, अद्य अहं विद्यालयं गमिष्यामि । मया सह एव चल ।

18.चित्रं दृष्ट्वा पंचवाक्यानि रचयत- 1🗙5=5

19.मञ्जूषायाः उचितानि पदानि विचित्य कथां पूरयत - 1/2×105

राज्ञः भोजस्य दर्शनाय सः कलिङ्गदेशम् (i)----- मासं यावत् तत्र न्यवसत्, परं सः राजानं नापश्यत् । तस्य (ii)----- अपि परिसमाप्तम् । (iii)------ नृपः (iv)----- बहिर्निर्गतः। तदा कविः राजानं (v)----- अकथयत्- श्री भोजराजं पश्यन्नेव तत्क्षणं रिपोः शस्त्रं, कवेः कष्ट, मृगीदृशां नीवीबन्धः च भूमौ (vi) ---। तच्छ्रुत्वा राजा कवये (vii)------ ददौ यदा राजा मृगयासक्तः आसीत् तदा कश्चित् व्याध सुतः एक गीतम् अगायत् । गीतस्य (viii)----- प्रसन्नो भूत्वा राजा (ix) --- पञ्चलक्षं (x)-----------।

मञ्जूषा-

मृगयाभावेन, पाथेयम्, दृष्ट्वा, माधुर्येण, गायकाय, लक्षं द्वौ, पतन्ति, उपेत्य, एकदा,अयच्छत्।

-------------------------------------

झारखण्ड अधिविद्य परिषद् की बारहवीं कक्षा की परीक्षा-2025 की  तैयारी हेतु संस्कृत विषय का आदर्श प्रश्न पत्र-1का उत्तर

                                                     माँडल प्रश्न पत्र(वस्तुनिष्ठ)-1 

उत्तरम्-

1.(ग).विज्ञानम्

2.(ख).वाष्पयानेन

3.(A).यन्त्रोपकरणानि

4.(C).आकाशे

5.(C).प्राप्ता+ एव

6.(B). चेदस्मिन्

7.(D).तत् + श्रुत्वा

8.(A).त्वय्येवम्

9.(D).विक्रमेण तुल्यम्

10.(B).क्रियायाः विधिं जानाति इति क्रियाविधिज्ञः तम्

11.(C).सकलानां गुणानां निवासः

12.(D).यज्ञाय सामग्री

13. (B).समुद्रस्य तीरम् 

14..(C).प्रयुक्तः

15.(A).उत्थितः

16.(A).उत्प्लुत्य

17.(A) त्यागेन

18.(B) कालिदासः

19.(B) कालिदासः 

20. (C) कर्मणा 

21. (A) शुकनासः

22.(A) मलिनम् 

23. (C) शब्दार्थों 

24.(A) सुमेरुद्वीपस्य 

25.(A) उपभोक्तृणाम् 

26. (A) व्ययार्थम्

27.(C) आम्रः 

28.(B) स्वामिमहोदस्य किन्तुः

29.(D) ग्रामे। 

30.(ख) पत्रम् आदाय 

31.(B) विक्लवाः

32.(A) सन्त्रिमम्

33. (D) चत्वारः। 

34.(B) केरलम् 

35.(B) ब्राह्मणः

36.(B) हृषीकेश: भट्टाचार्यः 

37.(D) मनुष्याणाम्। 

38.(A) पत्न्याः 

39.(D) षोडशवर्षदेशीयः  

40.(B) योग:

-------------------------------------

झारखण्ड अधिविद्य परिषद् की बारहवीं कक्षा की परीक्षा-2023 की  तैयारी हेतु संस्कृत विषय                                                        का आदर्श प्रश्न पत्र-1का उत्तर

                                                     माँडल प्रश्न पत्र(विषयनिष्ठ)-1 

उत्तरम्- 

1.ईशावास्योपनिषद् यजुर्वेद संहितायाः भागः।

2. उपार्जितानां वित्तानां रक्षणं त्यागेन भवति।

3.राजपुरुषस्य तीक्ष्णतरा आयुधश्रेण्यः दृप्तां वाचं न सहन्ते

4. वाक्यमध्ये प्रविश्य सर्वं कार्यं किन्तुना विनाश्यते।

5. चन्द्रापीडं शुकनासः उपदिशति

6.मनुष्यस्य आयुः शत वर्षाणि मन्यते?

7.पृथिव्याः सप्त भेदाः

8.

(क).सोत्साहम्

(ख).अतीव

(ग).सन्निधिः

9.

(क).सु+आगतम्

(ख). काल+अंशः

(ग).सम्यक्+रुपेण

10.

(क).महान्धकारः

(ख).पर्वतश्रेणी

(ग).महोत्साहः

11.

(क).विश्वासस्य पात्रम्

(ख).हरितेन उष्णीषेण शोभितः

(ग).उपात्ता प्राप्ता विद्या येन सः

12.

(क).ग्रामं

(ख).सर्वे

(ग).प्रथमः

13.

(क). उपक्रान्तवान्

(ख).व्यतिक्रम्य

(ग).गृहीत्वा

14.

(क).खेलति

(ख).वचनीयम्

(ग).हन्तुम्

15.उचित माध्यमेन स्वयं लिखत।

16.उचित माध्यमेन स्वयं लिखत।

17.

(i).आम्,मया ओदनं पच्यते ।

(ii).तदनन्तरं मया गीता पठिष्यते।

(iii).अधुना मया पत्राणि लिख्यन्ते ।

(iv).आम्, अद्य अहं विद्यालयं गमिष्यामि ।

(v).मया सह एव चल ।

18.उचित माध्यमेन स्वयं लिखत।

19.

(i).उपेत्य

(ii).पाथेयम्

(iii).एकदा

(iv).मृगयाभावेन

(v).दृष्ट्वा

(vi).पतन्ति

(vii).लक्षं द्वौ

(viii).माधुर्येण

(ix).गायकाय

(x).अयच्छत्

-------------------------------------

विविध प्रश्न-2

 संस्कृत आदर्श प्रश्नपत्रम्-1

कक्षा-द्वादश, 

पूर्णाङ्काः - १००

उत्तीर्णाङ्काः - ३३

समय - ३ घण्टा

अभ्यर्थिनः यथाशक्ति स्वशब्देषु उत्तरं दद्युः।

मार्जिने आकृतयः पूर्णाङ्कान् सूचयन्ति ।

सर्वेषां प्रश्नानाम् उत्तरं ददातु।

खण्ड - क

(अपठितांश अवबोधनम्)

1. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत - 10

अस्माकं जीवने पदे पदे प्रत्येक कार्येषु विज्ञानं व्याप्तमस्ति । विज्ञानस्य

चमत्कारान् दृष्ट्वा वयम् आश्चर्य कुर्मः । सर्वेषु क्षेत्रेषु एवं विज्ञानस्य लाभाः

दृश्यन्ते। अद्य वयं वाष्पयानेन देशदेशान्तरेषु परिभ्रमामः।पोतेन अनायासं

नदीः समुद्रांश्च तरामः । विमानेन आकाशे स्वच्छन्दं विहरामः।अद्य तु राकेट

इति यन्त्रेण तु चन्द्रमसि अपि भ्रमणाय प्रयत्नं कुर्मः। मोटर, बस, कार,

स्कूटर इत्यादिभिः यानैः तु वयं प्रतिदिनं प्रतिपलं च गमनागमनं कुर्मः।

अद्य अस्माकं जीवने विद्युतः उपयोगं तु सर्वत्र दृश्यते। रात्रीणां अन्धकारे

विद्युद्दीपकं प्रज्वाल्य सर्वत्र प्रकाशं कुर्मः । विद्युतः प्रभावेण व्यजनानि

चलन्ति, रोमाञ्चकारीणि दारूणेऽपि शिशिरे शैत्यभयं न भवति। उद्योगक्षेत्रेषु

विद्युतः शक्त्या मुद्रणयन्त्राणि, अनेकानि लौहमयानि यन्त्रोपकरणानि

चलन्ति । तेभ्यः नवीनानि वस्तूनि निर्मीयन्ते।

(क) एकपदेन उत्तरत-2х1=2

(i) अस्माकं जीवने पदे पदे किं व्याप्तम् ? -1

(ii) वयं देशदेशान्तरेषु केन परिभ्रमामः ?-1

(ख) पूर्णवाक्येन उत्तरत-2х2=4

(i) वयम् आकाशे कीदृशं विहरामः ? -2

(ii) वयम् चन्द्रमसि केन गन्तुं शक्नुमः ? -2

(ग) निर्देशानुसारम् उत्तरत-2х1=2

(i) 'अनेकानि' इति सर्वनामपदं कस्मै प्रयुक्तम् ? -1

 

