expr:class='"loading" + data:blog.mobileClass'>

सोमवार, 8 दिसंबर 2025

संस्कृत आदर्श प्रश्नपत्रम्-2

  संस्कृत आदर्श प्रश्नपत्रम्-2

 कक्षा-द्वादशः

पूर्णाङ्काः - १००
उत्तीर्णाङ्काः - ३३
समय - ३ घण्टा
अभ्यर्थिनः यथाशक्ति स्वशब्देषु उत्तरं दद्युः।
अन्ते चिह्नानि पूर्णचिह्नं सूचयन्ति ।
भाग-अ
(बहुविकल्पीय प्रश्नः )
प्रश्नसङ्ख्या १ तः ३० पर्यन्तं बहुविकल्पप्रकारः भवति।प्रत्येकस्य प्रश्नस्य चत्वारः विकल्पाः सन्ति । सम्यक् विकल्पं चित्वा उत्तरपत्रे लिखन्तु। प्रत्येकं प्रश्नः १ अङ्कस्य अस्ति। -1 x 30 = 30
प्रश्न संख्या 1-30 वस्तुनिष्ठप्रश्नाः सन्ति ।
सर्वे प्रश्नाः समानाङ्काः ।
सर्वे प्रश्नाः अनिवार्याः ।
प्रदत्तेषु विकल्पेषु समुचितम् उत्तरं चिनुत ।
अपठितांश-अवबोधनम्-
निर्देश-अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः उत्तरत-
अनुच्छेदः-

भारते षड् ऋतवः भवन्ति- वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः च। ग्रीष्मकालस्य पश्चात् वर्षाऋतुः आगच्छति। वर्षाकाले, ग्रीष्मस्य तापेन शुष्काः, पादपाः पुनः हरिताः। आकाशः कृष्णैः, मेघैः आच्छादितः भवति। नद्यः जलवेगेन प्रवहन्ति। कुत्रचित् अत्यधिका वृष्टिः भवति कुत्रचित् च अनावृष्टिः। वृष्टेः अभावात् कृषकाः महत् कष्टम् अनुभवन्ति। ते वर्षांदेवं प्रार्थयन्ति। वर्षाजलेन धरा शस्य-श्यामला भवति। एतत् दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितम् भवति।                                                                                                                                                  1.भारते कति ऋतवः सन्ति ?                                                                                                                            (क) चत्वारः                                                                                                                                                    (ख) पञ्च 
(ग) षट् 
 (घ) सप्त

