(घ) वेदाः एव
8. यौवनप्रभवं किं भवति इति उक्तम्?
(क) ज्ञानम्
(ख) अतिगहनं तमः
(ग) वैराग्यम्
(घ) तपस्या
9. ‘दारुणो लक्ष्मीमदः’ इत्यस्य अर्थः कः?
(क) लक्ष्म्याः सौम्यप्रभावः
(ख) लक्ष्म्याः गर्वः
(ग) दानशीलता
(घ) वैराग्यम्
10. राज्यसुखसन्निपातेन का अवस्था भवति?
(क) जागरूकता
(ख) ज्ञानवृद्धिः
(ग) घोरा निद्रा
(घ) तपस्या
पद्यम्-
"अप्यग्रणीमन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते।
यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः॥॥"
11. श्लोके सम्बोधनं कस्य कृतम् अस्ति?
(क) कुशाग्रबुद्धेः
(ख) गुरोः
(ग) ऋषेः
(घ) मन्त्रस्य
12. गुरुः केषां मध्ये अग्रणी कथितः?
(क) देवानाम्
(ख) मन्त्रकृतामृषीणाम्
(ग) राज्ञाम्
(घ) ब्राह्मणानाम्
13. ‘कुशाग्रबुद्धे’ इत्यस्य कः अर्थः?
(क) मन्दबुद्धिः
(ख)मूढबुद्धिः
(ग) अल्पबुद्धिः
(घ) तीक्ष्णबुद्धिः
14. ज्ञानस्य उपमा केन दत्ता अस्ति?
(क) अग्नेः
(ख) उष्णरश्मेः
(ग) वायोः
(घ) चन्द्रस्य
15. श्लोकानुसारं ज्ञानं केन प्राप्तम्?
(क) गुरुणा
(ख) त्वया
(ग) लोकेन
(घ) ऋषिभिः
नाट्यांशः-
"लवः : (सकौतुकोपरोधविनयम्।) आर्याः! पश्यत। एभिर्नीतोऽस्मि।
(इतित्वरितं परिक्रामति।)
अरुन्धतीजनकौ: महत्कौतुकं वत्सस्य।
कौसल्या : अरण्यगर्भरूपालापै!यं तोषिता वयं च। भगवति! जानामि तं पश्यन्ती वञ्चितेव। तस्मादितोऽन्यतो भूत्वा प्रेक्षामहे तावत् पलायमानं दीर्घायुषम्।"
16. ‘एभिर्नीतोऽस्मि’ इति वाक्यं कः वदति?
(क) कौसल्या
(ख) अरुन्धती
(ग) लवः
(घ) जनकः
17. लवः किं कृत्वा परिक्रामति?
(क) शनैः
(ख) विलम्बेन
(ग) त्वरितम्
(घ) भयेन
18. ‘वत्सस्य महत्कौतुकम्’ इति के उच्यते?
(क) कौसल्यया
(ख) लवेन
(ग) अरुन्धतीजनकाभ्याम्
(घ) तपस्विभिः
19. कौसल्या केन तोषिता भवति?
(क) लवस्य वचनेन
(ख) अरण्यगर्भरूपालापैः
(ग) कौतुकेन
(घ) दर्शनमात्रेण
20. कौसल्या कं पश्यन्ती वञ्चितेव भवति?
(क) लवं
(ख) जनकं
(ग) दीर्घायुषम्
(घ) तपस्विनम्
निर्देश: रेखांकित पदानि आधृत्य प्रश्ननिर्माणं कुरुत।
21.मन्त्रकृताम् अग्रणी: महर्षिः वरतन्तुः आसीत्।
(क) कः
(ख) कीदृश:
(ग)केन
(घ) कुत्र
22. कुबेरात् अर्थं निष्क्रष्टुम् रघुः चकमे।
(क) कः
(ख) कीदृशः
(ग) कस्मात्
(घ) कुत्र
23. कौत्सः गुरुदक्षिणार्थं धनं याचितुं रघु प्राप।
(क)कस्य
(ख) कीमर्थं
(ग) केन
(घ) कुत्र
24. कौत्सः महर्षेः वरतन्तोः शिष्यः आसीत्।
(क)कः
(ख) कीदृशः
(ग) केन
(घ) कस्य
25.रघुः विश्वजित्’-नामकम् अध्वरम् अनुतिष्ठति स्म।
(क) कम्
(ख) कीदृशः
(ग) केन
(घ) काम्
निर्देशः निर्देशानुसारम् उत्तरं चिनुत-
26. बटवः अश्वं कथं वर्णयन्ति ?