(ii) 'गगने' इति पदस्य कृते अत्र किं पर्यायपदं प्रयुक्तम् ? -1

(घ) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत। -2

 

खण्ड -ख

(संस्कृतेन रचनात्मकं लिखितकार्यम् )

2.स्थानान्तरण प्रमाणपत्रं प्राप्तुं प्रधानाचार्यं प्रति लिखितं पत्रं लिखत।-5

3. मञ्जूषायाः उचितानि पदानि विचित्य कथां पूरयत -1/2×105

राज्ञः भोजस्य दर्शनाय सः कलिङ्गदेशम् (i)----- मासं यावत् तत्र न्यवसत्, परं सः राजानं नापश्यत् । तस्य (ii)----- अपि परिसमाप्तम् । (iii)------ नृपः (iv)----- बहिर्निर्गतः। तदा कविः राजानं (v)----- अकथयत्- श्री भोजराजं पश्यन्नेव तत्क्षणं रिपोः शस्त्रं, कवेः कष्ट, मृगीदृशां नीवीबन्धः च भूमौ (vi) ---। तच्छ्रुत्वा राजा कवये (vii)------ ददौ यदा राजा मृगयासक्तः आसीत् तदा कश्चित् व्याध सुतः एक गीतम् अगायत् । गीतस्य (viii)----- प्रसन्नो भूत्वा राजा (ix) --- पञ्चलक्षं (x)

मञ्जूषा-

मृगयाभावेन, पाथेयम्, दृष्ट्वा, माधुर्येण, गायकाय, लक्षं द्वौ, पतन्ति, उपेत्य, एकदा

4. मञ्जूषायाः उचितानि वाक्यानि चित्वा वार्तालापं पूरयत -

प्रज्ञा - रमे ! किं त्वम् ओदनं पचसि ?

रमा -I.------------------------------

प्रज्ञा - तदनन्तरं त्वं किं करिष्यसि ?

रमा -II------------------------------

प्रज्ञा - ह्यः अहमपि गीताम् अपठम् ।

रमा-III-----------------------------

प्रज्ञा - किं त्वमद्य विद्यालयं गमिष्यसि ?

रमा-IV-----------------------------

प्रज्ञा - अहमपि विद्यालयं गमिष्यामि ।

रमा -V------------------------------

मञ्जूषा-

अधुना मया पत्राणि लिख्यन्ते । तदनन्तरं मया गीता पठिष्यते । आम्, मया ओदनं पच्यते । आम्, अद्य अहं विद्यालयं गमिष्यामि । मया सह एव चल ।

खण्ड - ग

( अनुप्रयुक्त व्याकरणम् )

5. अधोलिखितशब्दान् सन्धि-विच्छेदं कृत्वा लिखत - 1x6 = 6

(i) गणेशः

(ii)भवनम्

(iii)प्रश्नोत्तरः

(iv)अध्यात्मम्

(v) वनौषधिः

(vi)राजर्षिः।

 6. अधोलिखितानां समस्तपदानां विग्रहान् लिखत -1x6 = 6

 (i) रामलक्ष्मणौ

(ii) राजपुरुषः

(iii)घनश्यामः

(iv)नीलकमलम्

(v) द्वादश

(vi) विद्याहीनः।

7. अधोलिखित वाक्येषु प्रकृति-प्रत्ययान् संयुज्य वाक्यपूर्ति कुरुत-1x8=8

(i) सः दुग्धं (पा+क्त्वा) -----खेलति।

(ii) सत्यं एव (वच् + अनीयर्) -----।

(iii) रामः रावणम्(हन् +तुमुन्) ----- लङ्कां गतवान्।

(iv) सःआपणं (गम्+क्त्वा) ----तण्डुलान् क्रीणाति।

(v) माता पुत्रम् (त्यज्+क्त्वा) -कदापि सुखी न भवति।

(vi) वृद्धां सदैव (सेव् + तव्यत्) ----।

(vii) मम पिता प्रातःकाले (भ्रम् + तुमुन्) ----- गच्छति।

 (viii) मम भगिनी कार्यम् (कृ+क्त्वा) - पठति। 

8. अधोलिखितेषु वाक्येषु विशेषण-विशेष्य अन्वितिम् -1x5=5

 (i) पितरौ -----। (वद्) ।

(ii) तैः सिंहाः -----। (दश)

(iii) अहम् ---- मित्रम् अपश्यम्। (स्वन्)

(iv) ताः बालिकाः नाट्यशालायाम् -----। (नृत्)

(v) ----- राजानः अधावन्। (तद्)

9.उचितविभक्तिकं पदं चित्वा रिक्तस्थानानि पूरयत-1x5=5

(i) ..................... परितः वृक्षाः सन्ति । ( ग्राम )

(ii) मम .......... निकषा उद्यानम् अस्ति । (विद्यालय )

(iii) बालकः ................. स्पृहयति । ( क्रीडनक)

(iv) पिता............ कङ्कणं ददाति । ( पुत्री )

 (v)सेविका ................. सम्मार्जनं करोति । ( भूमि )

 खण्ड-घ

( पठितांश अवबोधनम् )

10.अधोलिखित गद्यांश पठित्वा तदाधारितप्रश्नानाम् उत्तराणि निर्देशानुसार

लिखत (निम्नलिखित गद्यांशको पढ़कर उन पर आधारित प्रश्नों के उत्तर

लिखें) :

अथ प्रथिवीनिरूपणम्-पृथिव्याः सप्तभेदाः। ते च भेदाः सप्तपुटान्युच्यन्ते।तानि च पुटानि-अतल-वितल-सुतल-तलातल-रसातल पातालाख्यानि। अस्मन्मतेऽपि सप्तभेदाः। यथाऽस्मद्वेदे श्रूयते परमेश्वरो यथा सप्तगगनानि तद्वत् पृथिव्याः सप्तविभागान् कृतवान्।अथ पृथिव्याः विभागनिरूपणं यत्र लोकास्तिष्ठन्ति। तस्याः दार्शनिकैः सप्तधा विभागः कृतस्तान् विभागान् सप्त अअक्लिम इति वदन्ति।

(क) एक पदेन उत्तरत (एक शब्द में उत्तर दें): 1/2✕2=1

(i) पृथिव्याः कति भेदाः?

(ii) ते भेदाः किम् उच्यन्ते

(ख) पूर्ण वाक्येन उत्तरत (एक वाक्य में उत्तर दें): 1x2=2

(i) पृथिव्याः सप्तपुटानां नामानि कानि सन्ति

(ii) अस्मद्वेदे किम् श्रूयते

(ग) यथानिर्देशम् उत्तरत (निर्देश के अनुसार उत्तर दें): 1x2=2

'गगनानि’ इति पदस्य विशेषणम् अत्र किं प्रयुक्तम्

11.अधोलिखित पद्यांश पठित्वा तदाधारित प्रश्नानाम् उत्तराणि

पढ़कर उन पर आधारित प्रश्नों के उत्तर लिखें) :

न कर्मणामनारम्भान्नैष्कर्म्यम् पुरुषोऽश्नुते।

न च सन्यसनादेव सिद्धिं समधिगच्छति ॥

प्रश्नाः

(क) एकपदेन उत्तरत (एकशब्द में उत्तर दें): 2x1=2

(i)न कर्मणामनारम्भान्नैष्कर्म्यम् कः अश्नुते। ?

(ii) सन्यसनादेव किं न सिद्धिं समधिगच्छति ?

(ख) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें): 1x2=2

(i) केन प्रकारेण नैष्कर्म्यम् पुरुषोऽश्नुते ?