2.ग्रीष्मकालस्य पश्चात् का ऋतुः आगच्छति?
(क) वसन्तः
(ख) शरद्
(ग) वर्षा
(घ) हेमन्तः
3.वर्षाकाले आकाशः कैः आच्छादितः भवति?
(क) श्वेतैः मेघैः
(ख) कृष्णैः मेघैः
(ग) नीलैः मेघैः
(घ) अल्पैः मेघैः
4.वृष्टेः अभावात् के महत् कष्टम् अनुभवन्ति?
(क) छात्राः
(ख) कृषकाः
(ग) व्यापारीणः
(घ) सैनिकाः
5.वर्षाजलेन धरा कीदृशी भवति?
(क) शुष्का
(ख) ऊषरा
(ग) शस्य-श्यामला
(घ) पाषाणमयी
पठितावबोधनम्- 
निर्देश : 
अधोलिखितं गद्यांशं, पद्यं, नाट्य च पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः- 
गद्यांशः-
"तात चन्द्रापीड। विदितवेदितव्यस्याधीतसर्वशाश्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति। केवलं च निसर्गत एवातिगहनं तमो यौवनप्रभवम्।अपरिणामोपशमो दारूणो लक्ष्मीमदः।अप्रबोधा घोरा च राज्यसुखसन्निपातनिद्राभवति, इत्यतः विस्तरेणाभिधीयसे।
6. चन्द्रापीडः कीदृशः कथितः?
(क) अल्पविद्याधरः
(ख) अविदितवेदितव्यः
(ग) विदितवेदितव्यः
(घ) अशिक्षितः
7. चन्द्रापीडेन किं अधीतम् इति गद्यांशे उक्तम्?
(क) केवलम् आगमाः
(ख) केवलानि पुराणानि
(ग) सर्वशास्त्राणि
(घ) वेदाः एव
8. यौवनप्रभवं किं भवति इति उक्तम्?
(क) ज्ञानम्
(ख) अतिगहनं तमः
(ग) वैराग्यम्
(घ) तपस्या
9. ‘दारुणो लक्ष्मीमदः’ इत्यस्य अर्थः कः?
(क) लक्ष्म्याः सौम्यप्रभावः
(ख) लक्ष्म्याः गर्वः
(ग) दानशीलता
(घ) वैराग्यम्
10. राज्यसुखसन्निपातेन का अवस्था भवति?
(क) जागरूकता
(ख) ज्ञानवृद्धिः
(ग) घोरा निद्रा
(घ) तपस्या
पद्यम्-
 "अप्यग्रणीमन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते। 
 यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः॥॥"
11. श्लोके सम्बोधनं कस्य कृतम् अस्ति?
(क) कुशाग्रबुद्धेः
(ख) गुरोः
(ग) ऋषेः
(घ) मन्त्रस्य
12. गुरुः केषां मध्ये अग्रणी कथितः?
(क) देवानाम्
(ख) मन्त्रकृतामृषीणाम्
(ग) राज्ञाम्
(घ) ब्राह्मणानाम्
13. ‘कुशाग्रबुद्धे’ इत्यस्य कः अर्थः?
(क) मन्दबुद्धिः
(ख)मूढबुद्धिः 
(ग) अल्पबुद्धिः
(घ) तीक्ष्णबुद्धिः
14. ज्ञानस्य उपमा केन दत्ता अस्ति?
(क) अग्नेः
(ख) उष्णरश्मेः
(ग) वायोः
(घ) चन्द्रस्य
15. श्लोकानुसारं ज्ञानं केन प्राप्तम्?
(क) गुरुणा
(ख) त्वया
(ग) लोकेन
(घ) ऋषिभिः
नाट्यांशः- 
"लवः : (सकौतुकोपरोधविनयम्।) आर्याः! पश्यत। एभिर्नीतोऽस्मि।
(इतित्वरितं परिक्रामति।)
अरुन्धतीजनकौ: महत्कौतुकं वत्सस्य।
कौसल्या : अरण्यगर्भरूपालापै!यं तोषिता वयं च। भगवति! जानामि तं पश्यन्ती वञ्चितेव। तस्मादितोऽन्यतो भूत्वा प्रेक्षामहे तावत् पलायमानं दीर्घायुषम्।
16. ‘एभिर्नीतोऽस्मि’ इति वाक्यं कः वदति?
(क) कौसल्या
(ख) अरुन्धती
(ग) लवः
(घ) जनकः
17. लवः किं कृत्वा परिक्रामति?
(क) शनैः
(ख) विलम्बेन
(ग) त्वरितम्
(घ) भयेन
18. ‘वत्सस्य महत्कौतुकम्’ इति के उच्यते?
(क) कौसल्यया
(ख) लवेन
(ग) अरुन्धतीजनकाभ्याम्
(घ) तपस्विभिः
19. कौसल्या केन तोषिता भवति?
(क) लवस्य वचनेन
(ख) अरण्यगर्भरूपालापैः
(ग) कौतुकेन
(घ) दर्शनमात्रेण
20. कौसल्या कं पश्यन्ती वञ्चितेव भवति?
(क) लवं
(ख) जनकं
(ग) दीर्घायुषम्
(घ) तपस्विनम्
निर्देश: रेखांकित पदानि आधृत्य प्रश्ननिर्माणं कुरुत।
21.मन्त्रकृताम् अग्रणी: महर्षिः वरतन्तुः आसीत्।
(क) कः
(ख) कीदृश:
(ग)केन
(घ) कुत्र
22. कुबेरात् अर्थं निष्क्रष्टुम् रघुः चकमे।
(क) कः
(ख) कीदृशः
(ग) कस्मात्
(घ) कुत्र
23. कौत्सः गुरुदक्षिणार्थं धनं याचितुं रघु प्राप।
(क)कस्य
(ख) कीमर्थं
(ग) केन
(घ) कुत्र
24.  कौत्सः महर्षेः वरतन्तोः शिष्यः आसीत्।
(क)कः
(ख) कीदृशः
(ग) केन
(घ) कस्य
25.रघुः विश्वजित्’-नामकम् अध्वरम् अनुतिष्ठति स्म।
(क) कम्
(ख) कीदृशः
(ग) केन
(घ) काम्
निर्देशः निर्देशानुसारम् उत्तरं चिनुत-
26. बटवः अश्वं कथं वर्णयन्ति ? 
(क) भूतविशेषम् 
(ख) भूतम् 
(ग) राजाश्वम् 
(घ) विशेषम्। 
27.बुद्धियुक्तः अस्मिन् संसारे के जहाति?
(क) सुकृते 
(ख) दुष्कृते 
(ग) अकर्मणी 
(घ) सुकृतदुष्कृते। 
28.कीदृशे मनसि उपदेशगुणाः प्रविशन्ति। 
(क) मलिने 
(ख) अपगतमले 
(ग) छलयुक्ते 
(घ) छलान्विते।  
29. मरालस्य मानसं कं विना न रमते। 
(क) मनः 
(ख) मानसम् 
(ग) सरोवरम् 
(घ) पुण्यतालम्। 
30.सहसा किं न विदधीत ? 
(क) भोजनम् 
(ख) पठनम् 
(ग) क्रियाम् 
(घ) शय्याम्। 
भाग-B
( विषयनिष्ठ प्रश्न)
खण्ड -अ
( अति लघु उत्तरीय प्रश्नः)
कस्यापि षट् प्रश्नस्य उत्तरं ददातु।
निर्देश: अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तान् प्रश्नान् निर्देशानुसारम् उत्तरत -2x6-12
 गङ्गा देशस्य प्रमुखा नदी। गङ्गायाः अपरं नाम भागीरथी। एषा नदी हिमालयात् निर्गच्छति। एतस्याः नद्याः तीरे बहवः तीर्थाः मुनीनाम् आश्रमाः च सन्ति। हरिद्वारनगरम् प्रसिद्ध तीर्थस्थानम् गंगानद्याः तटम् अलंकरोति। अत्र अनेके देवालयाः सन्ति। सायंकालस्य दृश्यम् तु अत्र अनुपमम् एव। भक्ताः गंगादेवीं श्रद्धया पूजयन्ति, प्रज्वलितान् दीपान् च नद्याः जले प्रवाहयन्ति। यदा प्रज्वलिता: दीपा: जलेषु तरन्ति, तदा एवं प्रतीयते यत् ताराणां समूह : आकाशात् अवतीर्य पृथिव्याम् आगतः। गंगानदी परमपावना नदी मन्यते।
प्रश्नाः
पूर्णवाक्येन उत्तरत -
31.गङ्गायाः अपरं नाम किम् अस्ति?  
32.गङ्गानद्याः तीरे के-के सन्ति?                                                                                                                        33. सायंकाले गङ्गानद्याः जले प्रज्वलितदीपाः तरन्तः किं प्रतीयते?
34. यथानिर्देशम् उत्तरत -
(1)‘गङ्गायाः’ इति पदस्य विभक्ति-वचनं लिखत।
(ii)‘निर्गच्छति’ इति क्रियापदस्य लकारं, पुरुषं, वचनं च लिखत।
(iii) ‘पावना’ इति शब्दस्य मूल शब्दः (प्रातिपदिकम्) किम्?
(iv)‘प्रज्वलितान् दीपान्’ इति पदयोः विशेष्य-विशेषण-सम्बन्धं दर्शयत।
