expr:class='"loading" + data:blog.mobileClass'>

रविवार, 27 अगस्त 2023

संस्कृत आदर्श प्रश्नपत्रम्-1

 संस्कृत आदर्श प्रश्नपत्रम्-1

कक्षा-द्वादश, 

पूर्णाङ्काः - १००

उत्तीर्णाङ्काः - ३३

समय - ३ घण्टा

अभ्यर्थिनः यथाशक्ति स्वशब्देषु उत्तरं दद्युः।

मार्जिने आकृतयः पूर्णाङ्कान् सूचयन्ति ।

सर्वेषां प्रश्नानाम् उत्तरं ददातु।

खण्ड - क

(अपठितांश अवबोधनम्)

1. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत - 10

अस्माकं जीवने पदे पदे प्रत्येक कार्येषु विज्ञानं व्याप्तमस्ति । विज्ञानस्य

चमत्कारान् दृष्ट्वा वयम् आश्चर्य कुर्मः । सर्वेषु क्षेत्रेषु एवं विज्ञानस्य लाभाः

दृश्यन्ते। अद्य वयं वाष्पयानेन देशदेशान्तरेषु परिभ्रमामः।पोतेन अनायासं

नदीः समुद्रांश्च तरामः । विमानेन आकाशे स्वच्छन्दं विहरामः।अद्य तु राकेट

इति यन्त्रेण तु चन्द्रमसि अपि भ्रमणाय प्रयत्नं कुर्मः। मोटर, बस, कार,

स्कूटर इत्यादिभिः यानैः तु वयं प्रतिदिनं प्रतिपलं च गमनागमनं कुर्मः।

अद्य अस्माकं जीवने विद्युतः उपयोगं तु सर्वत्र दृश्यते। रात्रीणां अन्धकारे

विद्युद्दीपकं प्रज्वाल्य सर्वत्र प्रकाशं कुर्मः । विद्युतः प्रभावेण व्यजनानि

चलन्ति, रोमाञ्चकारीणि दारूणेऽपि शिशिरे शैत्यभयं न भवति। उद्योगक्षेत्रेषु

विद्युतः शक्त्या मुद्रणयन्त्राणि, अनेकानि लौहमयानि यन्त्रोपकरणानि

चलन्ति । तेभ्यः नवीनानि वस्तूनि निर्मीयन्ते।

(क) एकपदेन उत्तरत-2х1=2

(i) अस्माकं जीवने पदे पदे किं व्याप्तम् ? -1

(ii) वयं देशदेशान्तरेषु केन परिभ्रमामः ?-1

(ख) पूर्णवाक्येन उत्तरत-2х2=4

(i) वयम् आकाशे कीदृशं विहरामः ? -2

(ii) वयम् चन्द्रमसि केन गन्तुं शक्नुमः ? -2

(ग) निर्देशानुसारम् उत्तरत-2х1=2

(i) 'अनेकानि' इति सर्वनामपदं कस्मै प्रयुक्तम् ? -1

 

(ii) 'गगने' इति पदस्य कृते अत्र किं पर्यायपदं प्रयुक्तम् ? -1

(घ) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत। -2

 

खण्ड -ख

(संस्कृतेन रचनात्मकं लिखितकार्यम् )

2.स्थानान्तरण प्रमाणपत्रं प्राप्तुं प्रधानाचार्यं प्रति लिखितं पत्रं लिखत।-5

3. मञ्जूषायाः उचितानि पदानि विचित्य कथां पूरयत -1/2×105

राज्ञः भोजस्य दर्शनाय सः कलिङ्गदेशम् (i)----- मासं यावत् तत्र न्यवसत्, परं सः राजानं नापश्यत् । तस्य (ii)----- अपि परिसमाप्तम् । (iii)------ नृपः (iv)----- बहिर्निर्गतः। तदा कविः राजानं (v)----- अकथयत्- श्री भोजराजं पश्यन्नेव तत्क्षणं रिपोः शस्त्रं, कवेः कष्ट, मृगीदृशां नीवीबन्धः च भूमौ (vi) ---। तच्छ्रुत्वा राजा कवये (vii)------ ददौ यदा राजा मृगयासक्तः आसीत् तदा कश्चित् व्याध सुतः एक गीतम् अगायत् । गीतस्य (viii)----- प्रसन्नो भूत्वा राजा (ix) --- पञ्चलक्षं (x)

मञ्जूषा-

मृगयाभावेन, पाथेयम्, दृष्ट्वा, माधुर्येण, गायकाय, लक्षं द्वौ, पतन्ति, उपेत्य, एकदा

4. मञ्जूषायाः उचितानि वाक्यानि चित्वा वार्तालापं पूरयत -

प्रज्ञा - रमे ! किं त्वम् ओदनं पचसि ?

रमा -I.------------------------------

प्रज्ञा - तदनन्तरं त्वं किं करिष्यसि ?

रमा -II------------------------------

प्रज्ञा - ह्यः अहमपि गीताम् अपठम् ।

रमा-III-----------------------------

प्रज्ञा - किं त्वमद्य विद्यालयं गमिष्यसि ?