(ii) केन प्रकारेणन सिद्धिं समधिगच्छति ?

(ग)निर्देशानुसारं उत्तरत (निर्देश के अनुसार उत्तर दें):1x2=2

‘मनुष्यः' इत्यस्य अत्र किं पर्यायपदं प्रयुक्तम् ?

12. अधोलिखित नाट्यांश पठित्वा तदाधारित प्रश्नानाम् उत्तराणि

निर्देशानुसार लिखत(निम्नलिखित नाट्यांश को पढ़कर उन पर

आधारित प्रश्नों के उत्तर लिखें) :

जनकः- अये, शिष्टानध्याय इत्यस्खलितं खेलतां वटूनां कोलाहलः। 
कौसल्या- सुलभसौख्यमिदानीं बालत्वं भवति। अहो, एतेषां मध्ये क एष रामभद्रस्य मुग्धललितैरङ्गैर्दारकोऽस्माकं लोचने शीतलयति?

अरुन्धती-कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो वटुपरिषद पुण्यश्रीकः श्रियैव सभाजयन् ।

पुनरपि शिशुर्भूतो वत्सः स मे रघुनन्दनो

झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ॥

जनकः-(चिरं निर्वर्ण्य ) भोः किमप्येतत्।।

महिम्नामेतस्मिन् विनयशिशिरो मौग्ध्यमसृणो विदग्धैर्निर्ग्राह्यो न पुनरविदग्धैरतिशयः।मनो मे संमोहस्थिरमपि हरत्येष बलवान् अयोधातुं यद्वत्परिलघुरयस्कान्तशकलः॥

प्रश्नाः

(क) एकपदेन उत्तरत (एकशब्द में उत्तर दें): 1/2x2=1

(i)अत्र केषां कोलाहलः?

(ii)सुलभसौख्यं कदा भवति?

(ख) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें): 1x2=2

(i)नेपथ्ये कोलाहलं श्रुत्वा जनकः किं कथयति ?

 (ii)लवः कम् अनुसरति ?

(ग) यथानिर्देशम् उत्तरत (निर्देश के अनुसार उत्तर दें)।-1☓1=1

'इत्यस्खलितम्' इत्यस्य सन्धिविच्छेदं लिखत।

13.अधोलिखित श्लोकस्य अन्वयै पूरयित्वा पुनः लिखत :

(निम्नलिखित श्लोक का अन्वय पूरा कर पुनः लिखें):-1☓4=4

विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः।

 यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्॥

अन्वयः-  विपदि धैर्यम्----क्षमा सदसि वाक्पटुता युधि---- 

 यशसि अभिरुचिः---- च व्यसनं  इदं हि----  प्रकृतिसिद्धम्।

14.अधोलिखितस्य श्लोकस्य अन्वयं लिखत -4

सुखदुःखसमे कृत्वा लाभालाभौ जयाजयौ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥

15.सम्बद्धाः पङ्क्ति मेलयत-2x2=4

(क)न हि कश्चित्क्षणमपि (i)कार्यं कर्म समाचर।

(ख)कार्यते ह्यवशः कर्म (ii)परमाप्नोति पुरुषः ।

(ग)तस्मादसक्तः सततं (iii)जातु तिष्ठत्यकर्मकृत।

(घ)असक्तो ह्याचरन्कर्म (iv)सर्वः प्रकृतिजैर्गुणैः।

 16. अधोलिखित वाक्येषु कर्तृक्रियापदयोः अन्वितिं क्रियताम् -4

(क)मम दायित्वहस्तान्तरणपत्रक------।(सज्जीकुरु,सज्जीकरोमि)

(ख) कार्यालयलिपिकः श्रीदासः----।(प्रविशसि,प्रविशति)

(ग)योगशास्त्रे शरीरस्य मनसः च

नियमनं प्रतिपादितं----।(वर्तते,भविष्यति)

(घ)दिवसत्रयात्परं कार्यालये पत्रमेकम्----(गतम्,आगतम्)

17. निम्नलिखित पदेषु कः प्रत्ययः इति निर्दिशत -4

(क)त्यक्त्वा

(ख)पठन्

(ग)ज्ञातुम्

 (घ)कर्त्तव्यम्

 खण्ड -ङ

(संस्कृत साहित्य परिचयः)

18. अधोलिखित-ग्रन्थानां लेखकस्य नामानि लिखत -5

(i)रघुवंशम्

(ii)शिवराजविजयः

(iii)उत्तररामचरितम्

(iv)योगसूत्रम्

(v)महाभारतम्,

19. अधोलिखित विधासु कामपि एकाम् अवचित्य वैशिष्ट्यं प्रतिपादयत -5

(i) नाटकम् (ii) गद्यकाव्यम्, (iii)चम्पूकाव्यम्

 

 

विविध प्रश्न-3

 संस्कृत आदर्श प्रश्नपत्रम्-5

CLASS-XII,

Full Marks - 100 Pass Marks - 33

 Time - 3 Hours

Candidates are required to give their answers in their own words as far as

practicable.

परीक्षार्थी यथासंभव अपने शब्दों में ही उत्तर दें।

Figures in the margin indicate full marks.

उपांत के अंक पूर्णांक निर्दिष्ट करते हैं।

Answer all questions.

सर्वेषां प्रश्नानामुत्तरं लिखत । (सभी प्रश्नों के उत्तर लिखें)

खण्ड - क

( अपठितांश अवबोधनम् )

1. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत - 10

मातृभूमिः पुत्रोऽहं पृथिव्याः इत्यस्ति वेदवाक्यम् । जन्मदात्री माता एव केवलं माता न भवतिजन्मभूमिरपि अस्माकं माता । अस्याः जन्मभूम्याः ऋणं प्रत्येकम् अपि देशवासिने वर्तते । यस्य देशस्यअन्नेन अमृततुल्येन जलेन वायुना च प्राणान् धारयामः वयं कदापि तस्मात् अनृणाः भवितुं न शक्नुमः । यस्मिन् देशे जनाः स्वदेशस्य सुखदुःखाभ्यां निश्चिन्ताः केवलं स्वार्थ साधयन्ति सः देश: कालक्रमेण विनाशं लभते । परं यस्य देशवासिषु देशसेवायाः उत्कृष्टाः भावनाः अवसरे प्राप्ते सति आत्मार्पणमपि कुर्वन्ति, तेषां देशः उन्नतेः उन्नततमे शिखरे विराजते ।

प्रश्नाः

(क) एकपदेन उत्तरत -1x2=2

(i) जन्मभूमिरपि अस्माकं का ?-1

(ii) जन्मभूम्याः ऋणं कस्मै वर्त्तते ?-1

(ख) पूर्णवाक्येन उत्तरत -2x2=4

(i) कः देशः उन्नतेः उन्नततमे शिखरे विराजते ?-2

(ii) जन्मभूम्याः ऋणं कस्मै वर्त्तते ?-2

(ग) निर्देशानुसारम् उत्तरत -1x2=2

(i) 'अस्याः ऋणम्' अत्र अस्याः सर्वनामपदं कस्मै प्रयुक्तम् ?-1

(ii) 'ऋण रहिताः' अस्मिन् अर्थे किं पदं गद्यांशे प्रयुक्तम् ?-1

(घ) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।-

2 खण्ड -ख

(संस्कृतेन रचनात्मकं लिखितकार्यम् )

2.शुल्कक्षमाम् अधिकृत्य प्राचार्यं प्रति आवेदनपत्रं लिखत।-5

3. मञ्जूषायाः उचितानि पदानि विचित्य कथां पूरयत -1/2x10 = 5

वसन्तर्तुः ऋतूणां (i)----- कथ्यते। (ii)------ अयं (iii)------- ऋतुराजवसन्तनाम्ना (iv) प्रकृतिः ऋतुराजवसन्तस्य (v)----- अभिनन्दनं स्वागतं (vi)------- करोति । वसन्तः प्रकृति-कामिन्याः (vii) - करोति । वस्तुतः वसन्तः प्रकृतेः (viii)----- अस्ति । यतः अस्य ऋतोः (ix)-------- प्रकृतिः (x) जायते।

मञ्जूषा- शृंगारम्, ऋतुः, आगमनेनैव, राजां, तारुण्यम्, अतएव, आकार्यते, प्रफुल्लिता, हार्दिकम, च

4. मञ्जूषायाः उचितानि वाक्यानि चित्वा वार्तालापं पूरयत -5

 

राघवः - भो रमणीक ! भवान् कथम् ईदृशः महान् जातः ?