अधोलिखितं गद्यांश, पद्यं च पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत -
गद्यांशः-
"शब्दानुशासनमिदानीं कर्तव्यम्। किं शब्दोपदेशः कर्तव्यः, आहोस्विदपशब्दोपदेशः, आहोस्विदुभयोपदेश इति ? अन्यतरोपदेशेन कृतं स्यात्। तद्यथा-भक्ष्यनियमेनाभक्ष्यप्रतिषेधो गम्यते । 'पश्च पश्चनखा भक्ष्याः' इत्युक्ते गम्यत एतत्- अतोऽन्येऽभक्ष्या इति ॥
अभक्ष्यप्रतिषेधेन च भक्ष्यनियमः। तद्यथा- 'अभक्ष्यो ग्राम्यकुक्कुट अभक्ष्यो प्राम्यसूकर: ' इत्युक्ते गम्यत एतत्-आरण्यो भक्ष्य इति ।। एवमिहापि।
यदि तावच्छब्दोपदेशः क्रियते, गौरित्येतस्मिन्नुपविष्टे गम्यत एतत् गाव्यादयोऽपशब्दा इति। अथाप्यपशब्दोपदेशः क्रियेत, एतत् गौरित्येष शब्द इति ॥
किं पुनरत्र ज्यायः ?"
प्रश्नाः
पूर्णवाक्येन उत्तरत -
35.शब्दानुशासनस्य कर्तव्यं किमर्थं निर्दिश्यते?
36. निर्देशानुसारम् उत्तरत :
(1)‘शब्दानुशासनम्’ इति पदस्य समासभेदं लिखत।
(ii) ‘कर्तव्यम्’ इति पदस्य धातुं लकारं च लिखत।
(iii)‘गम्यते’ इति क्रियापदस्य पुरुषं वचनं च लिखत।
(iv)‘अपशब्दोपदेशः’ इति पदे कः समासः?
पद्यम् -
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते झवश: कर्म सर्वः प्रकृतिजैर्गुणैः ॥
37. पूर्णवाक्येन उत्तरत -
(1)  कश्चित् जनः क्षणमपि किं कर्तुं न शक्नोति?
(ii) सर्वः जनः कैः गुणैः प्रेरितः कर्म करोति?
38. यथानिर्देशम् उत्तरत -
(i) ‘कार्यते’ इति क्रियापदस्य लकारं, पुरुषं, वचनं च लिखत।
(ii) ‘अकर्मकृत्’ इति विशेषणं कस्य विशेषणम् अस्ति?
खण्ड -ब
(लघु उत्तरीय प्रश्नः)
कस्यापि षट् प्रश्नस्य उत्तरं ददातु। प्रत्येकं प्रश्नस्य उत्तरं अधिकतमं १५० शब्देषु ददातु।
39. अधोलिखितस्य श्लोकस्य अन्वये रित्तस्थानपूर्ति कुरुत
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति॒ तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥                                                    अनेजदेकं  (i).................जवीयःनैनद्देवा आप्नुवन्पूर्वम् अर्षत् तद्धावतोऽन्यान् (ii)............एति तिष्ठत् तस्मिन् अपो  (iii)......................दधाति।
40.वाक्यं शुद्ध कुरुत-
(क)रामायणं राष्ट्रकाव्यम् सन्ति।
(ख)बालकाः क्षेत्रे धावति। 
(ग)मोहनः विद्यालयः गच्छति।                                                                                                                            41. उचितरूपैः रिक्तस्थानं पूरयत -                                                                                                                    (क).----------- परित: वृक्षाः सन्ति । (विद्यालय)                                                      
(ख).रामः रावणं----------- हतवान् । (बाण)    
(ग).----------- स्वाहा ।(अग्नि)                       
42. प्रत्ययं संयोज्य लिखत                               
(क).वि + √धा + ल्यप्                                      
(ख).√गम् + क्त्वा                                          
(ग).√गम् + क्त                                         
 43. अधः समस्तपदानां विग्रहाः दत्ताः, तानाश्रित्य समस्तपदानि रचयत                                      
यथा-वनस्य अन्तरे-वनान्तरे ।
(क).दीर्घाःवृक्षाः
(ख).शीघ्रं गतः
(ग). गृहे स्थितः
44. शब्दार्थं लिखत-
(क)अनाश्रितः
(ख) चिकीर्षुः
(ग) असक्तः 
45. रेखाङ्कितपदस्य विभक्ति तत् कारणं च लिखत -
(क)ग्रामम् अभितः पर्वताः सन्ति ।
(ख) रामः रावणं वाणेन  हतवान्।
(ग) मोहनः पादेन खञ्जः।  
 46. अधोलिखितपदानां सन्धिं विच्छेदं वा कुरुत    
(क).गणेशः-.............+................                               
(ख).सूर्योदयः-.............+.................                            
(ग).निः+मलः-...............................
खण्ड -स
(दीर्घ उत्तरीय प्रश्नः)-5x4-20
चतुर्णां प्रश्नानाम् उत्तरं ददातु। प्रत्येकं प्रश्नस्य उत्तरं अधिकतमं २५० शब्देषु ददातु।
47.श्लोकमेलनं कुरुत -
'अ''                                  आ'
अन्धन्तमः प्रविशन्ति        जातु तिष्ठत्यकर्मकृत्।
ततो भूय इव ते तमो        सर्वः प्रकृतिजैर्गुणैः ॥
न हि कश्चित्क्षणमपि         य उ विद्यायां रताः ॥
कार्यते ह्यवश: कर्म         येऽविद्यामुपासते ।        
48.विद्यालयात् दिनद्वयस्य अवकाशार्थं प्राचार्यं प्रति आवेदनपत्रं लिखत।
49.महाकाव्यम् इति विधायाः वैशिष्ट्यं प्रतिपादयत। 
50.अधोलिखित्तरचनानां लेखकानां नामानि लिखत । (केवलं पञ्चानाम् )
(क)रामायणम्
(ख) पाषाणीकन्या
(ग) नैषधीयचरितम्
(घ) समुद्रसङ्गमः
(ङ)कादम्बरी
(च) रघुवंशः
51. मञ्जूषासहायतया चित्रं दृष्ट्वा पञ्च चाक्यानि रचयत -
मन्जूषाः-वृक्षच्छायायां,शान्तचित्तेन,शिक्षकः,मुक्तवातावरणे,ज्ञानवृद्धये।
52.मञ्जूषातः उचितसङ्केतान् गृहीत्या अधोलिखितां कथां पूरयित्वा पुनः लिखत-
मन्जूषाः-एकं घटं, ग्रीष्मकाले, सन्तुष्टः, जलं, लघून् पाषाणान्।
ग्रीष्मकाले, एकं घटं, लघून् पाषाणान्, एवं, सन्तुष्टः।
एकस्मिन् वने (i)......…............ महातृष्णया पीडितः एकः काक: आसीत्।सः जलं अन्वेष्टुं सर्वत्र भ्रमन् आसीत्।अन्ते सः (ii)......…............ अपश्यत्।घटे अल्पं जलम् आसीत्।काक: तं घटं मुखेन प्राप्तुं न अशक्नोत्।सः चिन्तयामास- “कथं जलं प्राप्नुयाम्?”ततः काक: उपायम् अचिन्तयत्।सः समीपात् (iíi)......…............आनयत्। एकैकशः  तान् घटे अक्षिपत्।पाषाणैः जलस्य स्तरः शनैः शनैः वर्धितः।शीघ्रमेव (iv)......…............  घटस्य मुखे आगतम्। काकः आनन्देन  जलं अपिबत्।ततः सः (v)......…............ सन्तुष्टः  अभवत्।