रमा-IV-----------------------------

प्रज्ञा - अहमपि विद्यालयं गमिष्यामि ।

रमा -V------------------------------

मञ्जूषा-

अधुना मया पत्राणि लिख्यन्ते । तदनन्तरं मया गीता पठिष्यते । आम्, मया ओदनं पच्यते । आम्, अद्य अहं विद्यालयं गमिष्यामि । मया सह एव चल ।

खण्ड - ग

( अनुप्रयुक्त व्याकरणम् )

5. अधोलिखितशब्दान् सन्धि-विच्छेदं कृत्वा लिखत - 1x6 = 6

(i) गणेशः

(ii)भवनम्

(iii)प्रश्नोत्तरः

(iv)अध्यात्मम्

(v) वनौषधिः

(vi)राजर्षिः।

 6. अधोलिखितानां समस्तपदानां विग्रहान् लिखत -1x6 = 6

 (i) रामलक्ष्मणौ

(ii) राजपुरुषः

(iii)घनश्यामः

(iv)नीलकमलम्

(v) द्वादश

(vi) विद्याहीनः।

7. अधोलिखित वाक्येषु प्रकृति-प्रत्ययान् संयुज्य वाक्यपूर्ति कुरुत-1x8=8

(i) सः दुग्धं (पा+क्त्वा) -----खेलति।

(ii) सत्यं एव (वच् + अनीयर्) -----।

(iii) रामः रावणम्(हन् +तुमुन्) ----- लङ्कां गतवान्।

(iv) सःआपणं (गम्+क्त्वा) ----तण्डुलान् क्रीणाति।

(v) माता पुत्रम् (त्यज्+क्त्वा) -कदापि सुखी न भवति।

(vi) वृद्धां सदैव (सेव् + तव्यत्) ----।

(vii) मम पिता प्रातःकाले (भ्रम् + तुमुन्) ----- गच्छति।

 (viii) मम भगिनी कार्यम् (कृ+क्त्वा) - पठति। 

8. अधोलिखितेषु वाक्येषु विशेषण-विशेष्य अन्वितिम् -1x5=5

 (i) पितरौ -----। (वद्) ।

(ii) तैः सिंहाः -----। (दश)

(iii) अहम् ---- मित्रम् अपश्यम्। (स्वन्)

(iv) ताः बालिकाः नाट्यशालायाम् -----। (नृत्)

(v) ----- राजानः अधावन्। (तद्)

9.उचितविभक्तिकं पदं चित्वा रिक्तस्थानानि पूरयत-1x5=5

(i) ..................... परितः वृक्षाः सन्ति । ( ग्राम )

(ii) मम .......... निकषा उद्यानम् अस्ति । (विद्यालय )

(iii) बालकः ................. स्पृहयति । ( क्रीडनक)

(iv) पिता............ कङ्कणं ददाति । ( पुत्री )

 (v)सेविका ................. सम्मार्जनं करोति । ( भूमि )

 खण्ड-घ

( पठितांश अवबोधनम् )

10.अधोलिखित गद्यांश पठित्वा तदाधारितप्रश्नानाम् उत्तराणि निर्देशानुसार

लिखत (निम्नलिखित गद्यांशको पढ़कर उन पर आधारित प्रश्नों के उत्तर

लिखें) :

अथ प्रथिवीनिरूपणम्-पृथिव्याः सप्तभेदाः। ते च भेदाः सप्तपुटान्युच्यन्ते।तानि च पुटानि-अतल-वितल-सुतल-तलातल-रसातल पातालाख्यानि। अस्मन्मतेऽपि सप्तभेदाः। यथाऽस्मद्वेदे श्रूयते परमेश्वरो यथा सप्तगगनानि तद्वत् पृथिव्याः सप्तविभागान् कृतवान्।अथ पृथिव्याः विभागनिरूपणं यत्र लोकास्तिष्ठन्ति। तस्याः दार्शनिकैः सप्तधा विभागः कृतस्तान् विभागान् सप्त अअक्लिम इति वदन्ति।

(क) एक पदेन उत्तरत (एक शब्द में उत्तर दें): 1/2✕2=1

(i) पृथिव्याः कति भेदाः?

(ii) ते भेदाः किम् उच्यन्ते

(ख) पूर्ण वाक्येन उत्तरत (एक वाक्य में उत्तर दें): 1x2=2

(i) पृथिव्याः सप्तपुटानां नामानि कानि सन्ति

(ii) अस्मद्वेदे किम् श्रूयते

(ग) यथानिर्देशम् उत्तरत (निर्देश के अनुसार उत्तर दें): 1x2=2

'गगनानि’ इति पदस्य विशेषणम् अत्र किं प्रयुक्तम्

11.अधोलिखित पद्यांश पठित्वा तदाधारित प्रश्नानाम् उत्तराणि

पढ़कर उन पर आधारित प्रश्नों के उत्तर लिखें) :

न कर्मणामनारम्भान्नैष्कर्म्यम् पुरुषोऽश्नुते।

न च सन्यसनादेव सिद्धिं समधिगच्छति ॥

प्रश्नाः

(क) एकपदेन उत्तरत (एकशब्द में उत्तर दें): 2x1=2

(i)न कर्मणामनारम्भान्नैष्कर्म्यम् कः अश्नुते। ?