रमणीकः – (i)-----

राघवः - भोः ! कथं मूर्खाणां कृपया भवान् बुद्धिमान् जातः ?

रमणीकः – (ii)-----।

राघवः – एवम् । परेषाम् अनुभवात् शिक्षां गृहीत्वा भवान् बुद्धिमान् जातः किम् ?

रमणीक: – (iii)-----

राघवः – कः तावत् मूर्खः ?

रमणीकः – (iv) ।

राघवः - कः तावत् मूर्खतमः ?

रमणीक: – (v)

मञ्जूषा- सत्यम् । यः परेषाम् अनुभवात् शिक्षते सः एव बुद्धिमान् ।, यः न अन्यस्य न चापि आत्मनः अनुभवात् शिक्षते।, यः परस्य अनुभवात् न शिक्षते, पुनः आमूलात् प्रयत्न करोति, मूर्खाणां कृपया एव ।, आम्। अहं मूर्खेः कृतानि कार्याणि अपश्यं तानि अत्यजम्

खण्ड - ग

( अनुप्रयुक्त व्याकरणम् )

5. अधोलिखितशब्दान् सन्धि-विच्छेदं कृत्वा लिखत - 1x6 = 6

(क) देवर्षि

(ख) तथैव

(ग) चयनम्

(घ) मात्रादेशः

(ङ) लघूर्मिः

 (च) प्रत्यहम् ।

6. अधोलिखितानां समस्तपदानां विग्रहान् लिखत -1x6 = 6

(i) कुलपतिः,

(ii) गजराजः,

(iii) महादेवः,

(iv) महानदी,

(v) नीलकमलम्,

(vi) चौरभयम्

7. अधोलिखित वाक्येषु प्रकृति-प्रत्ययान् संयुज्य वाक्यपूर्ति कुरुत -1x8 =8 (i) (पूज्+अनीयर्) ............. सर्वत्र पूज्यते ।

(ii) रामः रावणं (हन् + क्त्वा) .............स्वगृहम् आगतवान्।

(ii) उत्तमः छात्रः प्रतिदिनं ( पठ् + तुमुन् ) ....विद्यालयं गच्छति ।

(iv) त्वया सर्वदा सत्यं ( वद् + अनीयर् ) .......।

(v) प्रथमं राष्ट्र ( रक्ष् +तव्यत्).............. ततः उत्सवाः इति ।

(vi) शिष्येण गुरोः आज्ञा ( पाल् + अनीयर् ) ............।

(vii) छात्रैः अध्ययनम्(कृ +तव्यत्)................।

(viii)मोहनः गृहं(गम्+ क्त्वा)................खादति।

8. अधोलिखितेषु वाक्येषु विशेषण-विशेष्य अन्वितिम् -1x5 = 5

 (i) पुस्तके ............... चित्राणि सन्ति । ( अनेक )

(ii) गोपालस्य हस्ते ........... पेटिका वर्त्तते । ( एक )

(iii) सर्वे जनाः ................ सन्ति ।( प्रसन्न )

(iv) गृहस्य प्राङ्गणे पुष्पपादपाः ................ । ( रोपनीय )

 (v) पर्यावरणस्य विनाशकः .................. स्यात् । ( दण्डित )

 9.उचितविभक्तिकं पदं चित्वा रिक्तस्थानानि पूरयत -1x5 = 5

(i) ――― जनाः सुखम् कामयन्ते । (सर्व)

(ii) सूर्यः――― दिशि उदेति । (पूर्व )

(iii) लता परीक्षायाम् ――― आसीत् । (प्रथम)

(iv) रामः धावेन――― आसीत् । (द्वितीय)

 (v) बालकय मोदकं――― (रोचते/रुचति)

खण्ड-घ

( पठितांश अवबोधनम् )

10.अधोलिखित गद्यांश पठित्वा तदाधारितप्रश्नानाम् उत्तराणि निर्देशानुसार

लिखत (निम्नलिखित गद्यांशको पढ़कर उन पर आधारित प्रश्नों कश

लिखें) :

 सप्त समुद्राः अस्मद्वेदेऽपि प्रकटाः भवन्ति।वृक्षाःलेखनी भवेयुः

समुद्रोऽपि मसी भवेत्,परं भगवद्वाक्यानि समाप्तानि न भवन्ति। प्रतिद्वीपं

प्रतिपर्वतं प्रतिसमुद्रं नानाजातयोऽनन्ता जन्तवस्तिष्ठन्ति। या पृथिवी ये

पर्वताः ये समुद्रा सर्वाभ्यः पृथिवीभ्यः सर्वेभ्यः पर्वतेभ्यः सर्वेभ्यः समुद्रेभ्यः

उपरि तिष्ठन्ति तान् 'स्वर्गं' इति वदन्ति। या पृथिवी ये पर्वताः ये समुद्राः

सर्वाभ्यः पृथिवीभ्यः सर्वेभ्यः पर्वतेभ्यः सर्वेभ्यः समुद्रेभ्योऽधो भागे तिष्ठन्ति

स 'नरक' इति वदन्ति।निश्चितं किल सिद्धैः स्वर्गनरकादिकं सर्वं

ब्रह्माण्डान्न किञ्चिद्वहिरस्तीति।ते सप्तगगनाश्रिताः सप्त ग्रहाः स्वर्गं परितो

मेखलावत् परिभ्रमन्तीति वदन्ति; न स्वर्गस्योपरि। अथ स्वर्गस्य यदि मन

आकाशं जानन्ति अस्मदीयास्तमर्श इति वदन्ति। स्वर्गभूमिं कुर्शीति

वदन्ति।

(क) एक पदेन उत्तरत (एक शब्द में उत्तर दें): 1/2✕2=1

(i) कति समुद्राः अस्मद्वेदेऽपि प्रकटाः भवन्ति

(ii) कानि समाप्तानि न भवन्ति

(ख) पूर्ण वाक्येन उत्तरत (एक वाक्य में उत्तर दें): 1x2=2

(i)प्रतिद्वीपं,प्रतिपर्वतं,प्रतिसमुद्रं के तिष्ठन्ति

(ii) कान् 'स्वर्गं' इति वदन्ति

(ग) यथानिर्देशम् उत्तरत (निर्देश के अनुसार उत्तर दें): 1x2=2

'जन्तवः' इति पदस्य विशेषणम् अत्र किं प्रयुक्तम्

11.अधोलिखित पद्यांश पठित्वा तदाधारित प्रश्नानाम् उत्तराणि

निर्देशानुसार लिखत(निम्नलिखित गद्यांश, पद्यांश एवं नाट्यांश को

पढ़कर उन पर आधारित प्रश्नों के उत्तर लिखें) :

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥

प्रश्नाः-

(क) एकपदेन उत्तरत (एकशब्द में उत्तर दें): 2x1/2=1

(i)बुद्धियुक्तो किं जहाति

(ii) कर्मसु किम् कौशलम्

(ख) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें): 1x2=2

(i)कः सुकृतदुष्कृते उभे जहाति

(ii) कदा योगाय युज्यते

(ग)निर्देशानुसारं उत्तरत (निर्देश के अनुसार उत्तर दें):1x2=2

‘बुद्धिमान्' इत्यस्य अत्र किं पर्यायपदं प्रयुक्तम्?

12. अधोलिखित नाट्यांश पठित्वा तदाधारित प्रश्नानाम् उत्तराणि

निर्देशानुसार लिखत(निम्नलिखित नाट्यांश को पढ़कर उन पर

आधारित प्रश्नों के उत्तर लिखें) :

स्वप्निलः- बलराम! अद्य कक्षायां कोऽपि विशिष्टः कार्यक्रमः?