उत्तरम्-

1.(ग) षट्

2.(ग) वर्षा

3.(ख) कृष्णैः मेघैः

4.(ख) कृषकाः

5.(ग) शस्य-श्यामला

6. (ग) 

7.  (ग) 

8. (ख)

9.  (ख)

10.(ग)

11.(ख)

12.(ख)
13. (ग)
14. (ग)
15. (ख)

16. (ग)
17. (ग)
18. (ग)
19. (ख)
20. (ग)

21.(क) कः
22.(ग) कस्मात्
23.(ख) कीमर्थं
24.(घ) कस्य
25.(क) कम्
26.(क)
27.(घ)
28.(ख)
29.(ग)
30.(ग) 
31.भागीरथी. 
32. बहवः तीर्थाः मुनीनाम् आश्रमाः 
33.ताराणां समूहः आकाशात् अवतीर्य पृथिव्याम् आगतः इव 
34.(1)षष्ठी विभक्ति, एकवचनम्।
(ii)लट् लकारः, प्रथम पुरुषः, एकवचनम्।
(iii)पावन।
(iv)अत्र ‘प्रज्वलितान्’ इति विशेषणम्, ‘दीपान्’ इति विशेष्यः।
35.शब्दोपदेशः कर्तव्यः वा अपशब्दोपदेशः वा उभयोपदेशः वा इति निर्णेतुम्
36. 
(1) शब्दानुशासनम् — षष्ठी तत्पुरुष समासः।
(ii)धातुः कृ, विधेयार्थे कृदन्तप्रयोगः।
(iii)प्रथम पुरुषः, एकवचनम्।
(iv)अपशब्दोपदेशः — षष्ठी तत्पुरुष समासः।
37.(1) अकर्मकृत् (अकर्मणः)
(ii) प्रकृतिजैः गुणैः
38.
(i)लकारः लट्,पुरुषः प्रथम,वचनः एकवचनम्
(ii)‘अकर्मकृत्’ कश्चित् (सर्वनाम) विशेषणम् अस्ति।
39.(i)मनसो
 (ii)अति  
(iii)मातरिश्वा
40.
(क रामायणं राष्ट्रकाव्यम् अस्ति । 
(ख)बालकाः क्षेत्रे धावन्ति। 
(ग)मोहनः विद्यालयं गच्छति।
41. 
(क),विद्यालयं

(ख).बाणेन

(ग).अग्नये

42.(क) विधाय

(ख)गत्वा

(ग)स्थित

43.

(क).दीर्घवृक्षाः
(ख).शीघ्रगतः
(ग). गृहस्थितः

44.(क)न चाहता हुआ।                                  (ख) चाहता हुआ।                                        (ग) अनासक्त हुआ।

45.
(क)द्वितीया-अभितः परितः सर्वतः समया निकषा प्रति संयोगेऽपि द्वितीया।
(ख)तृतीया-साधकतमं करणम्
(ग)तृतीया-येनाङ्गविकारः।
46
.(क).गण+ईशः                                          (ख).सूर्य+उदयः                                            (ग).निर्मलः
47.श्लोकमेलनं कुरुत -
'अ''                                  आ'
अन्धन्तमः प्रविशन्ति       येऽविद्यामुपासते ।
ततो भूय इव ते तमो       य उ विद्यायां रताः ॥
न हि कश्चित्क्षणमपि       जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवश: कर्म        सर्वः प्रकृतिजैर्गुणैः ॥
50.
(क) वाल्मीकि
(ख) चन्द्रशेखरदासवर्मा
(ग) श्रीहर्षः
(घ)दाराशिकोह
(ङ)बाणभट्ट
(च) कालिदासः
51.अत्र वृक्षच्छायायां छात्राः छात्रिकाश्च पंक्तिशः उपविश्य लेखनकार्यं कुर्वन्ति।सर्वे विद्यार्थीणः शान्तचित्तेन ध्यानपूर्वक अभ्यासं कुर्वन्ति।शिक्षकः अग्रे स्थित्वा विद्यार्थिनां मार्गदर्शनं करोति।मुक्तवातावरणे अध्ययनस्य सुखदः अनुभवः दृश्यते।एषा शिक्षा-पद्धतिः विद्यार्थिनां ज्ञानवृद्धये उपयोगिनी अस्ति।
52. 
(i)ग्रीष्मकाले, 
(ii)एकं घटं, 
(iii)लघून् पाषाणान्, 
(iv) जलं
(v)सन्तुष्टः।