(ii) सन्यसनादेव किं न सिद्धिं समधिगच्छति ?

(ख) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें): 1x2=2

(i) केन प्रकारेण नैष्कर्म्यम् पुरुषोऽश्नुते ?

(ii) केन प्रकारेणन सिद्धिं समधिगच्छति ?

(ग)निर्देशानुसारं उत्तरत (निर्देश के अनुसार उत्तर दें):1x2=2

‘मनुष्यः' इत्यस्य अत्र किं पर्यायपदं प्रयुक्तम् ?

12. अधोलिखित नाट्यांश पठित्वा तदाधारित प्रश्नानाम् उत्तराणि

निर्देशानुसार लिखत(निम्नलिखित नाट्यांश को पढ़कर उन पर

आधारित प्रश्नों के उत्तर लिखें) :

जनकः- अये, शिष्टानध्याय इत्यस्खलितं खेलतां वटूनां कोलाहलः। 
कौसल्या- सुलभसौख्यमिदानीं बालत्वं भवति। अहो, एतेषां मध्ये क एष रामभद्रस्य मुग्धललितैरङ्गैर्दारकोऽस्माकं लोचने शीतलयति?

अरुन्धती-कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो वटुपरिषद पुण्यश्रीकः श्रियैव सभाजयन् ।

पुनरपि शिशुर्भूतो वत्सः स मे रघुनन्दनो

झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ॥

जनकः-(चिरं निर्वर्ण्य ) भोः किमप्येतत्।।

महिम्नामेतस्मिन् विनयशिशिरो मौग्ध्यमसृणो विदग्धैर्निर्ग्राह्यो न पुनरविदग्धैरतिशयः।मनो मे संमोहस्थिरमपि हरत्येष बलवान् अयोधातुं यद्वत्परिलघुरयस्कान्तशकलः॥

प्रश्नाः

(क) एकपदेन उत्तरत (एकशब्द में उत्तर दें): 1/2x2=1

(i)अत्र केषां कोलाहलः?

(ii)सुलभसौख्यं कदा भवति?

(ख) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें): 1x2=2

(i)नेपथ्ये कोलाहलं श्रुत्वा जनकः किं कथयति ?

 (ii)लवः कम् अनुसरति ?

(ग) यथानिर्देशम् उत्तरत (निर्देश के अनुसार उत्तर दें)।-1☓1=1

'इत्यस्खलितम्' इत्यस्य सन्धिविच्छेदं लिखत।

13.अधोलिखित श्लोकस्य अन्वयै पूरयित्वा पुनः लिखत :

(निम्नलिखित श्लोक का अन्वय पूरा कर पुनः लिखें):-1☓4=4

विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः।

 यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्॥

अन्वयः-  विपदि धैर्यम्----क्षमा सदसि वाक्पटुता युधि---- 

 यशसि अभिरुचिः---- च व्यसनं  इदं हि----  प्रकृतिसिद्धम्।

14.अधोलिखितस्य श्लोकस्य अन्वयं लिखत -4

सुखदुःखसमे कृत्वा लाभालाभौ जयाजयौ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥

15.सम्बद्धाः पङ्क्ति मेलयत-2x2=4

(क)न हि कश्चित्क्षणमपि (i)कार्यं कर्म समाचर।

(ख)कार्यते ह्यवशः कर्म (ii)परमाप्नोति पुरुषः ।

(ग)तस्मादसक्तः सततं (iii)जातु तिष्ठत्यकर्मकृत।

(घ)असक्तो ह्याचरन्कर्म (iv)सर्वः प्रकृतिजैर्गुणैः।

 16. अधोलिखित वाक्येषु कर्तृक्रियापदयोः अन्वितिं क्रियताम् -4

(क)मम दायित्वहस्तान्तरणपत्रक------।(सज्जीकुरु,सज्जीकरोमि)

(ख) कार्यालयलिपिकः श्रीदासः----।(प्रविशसि,प्रविशति)

(ग)योगशास्त्रे शरीरस्य मनसः च

नियमनं प्रतिपादितं----।(वर्तते,भविष्यति)

(घ)दिवसत्रयात्परं कार्यालये पत्रमेकम्----(गतम्,आगतम्)

17. निम्नलिखित पदेषु कः प्रत्ययः इति निर्दिशत -4

(क)त्यक्त्वा

(ख)पठन्

(ग)ज्ञातुम्

 (घ)कर्त्तव्यम्

 खण्ड -ङ

(संस्कृत साहित्य परिचयः)

18. अधोलिखित-ग्रन्थानां लेखकस्य नामानि लिखत -5

(i)रघुवंशम्

(ii)शिवराजविजयः

(iii)उत्तररामचरितम्

(iv)योगसूत्रम्

(v)महाभारतम्,

19. अधोलिखित विधासु कामपि एकाम् अवचित्य वैशिष्ट्यं प्रतिपादयत -5

(i) नाटकम् (ii) गद्यकाव्यम्, (iii)चम्पूकाव्यम्

 

 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

जयतु संस्कृतम्।