बलरामः-अरे मित्र! त्वं न जानासि? इदानीं तु योगशिक्षायाः कालांशः।

मोहिनी-एषः तु नूतनः विषयः। किं प्रतिदिनम् ईदृशी कक्षा प्रचलिष्यति? बलरामः-आम्, अधुना तु अस्माकं कृते योगशिक्षा अतीव उपयोगिनी आस्ति।

सागरिका-अहो! सुखदमाश्चर्यम्।अहमपि गृहे मातुः मुखाद् योगशिक्षायाः विषये श्रुतवती। तया उक्तम्- 'योगः स्वास्थ्यकरः।'

सागरः-कि विद्याध्ययनेऽपि अस्योपयोगः वर्तते?

मोहिनी-आम्,अस्मिन् विषये योगशिक्षकः, विशेषरूपेण वदिष्यति।

(योगशिक्षकः कक्षायां प्रविशति)

छात्राः-नमो नमः आचार्य! स्वागतम् अत्र भवतां कक्षायाम्।

योगाचार्यः-छात्राः! भवन्तः सम्प्रति समुत्सुकाः दृश्यन्ते। काऽपि विशिष्टा जिज्ञासाअस्ति किम्?

सागरः-भो आचार्य! वयं सर्वे योगस्य उपयोगितायाः विषये सम्यग्रूपेण ज्ञातुम् उत्सुकाः स्मः।

प्रश्नाः

(क) एकपदेन उत्तरत (एकशब्द में उत्तर दें): 1/2x2=1

(i)मातुः मुखाद् योगशिक्षायाः विषये का श्रुतवती

(ii)छात्राः कस्मिन् विषये ज्ञातुम् उत्सुकाः सन्ति

(ख)पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें)-2x1=2

(i)योगः कः कथ्यते

 (ii)अधुना योगशिक्षा कीदृशी आस्ति

(ग) यथानिर्देशम् उत्तरत (निर्देश के अनुसार उत्तर दें)।-1

 'अस्योपयोगः' इत्यस्य सन्धिविच्छेदं लिखत।

13.अधोलिखित श्लोकस्य अन्वयै पूरयित्वा पुनः लिखत :

(निम्नलिखित श्लोक का अन्वय पूरा कर पुनः लिखें):

विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः।

यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्।।

अन्वयः-विपदि---अथाभ्युदये क्षमा---वाक्पटुता युधि विक्रमः

यशसि अभिरुचि श्रुतौ---च हि इदं--- प्रकृतिसिद्धम्

14.अधोलिखितस्य श्लोकस्य अन्वयं लिखत -

स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः।

विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्॥

15.सम्बद्धाः पङ्क्ति मेलयत-2x2=4

(क)मनसि वचसि काये (i)निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ।

(ख)परगुणपरमाणून् पर्वतीकृत्य नित्यं (ii)पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः

(ग)केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला: (iii)क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।

 (घ) वाण्येका समलङ्करोति पुरुष या संस्कृता धार्यते (iv)न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः।16. अधोलिखित वाक्येषु कर्तृक्रियापदयोः अन्वितिं क्रियताम् - 1☓4=4

(क)किं प्रतिदिनम् ईदृशी कक्षा---- ?(प्रचलिष्यन्ति,प्रचलिष्यति)

(ख)अधुना मम गमनसमयः----एव।(समुपागत,समुपागत्वा)

(ग)योगाचार्यः पाठमाध्यमेन योगशिक्षा---- ।(शिक्षति,शिक्षयति) 

(घ)सप्त पर्वतान् सप्त कुलाचलान्----।(वदन्ति,वदति)

17. निम्नलिखित पदेषु कः प्रत्ययः इति निर्दिशत -1☓4=4

(क)राजितम्

(ख)दैष्टिकता

(ग)कुर्वाणः

 (घ)विमृश्य

खण्ड -ङ

(संस्कृत साहित्य परिचयः)

18. अधोलिखित-ग्रन्थानां लेखकस्य नामानि लिखत -5

(i)रामायणम्

(ii)समुद्संगमः

(iii)अभिज्ञान शाकुन्तलम्,

(iv)प्रबन्ध परिजातः

(v) हर्षचरितम्

19. अधोलिखित विधासु कामपि एकाम् अवचित्य वैशिष्ट्यं प्रतिपादयत -5

(i)चम्पूकाव्यम्

(ii) नायकः

(iii)महाकाव्यम्

 

 