संस्कृत आदर्श प्रश्नपत्रम्-1

 संस्कृत आदर्श प्रश्नपत्रम्-1

 कक्षा-द्वादशः

पूर्णाङ्काः - १००
उत्तीर्णाङ्काः - ३३
समय - ३ घण्टा
अभ्यर्थिनः यथाशक्ति स्वशब्देषु उत्तरं दद्युः।
अन्ते चिह्नानि पूर्णचिह्नं सूचयन्ति ।
सर्वेषां प्रश्नानामुत्तरं लिखत । भाग-अ                                                                                                                                         (बहुविकल्पीय प्रश्नः )                                                                                                                                        प्रश्नसङ्ख्या १ तः ३० पर्यन्तं बहुविकल्पप्रकारः भवति।प्रत्येकस्य प्रश्नस्य चत्वारः विकल्पाः सन्ति । सम्यक् विकल्पं चित्वा उत्तरपत्रे लिखन्तु। प्रत्येकं प्रश्नः १ अङ्कस्य अस्ति। -1 x 30 = 30                                                                    प्रश्न संख्या 1-30 वस्तुनिष्ठप्रश्नाः सन्ति ।                                                                                                                सर्वे प्रश्नाः समानाङ्काः ।                                                                                                                                    सर्वे प्रश्नाः अनिवार्याः ।                                                                                                                                        प्रदत्तेषु विकल्पेषु समुचितम् उत्तरं चिनुत ।                                                                                        अपठितांश-अवबोधनम्-
निर्देश-अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः उत्तरत-
अनुच्छेदः-
अस्माकं जीवने पदे पदे प्रत्येक कार्येषु विज्ञानं व्याप्तमस्ति।विज्ञानस्य चमत्कारान् दृष्ट्वा वयम् आश्चर्य कुर्मः।सर्वेषु
क्षेत्रेषु एवं  विज्ञानस्य    लाभाः  दृश्यन्ते। अद्य  वयं वाष्पयानेन  देशदेशान्तरेषु  परिभ्रमामः।  पोतेन अनायासं नदीः
समुद्रांश्च तरामः। विमानेन आकाशे स्वच्छन्दंविहरामः।अद्यतुराकेट यानेन तु चन्द्रमसि  अपि भ्रमणाय प्रयत्नं कुर्मः।
अद्य अस्माकं जीवने विद्युतः उपयोगं तु सर्वत्र दृश्यते मोटर,बस,कार, स्कूटर  इत्यादिभिः  यानैः तु वयं  प्रतिदिनं
प्रतिपलं च गमनागमनं कुर्मःअद्य अस्माकं जीवने विद्युतः उपयोगं तु सर्वत्रदृश्यते रात्रीणां अन्धकारे   विद्युद्दीपकं
प्रज्वाल्य सर्वत्र प्रकाशं कुर्मः। विद्युतः  प्रभावेण  व्यजनानि  चलन्ति, रोमाञ्चकारीणि दारूणेऽपि  शिशिरे शैत्यभयं
न भवति। उद्योगक्षेत्रेषु विद्युतः शक्त्या मुद्रणयन्त्राणि, अनेकानि लौहमयानि यन्त्रोपकरणानि चलन्ति । तेभ्यः
नवीनानि वस्तूनि निर्मीयन्ते।
1.अद्य वयं देशदेशान्तरेषु कथं परिभ्रमामः?
क. उष्ट्रयानेन
ख. वाष्पयानेन
ग. पदयात्रया
घ. नाविकयानेन
2. रात्रीणाम् अन्धकारे प्रकाशं किम् उपयुज्य कुर्मः?
क. अग्निदीपेन
ख. तैलदीपेन
ग. विद्युद्दीपेन
घ. चन्द्रप्रकाशेन
3. उद्योगक्षेत्रेषु यानि यन्त्राणि विद्युतः शक्त्या चलन्ति, तानि किमर्थं प्रयुज्यन्ते?
क. जले क्रीडनार्थम्
ख. पुस्तकलिपेः नाशनार्थम्
ग. नवीनवस्तुनिर्माणार्थम्
घ. वृक्षच्छेदनार्थम्
4. दारूणे शिशिरे शैत्यभयं न भवति—अस्य कारणं किम्?
क. तैलदीपकस्य तापः
ख. विद्युतः प्रभावः
ग. सूर्यप्रकाशः
घ. अग्निकुण्डस्य उष्णता
5. अस्माकं जीवने विज्ञानस्य कः उपयोगः दृश्यते?
क. केवलं कृषौ
ख. केवलं शिक्षायाम्
ग. सर्वत्र, प्रतिपलं
घ. केवलं यानमार्गे
पठितावबोधनम्- 
निर्देश : 
अधोलिखितं गद्यांशं, पद्यं, नाट्य च पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः उत्तरत-- 
गद्यांशः-
श्रीनायारः केन्द्रसर्वकारतः स्थानान्तरणेन आगत्य ओडिशासर्वकारस्य अधीने प्रायः वर्षत्रयेभ्यः कार्यं करोति। तथाप्यस्मिन् वर्षत्रयात्मके कालखण्डे एकवारमपि स्वराज्यं केरलं प्रति गमनाय इच्छां न प्रकटितवान् । स स्वल्पभाषी, अतस्तस्य मनःकथा मनोव्यथा वा बोधगम्या नास्ति। सन्तुलितो वार्तालापः, साक्षात्समये आगमनम्, ततः सञ्चिकासु मनोनिवेशः, कार्यं समाप्य स्वगृहं प्रत्यागमनञ्च तस्य वैशिष्ट्यमासीत्। तस्य कर्मनैपुण्यं दृष्ट्वा एव ओडिशासर्वकारस्तं स्थानान्तरणेन स्वीकृत्य खाद्यापूर्तिविभागे सचिवपदे नियुक्तवान् । गतस्य वर्षत्रयस्य आकलनात् ज्ञायते यद् विभागस्य कार्यनैपुण्यं दशगुणैः वर्धितम्। खाद्ये अपमिश्रणं न्यूनीभूतम्। अत उपभोक्तृणामपि अभियोगो नास्ति विभागस्य विपक्षे। मन्त्रिणां मध्येऽपि तस्य सुख्यातिः वर्तते।
6. श्रीनायरस्य मूलराज्यं किम्?
क. ओडिशाराज्यम्
ख. केरळराज्यम्
ग. तमिळनाडुराज्यम्
घ. कर्नाटकराज्यम्
7. श्रीनायरः ओडिशासर्वकारस्य अधीने कतिवर्षाणि कार्यं करोति?
क. एकवर्षम्
ख. द्विवर्षम्
ग. त्रिवर्षम्
घ. पञ्चवर्षम्
8. श्रीनायरः कस्य विभागस्य सचिवपदे नियुक्तः?
क. स्वास्थ्यविभागः
ख. खाद्यापूर्तिविभागः
ग. शिक्षाविभागः
घ. वित्तविभागः
9. श्रीनायरस्य कार्यकालस्य परिणामरूपेण विभागस्य कार्यनैपुण्यं कतिगुणं वर्धितम्?
क. द्विगुणम्
ख. पञ्चगुणम्
ग. दशगुणम्
घ. विंशतिगुणम्
10. अधोलिखितेषु कः गुणः श्रीनायरस्य न विशेषलक्षणम्?
क. सन्तुलितः वार्तालापः
ख. समये कार्यालयागमनम्
ग. अतिबहुभाषणप्रियता
घ. कार्यं समाप्त्य गृहं प्रत्यागमनम्
पद्यम्-
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।                                                                                                        तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्।।
11. ‘ईशावास्यमिदं सर्वम्’ इति मन्त्रे किम् उक्तम्?
क. सर्वं मानववशम्
ख. सर्वं ईश्वरवशम्
ग. सर्वं राजवशम्
घ. सर्वं प्रकृतिवशम्
12. ‘यत्किञ्च जगत्यां जगत्’ इत्यस्य अर्थः कः?
क. केवलं पर्वताः एव
ख. केवलं नद्या एव
ग. यत्किञ्च विश्वे अस्ति सर्वम्
घ. केवलं वनस्पतयः
13. ‘तेन त्यक्तेन भुञ्जीथा’ इत्यस्य संदेशः कः?
क. परधनं चोरय
ख. केवलं धनं सञ्चय
ग. त्यागभावेन भोगं कुरु
घ. सर्वं परित्यज्य जीव
14. ‘मा गृधः’ इत्यनेन किम् निषिद्धम्?
क. अध्ययनम्
ख. कर्म
ग. लोभः
घ. दानम्
15. ‘कस्यस्विद्धनम्’ इत्यनेन कः भावः सूचितः?
क. धनं सर्वेषां समानम्
ख. धनं केवलं राज्ञः
ग. धनं केवलं कुटुम्बस्य
घ. धनं केवलं स्वस्य
नाट्यांशः- 
लवः:(प्रविश्य,स्वगतम्) क्रमौचित्यात् पूज्यानपि सतः कथमभिवादयिष्ये?,अविज्ञातवयः(विचिन्त्य) अयं पुनरविरुद्धप्रकार इति वृद्धेभ्यः श्रूयते। (सविनयमुपसृत्य) एष वो लवस्य शिरसा प्रणामपर्यायः।              अरुन्धतीजनकौ : कल्याणिन्! आयुष्मान् भूयाः।
अरुन्धती : एहि वत्स! (लवमुत्सङ्गे गृहीत्वा आत्मगतम्) दिष्ट्या न केवल-मुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः।
16. ‘लवः’ किम् चिन्तयन् प्रविशति?
क. कथं नृत्यं करिष्यामि?
ख. क्रमौचित्यात् पूज्यान् कथं अभिवादयिष्यामि?
ग. कुतः आगतोऽस्मि?
घ. किमर्थं अत्र तिष्ठामि?
17. लवः वृद्धेभ्यः किम् श्रुतवान्?
क. धनं सञ्चितव्यम्
ख. अभिवादनं निषिद्धम्
ग. अविरुद्धप्रकारः उचितः
घ. युद्धं करणीयम्
18. लवः वृद्धान् कथं प्रणमति?
क. पादौ प्रक्षालयन्
ख. हस्तेन आह्वाय
ग. शिरसा प्रणामं कृत्वा
घ. मौनेन स्थातुम्
19. अरुन्धतीजनकौ लवस्य अभिवादनस्य प्रत्युत्तररूपेण किम् वदतः?
क. स्वागतं ते
ख. धन्यः असि
ग. कल्याणिन्! आयुष्मान् भूयाः
घ. पुनः आगच्छ
20. अरुन्धती आत्मगतेन कः भावः सूच्यते?
क. तस्य क्रोधः
ख. दीर्घकालीनः मनोरथः पूर्णः अभवत्
ग. भयम् अनुभूतम्
घ. शोकः जातः
निर्देश: रेखांकित पदानि आधृत्य प्रश्ननिर्माणं कुरुत।
21. वयं विज्ञानस्य चमत्कारान्  दृष्ट्वा आश्चर्य कुर्मः।
क. कस्य
ख. किम्.
ग. केन
घ. कुत्र
22. वयं वाष्पयानेन देशदेशान्तरेषु परिभ्रमामः।
क. केन
ख. कस्य
ग. कदा
घ. कुत्र
23. नदीः समुद्रांश्च पोतेन  तरामः।
क. किम्.
ख. कुत्र
ग. केन
घ. कथम्
24. रात्रीणाम् अन्धकारे विद्युद्दीपकं प्रज्वाल्य प्रकाशं कुर्मः।
क. किम्.
ख. कस्य
ग. कुत्र
घ. कथम्
25. उद्योगक्षेत्रेषु विद्युतः शक्त्या मुद्रणयन्त्राणि  चलन्ति।
क. कुत्र
ख. कदा
ग. किम्
घ. कानि
निर्देशानुसारम्—उत्तरं चिनुत:
26. जनकादयः केन सिद्धिम् आस्थिताः ?
क. अकर्मणा
ख. विकर्मणा
ग. कर्मणा
घ. सत्कर्मणा
27. कस्मात् अर्थं निष्क्रष्टुम् रघुः चक्रम् ?
क. कृष्णात्
ख. इन्द्रात्
ग. कुबेरात्
घ. शिवात्
28. अकर्मणः किं ज्यायः?
क. कर्म
ख. विकर्म
ग. सत्कर्म
घ. कुकर्म
29. लक्ष्मीमदः कीदृशः ?
क. उपशमः
ख. अपरिणामः
ग. अपरिणामोपशमः
घ. सुखावहः
30. पापात् कः निवारयति ?
क. सन्त्रिमम्
ख. कुमित्रम्
ग. राजपुरुषः
घ. महाबलिः
( विषयनिष्ठ प्रश्न)
खण्ड -अ
( अति लघु उत्तरीय प्रश्नः)
कस्यापि षट् प्रश्नस्य उत्तरं ददातु।
निर्देश: अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तान् प्रश्नान् निर्देशानुसारम् उत्तरत -2x6-12                                             बाल्मीकिः लौकिक संस्कृतसाहित्यस्य आदि कविः मन्यतेः।तस्य रामायणं च आदि कविः मन्यते।रामायणस्य कथाविलक्षणा अस्ति। कथ्यते यत् एकदा बाल्मीकिः तमसा तीरे भ्रमण आसीत्।अकस्मात् तस्य दृष्टिः एकेन व्याधेनाशरेशविध्यामाने क्रौञ्चे अपतत् । एतत् कारूणिकं दृश्यं दृष्ट्वा सहसैव वाल्मीकि मुखात् एषा वाणी निस्सृता -                                                                                                                                                     "मा निषाद प्रतिष्ठा त्वमगमः शाश्वतोः समाः ।                                                                         यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।।
रामायणं भारतीयानां राष्ट्रकाव्यम् अस्ति । अयं ग्रन्थः भारतस्य पुरातन संस्कृतेः दर्पणः अस्ति । रामः आदर्श पुत्रस्य, आदर्श भ्रातुः, आदर्श नृपस्य च उदाहरणानि प्रस्तौति । लक्षणः कनीयसः भ्रातुरादर्शरूपं प्रस्तौति । सीता आदर्श भार्यायाः उदाहरणं प्रस्तौति । एवमेव दशरथः आदर्श पितुः हनुमान भक्तिमतः सेवकस्य सुग्रीवः च आदर्श मित्रस्य अनुकरणीयानि उदाहरणानि प्रस्तुवन्ति ।                                                                                                            31.‘आदि कविः’ इति पदसमूहस्य विशेषणं किम्?                                                                                            32.‘दृष्ट्वा’ इति पदं कस्य धातोः कृदन्तरूपं अस्ति?                                                                                              33.‘निस्सृता’ इति क्रियापदस्य लकारः कः?                                                                                                    34.यथानिर्देशम् उत्तरत -
(1)‘मन्यते’ इति धातोः पुरुषः कः?                                                                                                               (ii)‘रामायणम्’ इति पदस्य लिङ्गं किम्?                                                                                                             (iii)‘दृष्टिः’ इति पदस्य विभक्तिः कति?                                                                                                               (iv)‘अवतत्’ / ‘अपतत्’ इति क्रियापदस्य कालः कः?