संस्कृत आदर्श प्रश्नपत्रम्-2026 हेतु

 संस्कृत आदर्श प्रश्नपत्रम्-1

 कक्षा-द्वादशः

पूर्णाङ्काः - १००
उत्तीर्णाङ्काः - ३३
समय - ३ घण्टा
अभ्यर्थिनः यथाशक्ति स्वशब्देषु उत्तरं दद्युः।
अन्ते चिह्नानि पूर्णचिह्नं सूचयन्ति ।
सर्वेषां प्रश्नानामुत्तरं लिखत । भाग-अ                                                                                                                                         (बहुविकल्पीय प्रश्नः )                                                                                                                                        प्रश्नसङ्ख्या १ तः ३० पर्यन्तं बहुविकल्पप्रकारः भवति।प्रत्येकस्य प्रश्नस्य चत्वारः विकल्पाः सन्ति । सम्यक् विकल्पं चित्वा उत्तरपत्रे लिखन्तु। प्रत्येकं प्रश्नः १ अङ्कस्य अस्ति। -1 x 30 = 30                                                                    प्रश्न संख्या 1-30 वस्तुनिष्ठप्रश्नाः सन्ति ।                                                                                                                सर्वे प्रश्नाः समानाङ्काः ।                                                                                                                                    सर्वे प्रश्नाः अनिवार्याः ।                                                                                                                                        प्रदत्तेषु विकल्पेषु समुचितम् उत्तरं चिनुत ।                                                                                        अपठितांश-अवबोधनम्-
निर्देश-अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः उत्तरत-
अनुच्छेदः-
अस्माकं जीवने पदे पदे प्रत्येक कार्येषु विज्ञानं व्याप्तमस्ति।विज्ञानस्य चमत्कारान् दृष्ट्वा वयम् आश्चर्य कुर्मः।सर्वेषु
क्षेत्रेषु एवं  विज्ञानस्य    लाभाः  दृश्यन्ते। अद्य  वयं वाष्पयानेन  देशदेशान्तरेषु  परिभ्रमामः।  पोतेन अनायासं नदीः
समुद्रांश्च तरामः। विमानेन आकाशे स्वच्छन्दंविहरामः।अद्यतुराकेट यानेन तु चन्द्रमसि  अपि भ्रमणाय प्रयत्नं कुर्मः।
अद्य अस्माकं जीवने विद्युतः उपयोगं तु सर्वत्र दृश्यते मोटर,बस,कार, स्कूटर  इत्यादिभिः  यानैः तु वयं  प्रतिदिनं
प्रतिपलं च गमनागमनं कुर्मःअद्य अस्माकं जीवने विद्युतः उपयोगं तु सर्वत्रदृश्यते रात्रीणां अन्धकारे   विद्युद्दीपकं
प्रज्वाल्य सर्वत्र प्रकाशं कुर्मः। विद्युतः  प्रभावेण  व्यजनानि  चलन्ति, रोमाञ्चकारीणि दारूणेऽपि  शिशिरे शैत्यभयं
न भवति। उद्योगक्षेत्रेषु विद्युतः शक्त्या मुद्रणयन्त्राणि, अनेकानि लौहमयानि यन्त्रोपकरणानि चलन्ति । तेभ्यः
नवीनानि वस्तूनि निर्मीयन्ते।
1.अद्य वयं देशदेशान्तरेषु कथं परिभ्रमामः?
क. उष्ट्रयानेन
ख. वाष्पयानेन
ग. पदयात्रया
घ. नाविकयानेन
2. रात्रीणाम् अन्धकारे प्रकाशं किम् उपयुज्य कुर्मः?
क. अग्निदीपेन
ख. तैलदीपेन
ग. विद्युद्दीपेन
घ. चन्द्रप्रकाशेन
3. उद्योगक्षेत्रेषु यानि यन्त्राणि विद्युतः शक्त्या चलन्ति, तानि किमर्थं प्रयुज्यन्ते?
क. जले क्रीडनार्थम्
ख. पुस्तकलिपेः नाशनार्थम्
ग. नवीनवस्तुनिर्माणार्थम्
घ. वृक्षच्छेदनार्थम्
4. दारूणे शिशिरे शैत्यभयं न भवति—अस्य कारणं किम्?
क. तैलदीपकस्य तापः
ख. विद्युतः प्रभावः
ग. सूर्यप्रकाशः
घ. अग्निकुण्डस्य उष्णता
5. अस्माकं जीवने विज्ञानस्य कः उपयोगः दृश्यते?
क. केवलं कृषौ
ख. केवलं शिक्षायाम्
ग. सर्वत्र, प्रतिपलं
घ. केवलं यानमार्गे
पठितावबोधनम्- 
निर्देश : 
अधोलिखितं गद्यांशं, पद्यं, नाट्य च पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः उत्तरत-- 
गद्यांशः-
 श्रीनायारः केन्द्रसर्वकारतः स्थानान्तरणेन आगत्य ओडिशासर्वकारस्य अधीने प्रायः वर्षत्रयेभ्यः कार्यं करोति। तथाप्यस्मिन् वर्षत्रयात्मके कालखण्डे एकवारमपि स्वराज्यं केरलं प्रति गमनाय इच्छां न प्रकटितवान् । स स्वल्पभाषी, अतस्तस्य मनःकथा मनोव्यथा वा बोधगम्या नास्ति। सन्तुलितो वार्तालापः, साक्षात्समये आगमनम्, ततः सञ्चिकासु मनोनिवेशः, कार्यं समाप्य स्वगृहं प्रत्यागमनञ्च तस्य वैशिष्ट्यमासीत्। तस्य कर्मनैपुण्यं दृष्ट्वा एव ओडिशासर्वकारस्तं स्थानान्तरणेन स्वीकृत्य खाद्यापूर्तिविभागे सचिवपदे नियुक्तवान् । गतस्य वर्षत्रयस्य आकलनात् ज्ञायते यद् विभागस्य कार्यनैपुण्यं दशगुणैः वर्धितम्। खाद्ये अपमिश्रणं न्यूनीभूतम्। अत उपभोक्तृणामपि अभियोगो नास्ति विभागस्य विपक्षे। मन्त्रिणां मध्येऽपि तस्य सुख्यातिः वर्तते।
6. श्रीनायरस्य मूलराज्यं किम्?
क. ओडिशाराज्यम्
ख. केरळराज्यम्
ग. तमिळनाडुराज्यम्
घ. कर्नाटकराज्यम्
7. श्रीनायरः ओडिशासर्वकारस्य अधीने कतिवर्षाणि कार्यं करोति?
क. एकवर्षम्
ख. द्विवर्षम्
ग. त्रिवर्षम्
घ. पञ्चवर्षम्
8. श्रीनायरः कस्य विभागस्य सचिवपदे नियुक्तः?
क. स्वास्थ्यविभागः
ख. खाद्यापूर्तिविभागः
ग. शिक्षाविभागः
घ. वित्तविभागः
9. श्रीनायरस्य कार्यकालस्य परिणामरूपेण विभागस्य कार्यनैपुण्यं कतिगुणं वर्धितम्?
क. द्विगुणम्
ख. पञ्चगुणम्
ग. दशगुणम्
घ. विंशतिगुणम्
10. अधोलिखितेषु कः गुणः श्रीनायरस्य न विशेषलक्षणम्?
क. सन्तुलितः वार्तालापः
ख. समये कार्यालयागमनम्
ग. अतिबहुभाषणप्रियता
घ. कार्यं समाप्त्य गृहं प्रत्यागमनम्
पद्यम्-
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।                                                                                                        तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्।।
11. ‘ईशावास्यमिदं सर्वम्’ इति मन्त्रे किम् उक्तम्?
क. सर्वं मानववशम्
ख. सर्वं ईश्वरवशम्
ग. सर्वं राजवशम्
घ. सर्वं प्रकृतिवशम्
12. ‘यत्किञ्च जगत्यां जगत्’ इत्यस्य अर्थः कः?
क. केवलं पर्वताः एव
ख. केवलं नद्या एव
ग. यत्किञ्च विश्वे अस्ति सर्वम्
घ. केवलं वनस्पतयः
13. ‘तेन त्यक्तेन भुञ्जीथा’ इत्यस्य संदेशः कः?
क. परधनं चोरय
ख. केवलं धनं सञ्चय
ग. त्यागभावेन भोगं कुरु
घ. सर्वं परित्यज्य जीव
14. ‘मा गृधः’ इत्यनेन किम् निषिद्धम्?
क. अध्ययनम्
ख. कर्म
ग. लोभः
घ. दानम्
15. ‘कस्यस्विद्धनम्’ इत्यनेन कः भावः सूचितः?
क. धनं सर्वेषां समानम्
ख. धनं केवलं राज्ञः
ग. धनं केवलं कुटुम्बस्य
घ. धनं केवलं स्वस्य
नाट्यांशः- 
लवः:(प्रविश्य,स्वगतम्) क्रमौचित्यात् पूज्यानपि सतः कथमभिवादयिष्ये?,अविज्ञातवयः(विचिन्त्य) अयं पुनरविरुद्धप्रकार इति वृद्धेभ्यः श्रूयते। (सविनयमुपसृत्य) एष वो लवस्य शिरसा प्रणामपर्यायः।              अरुन्धतीजनकौ : कल्याणिन्! आयुष्मान् भूयाः।
अरुन्धती : एहि वत्स! (लवमुत्सङ्गे गृहीत्वा आत्मगतम्) दिष्ट्या न केवल-मुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः।
16. ‘लवः’ किम् चिन्तयन् प्रविशति?
क. कथं नृत्यं करिष्यामि?
ख. क्रमौचित्यात् पूज्यान् कथं अभिवादयिष्यामि?
ग. कुतः आगतोऽस्मि?
घ. किमर्थं अत्र तिष्ठामि?
17. लवः वृद्धेभ्यः किम् श्रुतवान्?
क. धनं सञ्चितव्यम्
ख. अभिवादनं निषिद्धम्
ग. अविरुद्धप्रकारः उचितः
घ. युद्धं करणीयम्
18. लवः वृद्धान् कथं प्रणमति?
क. पादौ प्रक्षालयन्
ख. हस्तेन आह्वाय
ग. शिरसा प्रणामं कृत्वा
घ. मौनेन स्थातुम्
19. अरुन्धतीजनकौ लवस्य अभिवादनस्य प्रत्युत्तररूपेण किम् वदतः?
क. स्वागतं ते
ख. धन्यः असि
ग. कल्याणिन्! आयुष्मान् भूयाः
घ. पुनः आगच्छ
20. अरुन्धती आत्मगतेन कः भावः सूच्यते?
क. तस्य क्रोधः
ख. दीर्घकालीनः मनोरथः पूर्णः अभवत्
ग. भयम् अनुभूतम्
घ. शोकः जातः
निर्देश: रेखांकित पदानि आधृत्य प्रश्ननिर्माणं कुरुत।
21. वयं विज्ञानस्य चमत्कारान्  दृष्ट्वा आश्चर्य कुर्मः।
क. कस्य
ख. किम्.
ग. केन
घ. कुत्र
22. वयं वाष्पयानेन देशदेशान्तरेषु परिभ्रमामः।
क. केन
ख. कस्य
ग. कदा
घ. कुत्र
23. नदीः समुद्रांश्च पोतेन  तरामः।
क. किम्.
ख. कुत्र
ग. केन
घ. कथम्
24. रात्रीणाम् अन्धकारे विद्युद्दीपकं प्रज्वाल्य प्रकाशं कुर्मः।
क. किम्.
ख. कस्य
ग. कुत्र
घ. कथम्
25. उद्योगक्षेत्रेषु विद्युतः शक्त्या मुद्रणयन्त्राणि  चलन्ति।
क. कुत्र
ख. कदा
ग. किम्
घ. कानि
निर्देशानुसारम्—उत्तरं चिनुत:
26. जनकादयः केन सिद्धिम् आस्थिताः ?
क. अकर्मणा
ख. विकर्मणा
ग. कर्मणा
घ. सत्कर्मणा
27. कस्मात् अर्थं निष्क्रष्टुम् रघुः चक्रम् ?
क. कृष्णात्
ख. इन्द्रात्
ग. कुबेरात्
घ. शिवात्
28. अकर्मणः किं ज्यायः?
क. कर्म
ख. विकर्म
ग. सत्कर्म
घ. कुकर्म
29. लक्ष्मीमदः कीदृशः ?
क. उपशमः
ख. अपरिणामः
ग. अपरिणामोपशमः
घ. सुखावहः