 अधोलिखितं गद्यांश, पद्यं च पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत -
गद्यांशः
 इत्येवं विचार्य सर्वस्वदक्षिणं यज्ञं कर्त्तुमुपक्रान्तवान् । ततः शिल्पिभिरतीव मनोहरो मण्डपः कारितः। सर्वापि यज्ञसामग्री समहृता । देवमुनिगन्धर्वयक्षसिद्धादयश्च समाहूताः । तस्मिन्नवसरे समुद्राह्वानार्थं कश्चिद्ब्राह्मणः समुद्रतीरे प्रेषितः । सोऽपि समुद्रतीरं गत्वा गन्धपुष्पादिषोडशोपचारं विधायाब्रवीत् “भोः समुद्र ! विक्रमार्को राजा यज्ञं करोति । तेन प्रेषितोऽहं त्वामाह्वातुं समागतः ।" इति जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं स्थितः । कोऽपि तस्य प्रत्युत्तरं न ददौ । तत उज्जयिनीं यावत्प्रत्यागच्छति तावद्देदीप्यमानशरीरः समुद्रो ब्राह्मणरूपी सन् तमागत्यावदत् “भो ब्राह्मण, विक्रमेणास्मानाह्वातुं प्रेषितस्त्वं, तर्हि तेन यास्माकं सम्भावना कृता सा प्राप्तैव । एतदेव सुहृदो लक्षणं यत्समये दानमानादि क्रियते ।
प्रश्नाः
पूर्णवाक्येन उत्तरत -                                                                                                                              35.विक्रमार्कराजस्य यज्ञार्थं कं कार्यार्थं समुद्रतीरे प्रेषितवान्?                                                                               
36. निर्देशानुसारम् उत्तरत :
(1)‘उपक्रान्तवान्’ इति धातोः लकारः कः?
(ii)‘समाहूताः’ इति पदस्य वचनं किम्?
(iii)‘मनोहरः’ इति विशेषणस्य विशेष्यं किम्?
(iv)‘प्रत्यागच्छति इति क्रियापदस्य पुरुषः कः?
पद्यम् -
अप्यग्रणीमन्त्रकृतामृषीणां
कुशाग्रबुद्धे कुशली गुरुस्ते।
यतस्त्वया ज्ञानमशेषमाप्तं
लोकेन चैतन्यमिवोष्णरश्मेः॥
37. पूर्णवाक्येन उत्तरत -
(1) ऋषयः कस्य कारणेन  ‘अग्रणीमन्त्रकृताम्’ इति उच्यन्ते?                                                                              (ii) ज्ञानस्य उपमा कविना कस्य सह उपन्यस्ता?
38. यथानिर्देशम् उत्तरत -
(i)‘कुशाग्रबुद्धे’ इति पदस्य विभक्तिः कति?                                                                                              (ii)‘अप्तम्’  इति पदं कस्य धातोः कृतप्रत्ययरूपं अस्ति?
खण्ड -ब
(लघु उत्तरीय प्रश्नः)
कस्यापि षट् प्रश्नस्य उत्तरं ददातु। प्रत्येकं प्रश्नस्य उत्तरं अधिकतमं १५० शब्देषु ददातु।
39.अधोलिखितस्य श्लोकस्य अन्वये रित्तस्थानपूर्ति कुरुत-
सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणते हि विमश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥ 
अविवेकः सहसा (i)      न विदधीत;(यतः) अविवेकः(ii)       पदम् (भवति)।
हि सम्पदः स्वयमेव (iii)              वृणते,गुणलुब्धाः (सन्ति)।
40.वाक्यं शुद्ध कुरुत-
(क) त्वया पुस्तकं पठसि।
(ख) अहं कदा पठति ?
(ग) तत्र बहवः वृक्षाः आसीत् ।
41. उचितरुपैः रिक्तस्थानं पूरयत -                                                                                                         (क). ..................... परितः वृक्षाः सन्ति । ( ग्राम )                                                                     (ख). ――― जनाः सुखम् कामयन्ते । (सर्व)
42.प्रत्ययं संयोज्य लिखत-                                                                                                                       (क).उप + √क्रम् + क्तवतु                                                                                                                                 (ख). वि + अति + √क्रम् + ल्यप्
(ग).√ग्रह् + क्त्वा -
43.अधः समस्तपदानां विग्रहाः दत्ताः, तानाश्रित्य समस्तपदानि रचयत-
यथा-कुलस्य व्रतं कुलव्रतम् ।
(क).महान् अन्धकारः
(ख).पर्वतानां श्रेणी:
(ग). महान् उत्साहः
44. शब्दार्थं लिखत-
(क) दैववशेन -
(ख)भक्ष्यम् -
(ग) शिरसा-
45.रेखाङ्कितपदस्य विभक्ति तत् कारणं च लिखत-
(क) देशस्य भक्तिः देशभक्तिः कथ्यते।
(ख)युद्धक्षेत्रे वीराः देशस्य रक्षणार्थं स्वप्राणान् समर्पितवन्तः ।
(ग)राष्ट्रसंरक्षणाय परस्परम् एकतायाः भावना अपेक्षिता।
46. अधोलिखितपदानां सन्धि विच्छेदं वा कुरुत-
(क).स्वागतम्
(ख). कालांश:
(ग).सम्यग्रूपेण
खण्ड -स
(दीर्घ उत्तरीय प्रश्नः)-5x4-20
चतुर्णां प्रश्नानाम् उत्तरं ददातु। प्रत्येकं प्रश्नस्य उत्तरं अधिकतमं २५० शब्देषु ददातु।
47.श्लोकमेलनं कुरुत -
'अ''                                                   आ'
बुद्धियुक्तो जहातीह             जातु तिष्ठत्यकर्मकृत्।
कुर्वनेवेह कर्माणि                अन्धेन तमसाऽऽवृताः।
नीरक्षीरविवेके हंसालस्य     उभे सुकृतदुष्कृते।
न हि कश्चित्क्षणमपि             त्वमेव तनुषे चेत्।
असुर्या नाम ते लोका            जिजीविषेच्छतं समाः।
48.स्थानान्तरण प्रमाणपत्रं प्राप्तुं प्रधानाचार्यं प्रति लिखितं पत्रं लिखत।
49.गद्यकाव्यम् इति विधायाः वैशिष्ट्यं प्रतिपादयत।
50. अधोलिखितग्रन्थानां लेखकानां नामानि लिखत । (केवलं पञ्चानाम्)
(क) अभिज्ञानशाकुन्तलम् –
(ख) उत्तररामचरितम् –
(ग) श्रीमद्भगवद्गीता –
(घ) मृच्छकटिकम् –
(ङ) नीतिशतकम् –
(च) हितोपदेशः –
51. मञ्जूषासहायतया चित्रं दृष्ट्वा पञ्च चाक्यानि रचयत -
मन्जूषाः-योगासनम्,शान्तचित्तेन,उपविश्य,स्वस्थम्,मनःशान्तिम्।
52. मञ्जूषातः उचितसङ्केतान् गृहीत्या अधोलिखितां कथां पूरयित्वा पुनः लिखत-
मञ्जूषा :एकदा, उपेत्य, पाथेयम्, दृष्ट्वा, मृगयाभावेन, माधुर्येण
राज्ञः भोजस्य दर्शनाय सः कलिङ्गदेशम्(i) ________ (ii) ________ सं यावत् तत्र न्यवसत्, परं सः राजानं नापश्यत्।(iii) ________ नृपः (iv) ________ बहिर्निर्गतः।तदा कविः राजानं (v) ________ अकथयत्।