30. पापात् कः निवारयति ?
क. सन्त्रिमम्
ख. कुमित्रम्
ग. राजपुरुषः
घ. महाबलिः
( विषयनिष्ठ प्रश्न)
खण्ड -अ
( अति लघु उत्तरीय प्रश्नः)
कस्यापि षट् प्रश्नस्य उत्तरं ददातु।
निर्देश: अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तान् प्रश्नान् निर्देशानुसारम् उत्तरत -2x6-12                                             बाल्मीकिः लौकिक संस्कृतसाहित्यस्य आदि कविः मन्यतेः।तस्य रामायणं च आदि कविः मन्यते।रामायणस्य कथाविलक्षणा अस्ति। कथ्यते यत् एकदा बाल्मीकिः तमसा तीरे भ्रमण आसीत्।अकस्मात् तस्य दृष्टिः एकेन व्याधेनाशरेशविध्यामाने क्रौञ्चे अपतत् । एतत् कारूणिकं दृश्यं दृष्ट्वा सहसैव वाल्मीकि मुखात् एषा वाणी निस्सृता -                                                                                                                                                     "मा निषाद प्रतिष्ठा त्वमगमः शाश्वतोः समाः ।                                                                         यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।।
रामायणं भारतीयानां राष्ट्रकाव्यम् अस्ति । अयं ग्रन्थः भारतस्य पुरातन संस्कृतेः दर्पणः अस्ति । रामः आदर्श पुत्रस्य, आदर्श भ्रातुः, आदर्श नृपस्य च उदाहरणानि प्रस्तौति । लक्षणः कनीयसः भ्रातुरादर्शरूपं प्रस्तौति । सीता आदर्श भार्यायाः उदाहरणं प्रस्तौति । एवमेव दशरथः आदर्श पितुः हनुमान भक्तिमतः सेवकस्य सुग्रीवः च आदर्श मित्रस्य अनुकरणीयानि उदाहरणानि प्रस्तुवन्ति ।                                                                                                            31.‘आदि कविः’ इति पदसमूहस्य विशेषणं किम्?                                                                                            32.‘दृष्ट्वा’ इति पदं कस्य धातोः कृदन्तरूपं अस्ति?                                                                                              33.‘निस्सृता’ इति क्रियापदस्य लकारः कः?                                                                                                    34.यथानिर्देशम् उत्तरत -
(1)‘मन्यते’ इति धातोः पुरुषः कः?                                                                                                               (ii)‘रामायणम्’ इति पदस्य लिङ्गं किम्?                                                                                                             (iii)‘दृष्टिः’ इति पदस्य विभक्तिः कति?                                                                                                               (iv)‘अवतत्’ / ‘अपतत्’ इति क्रियापदस्य कालः कः?
 अधोलिखितं गद्यांश, पद्यं च पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत -
गद्यांशः
 इत्येवं विचार्य सर्वस्वदक्षिणं यज्ञं कर्त्तुमुपक्रान्तवान् । ततः शिल्पिभिरतीव मनोहरो मण्डपः कारितः। सर्वापि यज्ञसामग्री समहृता । देवमुनिगन्धर्वयक्षसिद्धादयश्च समाहूताः । तस्मिन्नवसरे समुद्राह्वानार्थं कश्चिद्ब्राह्मणः समुद्रतीरे प्रेषितः । सोऽपि समुद्रतीरं गत्वा गन्धपुष्पादिषोडशोपचारं विधायाब्रवीत् “भोः समुद्र ! विक्रमार्को राजा यज्ञं करोति । तेन प्रेषितोऽहं त्वामाह्वातुं समागतः ।" इति जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं स्थितः । कोऽपि तस्य प्रत्युत्तरं न ददौ । तत उज्जयिनीं यावत्प्रत्यागच्छति तावद्देदीप्यमानशरीरः समुद्रो ब्राह्मणरूपी सन् तमागत्यावदत् “भो ब्राह्मण, विक्रमेणास्मानाह्वातुं प्रेषितस्त्वं, तर्हि तेन यास्माकं सम्भावना कृता सा प्राप्तैव । एतदेव सुहृदो लक्षणं यत्समये दानमानादि क्रियते ।
प्रश्नाः
पूर्णवाक्येन उत्तरत -                                                                                                                              35.विक्रमार्कराजस्य यज्ञार्थं कं कार्यार्थं समुद्रतीरे प्रेषितवान्?                                                                               
36. निर्देशानुसारम् उत्तरत :
(1)‘उपक्रान्तवान्’ इति धातोः लकारः कः?
(ii)‘समाहूताः’ इति पदस्य वचनं किम्?
(iii)‘मनोहरः’ इति विशेषणस्य विशेष्यं किम्?
(iv)‘प्रत्यागच्छति इति क्रियापदस्य पुरुषः कः?
पद्यम् -
अप्यग्रणीमन्त्रकृतामृषीणां
कुशाग्रबुद्धे कुशली गुरुस्ते।
यतस्त्वया ज्ञानमशेषमाप्तं
लोकेन चैतन्यमिवोष्णरश्मेः॥
37. पूर्णवाक्येन उत्तरत -
(1) ऋषयः कस्य कारणेन  ‘अग्रणीमन्त्रकृताम्’ इति उच्यन्ते?                                                                              (ii) ज्ञानस्य उपमा कविना कस्य सह उपन्यस्ता?
38. यथानिर्देशम् उत्तरत -
(i)‘कुशाग्रबुद्धे’ इति पदस्य विभक्तिः कति?                                                                                              (ii)‘अप्तम्’  इति पदं कस्य धातोः कृतप्रत्ययरूपं अस्ति?
खण्ड -ब
(लघु उत्तरीय प्रश्नः)
कस्यापि षट् प्रश्नस्य उत्तरं ददातु। प्रत्येकं प्रश्नस्य उत्तरं अधिकतमं १५० शब्देषु ददातु।
39.अधोलिखितस्य श्लोकस्य अन्वये रित्तस्थानपूर्ति कुरुत-
सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणते हि विमश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥ 
अविवेकः सहसा (i)      न विदधीत;(यतः) अविवेकः(ii)       पदम् (भवति)।
हि सम्पदः स्वयमेव (iii)              वृणते,गुणलुब्धाः (सन्ति)।
40.वाक्यं शुद्ध कुरुत-
(क) त्वया पुस्तकं पठसि।
(ख) अहं कदा पठति ?
(ग) तत्र बहवः वृक्षाः आसीत् ।
41. उचितरुपैः रिक्तस्थानं पूरयत -                                                                                                         (क). ..................... परितः वृक्षाः सन्ति । ( ग्राम )                                                                     (ख). ――― जनाः सुखम् कामयन्ते । (सर्व)
42.प्रत्ययं संयोज्य लिखत-                                                                                                                       (क).उप + √क्रम् + क्तवतु                                                                                                                                 (ख). वि + अति + √क्रम् + ल्यप्
(ग).√ग्रह् + क्त्वा -
43.अधः समस्तपदानां विग्रहाः दत्ताः, तानाश्रित्य समस्तपदानि रचयत-
यथा-कुलस्य व्रतं कुलव्रतम् ।
(क).महान् अन्धकारः
(ख).पर्वतानां श्रेणी:
(ग). महान् उत्साहः
44. शब्दार्थं लिखत-
(क) दैववशेन -
(ख)भक्ष्यम् -
(ग) शिरसा-
45.रेखाङ्कितपदस्य विभक्ति तत् कारणं च लिखत-
(क) देशस्य भक्तिः देशभक्तिः कथ्यते।
(ख)युद्धक्षेत्रे वीराः देशस्य रक्षणार्थं स्वप्राणान् समर्पितवन्तः ।
(ग)राष्ट्रसंरक्षणाय परस्परम् एकतायाः भावना अपेक्षिता।
46. अधोलिखितपदानां सन्धि विच्छेदं वा कुरुत-
(क).स्वागतम्
(ख). कालांश:
(ग).सम्यग्रूपेण
खण्ड -स
(दीर्घ उत्तरीय प्रश्नः)-5x4-20
चतुर्णां प्रश्नानाम् उत्तरं ददातु। प्रत्येकं प्रश्नस्य उत्तरं अधिकतमं २५० शब्देषु ददातु।
47.श्लोकमेलनं कुरुत -
'अ''                                                   आ'
बुद्धियुक्तो जहातीह             जातु तिष्ठत्यकर्मकृत्।
कुर्वनेवेह कर्माणि                अन्धेन तमसाऽऽवृताः।
नीरक्षीरविवेके हंसालस्य     उभे सुकृतदुष्कृते।
न हि कश्चित्क्षणमपि             त्वमेव तनुषे चेत्।
असुर्या नाम ते लोका            जिजीविषेच्छतं समाः।
48.स्थानान्तरण प्रमाणपत्रं प्राप्तुं प्रधानाचार्यं प्रति लिखितं पत्रं लिखत।
49.गद्यकाव्यम् इति विधायाः वैशिष्ट्यं प्रतिपादयत।
50. अधोलिखितग्रन्थानां लेखकानां नामानि लिखत । (केवलं पञ्चानाम्)
(क) अभिज्ञानशाकुन्तलम् –
(ख) उत्तररामचरितम् –
(ग) श्रीमद्भगवद्गीता –
(घ) मृच्छकटिकम् –
(ङ) नीतिशतकम् –
(च) हितोपदेशः –
51. मञ्जूषासहायतया चित्रं दृष्ट्वा पञ्च चाक्यानि रचयत -
मन्जूषाः-योगासनम्,शान्तचित्तेन,उपविश्य,स्वस्थम्,मनःशान्तिम्।
52. मञ्जूषातः उचितसङ्केतान् गृहीत्या अधोलिखितां कथां पूरयित्वा पुनः लिखत-
मञ्जूषा :एकदा, उपेत्य, पाथेयम्, दृष्ट्वा, मृगयाभावेन, माधुर्येण
राज्ञः भोजस्य दर्शनाय सः कलिङ्गदेशम्(i) ________ (ii) ________ सं यावत् तत्र न्यवसत्, परं सः राजानं नापश्यत्।(iii) ________ नृपः (iv) ________ बहिर्निर्गतः।तदा कविः राजानं (v) ________ अकथयत्।



संस्कृत आदर्श प्रश्नपत्रम्-1

 कक्षा-द्वादशः
उत्तरम्-
भाग–अ : वस्तुनिष्ठ प्रश्न (1–30)

1. ख. वाष्पयानेन
2. ग. विद्युद्दीपेन
3. ग. नवीनवस्तुनिर्माणार्थम्
4. ख. विद्युतः प्रभावः
5. ग. सर्वत्र, प्रतिपलं

6. ख. केरळराज्यम्
7. ग. त्रिवर्षम्
8. ख. खाद्यापूर्तिविभागः
9. ग. दशगुणम्
10. ग. अतिबहुभाषणप्रियता

11. ख. सर्वं ईश्वरवशम्
12. ग. यत्किञ्च विश्वे अस्ति सर्वम्
13. ग. त्यागभावेन भोगं कुरु
14. ग. लोभः
15. क. धनं सर्वेषां समानम्

16. ख. क्रमौचित्यात् पूज्यान् कथं अभिवादयिष्यामि
17. ग. अविरुद्धप्रकारः उचितः
18. ग. शिरसा प्रणामं कृत्वा
19. ग. कल्याणिन्! आयुष्मान् भूयाः
20. ख. दीर्घकालीनः मनोरथः पूर्णः अभवत्

21. ग. केन
22. क. केन
23. ग. केन
24. क. किम्
25. घ. केन

26. ग. कर्मणा
27. ख. इन्द्रात्
28. क. कर्म
29. ग. अपरिणामोपशमः
30.क.सन्त्रिमम्

खण्ड–अ : अति लघु उत्तरीय (31–34)

31. ‘आदि’
32. √दृश्
33. लङ्लकारः

34.
(i) उत्तमपुरुषः
(ii) नपुंसकलिङ्गम्
(iii) प्रथमा
(iv) लङ्लकारः

गद्यांश (35–36)

35. विक्रमार्कराजः यज्ञार्थं समुद्राह्वानाय ब्राह्मणं समुद्रतीरे प्रेषितवान्।

36.
(i) क्तवतु
(ii) बहुवचनम्
(iii) मण्डपः
(iv) प्रथमपुरुषः

पद्यम् (37–38)

37.
(i) ऋषयः मन्त्रकर्तृत्वात् अग्रणीमन्त्रकृताम् उच्यन्ते।
(ii) ज्ञानस्य उपमा कविना सूर्यरश्मेः सह उपन्यस्ता।

38.
(i) सप्तमी
(ii) √आप्

खण्ड–ब : लघु उत्तरीय (39–46)

39. अन्वय–पूर्ति
(i) क्रियाम्
(ii) परमापदां
(iii) विमश्यकारिणम्

40. शुद्ध वाक्य
(क) त्वया पुस्तकं पठ्यते।
(ख) अहं कदा पठामि?
(ग) तत्र बहवः वृक्षाः आसन्।

41. रिक्तस्थान
(क) ग्रामस्य
(ख) सर्वे

42. प्रत्यय
(क) उपक्रान्तवान्
(ख) व्यतिक्रम्य
(ग) गृहीत्वा

43. समास
(क) महाऽन्धकारः
(ख) पर्वतश्रेणी
(ग) महोत्साहः

44. शब्दार्थ
(क) भाग्यवशेन
(ख) खाद्यवस्तु
(ग) मस्तकेन

45. विभक्ति
(क) षष्ठी – सम्बन्ध
(ख) षष्ठी – सम्बन्ध
(ग) चतुर्थी – प्रयोजन

46. सन्धि-विच्छेद
(क) सु + आगतम्
(ख) काल + अंशः
(ग) सम्यक् + रूपेण

खण्ड–स : दीर्घ उत्तरीय

47. श्लोक-मेलन

बुद्धियुक्तो जहातीह — उभे सुकृतदुष्कृते
कुर्वन्नेवेह कर्माणि — जातु तिष्ठत्यकर्मकृत्
नीरक्षीरविवेके — हंसालस्य
न हि कश्चित्क्षणमपि — त्वमेव तनुषे चेत्
असुर्या नाम ते लोका — अन्धेन तमसाऽऽवृताः

48. पत्र (संक्षेप)

(स्थानान्तरण प्रमाणपत्र हेतु प्रधानाचार्य को औपचारिक संस्कृत पत्र)

49. गद्यकाव्य की विशेषताएँ

सरल भाषा, भावप्रधानता, कथात्मकता, अलंकारों का स्वाभाविक प्रयोग, रसात्मकता।

51. ग्रन्थ–लेखक 
(क) अभिज्ञानशाकुन्तलम् – कालिदासः
(ख) उत्तररामचरितम् –भवभूतिः
(ग) श्रीमद्भगवद्गीता –वेदव्यासः
(घ) मृच्छकटिकम् – शूद्रकः
(ङ) नीतिशतकम् – भर्तृहरिः
(च) हितोपदेशः –नारायण पंडित
51(चित्र–वर्णन)
जनाः योगासनं कुर्वन्ति।
ते उपविश्य योगाभ्यासं कुर्वन्ति।
सर्वे शान्तचित्तेन आसनं साधयन्ति।
योगाभ्यासेन शरीरं स्वस्थं भवति।
योगः मनःशान्तिं ददाति।
52. कथा–पूर्ति
(i) उपेत्य
(ii) पाथेयम्
(iii) एकदा
(iv) मृगयाभावेन
(v)  दृष्ट्वा