संस्कृत आदर्श प्रश्नपत्रम्-1

 कक्षा-द्वादशः
उत्तरम्-
भाग–अ : वस्तुनिष्ठ प्रश्न (1–30)

1. ख. वाष्पयानेन
2. ग. विद्युद्दीपेन
3. ग. नवीनवस्तुनिर्माणार्थम्
4. ख. विद्युतः प्रभावः
5. ग. सर्वत्र, प्रतिपलं

6. ख. केरळराज्यम्
7. ग. त्रिवर्षम्
8. ख. खाद्यापूर्तिविभागः
9. ग. दशगुणम्
10. ग. अतिबहुभाषणप्रियता

11. ख. सर्वं ईश्वरवशम्
12. ग. यत्किञ्च विश्वे अस्ति सर्वम्
13. ग. त्यागभावेन भोगं कुरु
14. ग. लोभः
15. क. धनं सर्वेषां समानम्

16. ख. क्रमौचित्यात् पूज्यान् कथं अभिवादयिष्यामि
17. ग. अविरुद्धप्रकारः उचितः
18. ग. शिरसा प्रणामं कृत्वा
19. ग. कल्याणिन्! आयुष्मान् भूयाः
20. ख. दीर्घकालीनः मनोरथः पूर्णः अभवत्

21. ग. केन
22. क. केन
23. ग. केन
24. क. किम्
25. घ. केन

26. ग. कर्मणा
27. ख. इन्द्रात्
28. क. कर्म
29. ग. अपरिणामोपशमः
30.क.सन्त्रिमम्

खण्ड–अ : अति लघु उत्तरीय (31–34)

31. ‘आदि’
32. √दृश्
33. लङ्लकारः

34.
(i) उत्तमपुरुषः
(ii) नपुंसकलिङ्गम्
(iii) प्रथमा
(iv) लङ्लकारः

गद्यांश (35–36)

35. विक्रमार्कराजः यज्ञार्थं समुद्राह्वानाय ब्राह्मणं समुद्रतीरे प्रेषितवान्।

36.
(i) क्तवतु
(ii) बहुवचनम्
(iii) मण्डपः
(iv) प्रथमपुरुषः

पद्यम् (37–38)

37.
(i) ऋषयः मन्त्रकर्तृत्वात् अग्रणीमन्त्रकृताम् उच्यन्ते।
(ii) ज्ञानस्य उपमा कविना सूर्यरश्मेः सह उपन्यस्ता।

38.
(i) सप्तमी
(ii) √आप्

खण्ड–ब : लघु उत्तरीय (39–46)

39. अन्वय–पूर्ति
(i) क्रियाम्
(ii) परमापदां
(iii) विमश्यकारिणम्

40. शुद्ध वाक्य
(क) त्वया पुस्तकं पठ्यते।
(ख) अहं कदा पठामि?
(ग) तत्र बहवः वृक्षाः आसन्।

41. रिक्तस्थान
(क) ग्रामस्य
(ख) सर्वे

42. प्रत्यय
(क) उपक्रान्तवान्
(ख) व्यतिक्रम्य
(ग) गृहीत्वा

43. समास
(क) महाऽन्धकारः
(ख) पर्वतश्रेणी
(ग) महोत्साहः

44. शब्दार्थ
(क) भाग्यवशेन
(ख) खाद्यवस्तु
(ग) मस्तकेन

45. विभक्ति
(क) षष्ठी – सम्बन्ध
(ख) षष्ठी – सम्बन्ध
(ग) चतुर्थी – प्रयोजन

46. सन्धि-विच्छेद
(क) सु + आगतम्
(ख) काल + अंशः
(ग) सम्यक् + रूपेण

खण्ड–स : दीर्घ उत्तरीय

47. श्लोक-मेलन

बुद्धियुक्तो जहातीह — उभे सुकृतदुष्कृते
कुर्वन्नेवेह कर्माणि — जातु तिष्ठत्यकर्मकृत्
नीरक्षीरविवेके — हंसालस्य
न हि कश्चित्क्षणमपि — त्वमेव तनुषे चेत्
असुर्या नाम ते लोका — अन्धेन तमसाऽऽवृताः

48. पत्र (संक्षेप)

(स्थानान्तरण प्रमाणपत्र हेतु प्रधानाचार्य को औपचारिक संस्कृत पत्र)

49. गद्यकाव्य की विशेषताएँ

सरल भाषा, भावप्रधानता, कथात्मकता, अलंकारों का स्वाभाविक प्रयोग, रसात्मकता।

51. ग्रन्थ–लेखक 
(क) अभिज्ञानशाकुन्तलम् – कालिदासः
(ख) उत्तररामचरितम् –भवभूतिः
(ग) श्रीमद्भगवद्गीता –वेदव्यासः
(घ) मृच्छकटिकम् – शूद्रकः
(ङ) नीतिशतकम् – भर्तृहरिः
(च) हितोपदेशः –नारायण पंडित
51(चित्र–वर्णन)
जनाः योगासनं कुर्वन्ति।
ते उपविश्य योगाभ्यासं कुर्वन्ति।
सर्वे शान्तचित्तेन आसनं साधयन्ति।
योगाभ्यासेन शरीरं स्वस्थं भवति।
योगः मनःशान्तिं ददाति।
52. कथा–पूर्ति
(i) उपेत्य
(ii) पाथेयम्
(iii) एकदा
(iv) मृगयाभावेन
(v)  दृष्ट्वा