(क) भूतविशेषम्
(ख) भूतम्
(ग) राजाश्वम्
(घ) विशेषम्।
27.बुद्धियुक्तः अस्मिन् संसारे के जहाति?
(क) सुकृते (ख) दुष्कृते (ग) अकर्मणी (घ) सुकृतदुष्कृते। 28.कीदृशे मनसि उपदेशगुणाः प्रविशन्ति।
(क) मलिने
(ख) अपगतमले
(ग) छलयुक्ते
(घ) छलान्विते।
29. मरालस्य मानसं कं विना न रमते।
(क) मनः
(ख) मानसम्
(ग) सरोवरम्
(घ) पुण्यतालम्।
30.सहसा किं न विदधीत ?
(क) भोजनम्
(ख) पठनम्
(ग) क्रियाम्
(घ) शय्याम्।
भाग-B
( विषयनिष्ठ प्रश्न)
खण्ड -अ
( अति लघु उत्तरीय प्रश्नः)
कस्यापि षट् प्रश्नस्य उत्तरं ददातु।
निर्देश: अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तान् प्रश्नान् निर्देशानुसारम् उत्तरत -2x6-12
गङ्गा देशस्य प्रमुखा नदी। गङ्गायाः अपरं नाम भागीरथी। एषा नदी हिमालयात् निर्गच्छति। एतस्याः नद्याः तीरे बहवः तीर्थाः मुनीनाम् आश्रमाः च सन्ति। हरिद्वारनगरम् प्रसिद्ध तीर्थस्थानम् गंगानद्याः तटम् अलंकरोति। अत्र अनेके देवालयाः सन्ति। सायंकालस्य दृश्यम् तु अत्र अनुपमम् एव। भक्ताः गंगादेवीं श्रद्धया पूजयन्ति, प्रज्वलितान् दीपान् च नद्याः जले प्रवाहयन्ति। यदा प्रज्वलिता: दीपा: जलेषु तरन्ति, तदा एवं प्रतीयते यत् ताराणां समूह : आकाशात् अवतीर्य पृथिव्याम् आगतः। गंगानदी परमपावना नदी मन्यते।
प्रश्नाः
पूर्णवाक्येन उत्तरत -
31.गङ्गायाः अपरं नाम किम् अस्ति?
32.गङ्गानद्याः तीरे के-के सन्ति? 33. सायंकाले गङ्गानद्याः जले प्रज्वलितदीपाः तरन्तः किं प्रतीयते?
34. यथानिर्देशम् उत्तरत -
(1)‘गङ्गायाः’ इति पदस्य विभक्ति-वचनं लिखत।
(ii)‘निर्गच्छति’ इति क्रियापदस्य लकारं, पुरुषं, वचनं च लिखत।
(iii) ‘पावना’ इति शब्दस्य मूल शब्दः (प्रातिपदिकम्) किम्?
(iv)‘प्रज्वलितान् दीपान्’ इति पदयोः विशेष्य-विशेषण-सम्बन्धं दर्शयत।
अधोलिखितं गद्यांश, पद्यं च पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत -
गद्यांशः-
"शब्दानुशासनमिदानीं कर्तव्यम्। किं शब्दोपदेशः कर्तव्यः, आहोस्विदपशब्दोपदेशः, आहोस्विदुभयोपदेश इति ? अन्यतरोपदेशेन कृतं स्यात्। तद्यथा-भक्ष्यनियमेनाभक्ष्यप्रतिषेधो गम्यते । 'पश्च पश्चनखा भक्ष्याः' इत्युक्ते गम्यत एतत्- अतोऽन्येऽभक्ष्या इति ॥
अभक्ष्यप्रतिषेधेन च भक्ष्यनियमः। तद्यथा- 'अभक्ष्यो ग्राम्यकुक्कुट अभक्ष्यो प्राम्यसूकर: ' इत्युक्ते गम्यत एतत्-आरण्यो भक्ष्य इति ।। एवमिहापि।
यदि तावच्छब्दोपदेशः क्रियते, गौरित्येतस्मिन्नुपविष्टे गम्यत एतत् गाव्यादयोऽपशब्दा इति। अथाप्यपशब्दोपदेशः क्रियेत, एतत् गौरित्येष शब्द इति ॥
किं पुनरत्र ज्यायः ?"
प्रश्नाः
पूर्णवाक्येन उत्तरत -
35.शब्दानुशासनस्य कर्तव्यं किमर्थं निर्दिश्यते?
36. निर्देशानुसारम् उत्तरत :
(1)‘शब्दानुशासनम्’ इति पदस्य समासभेदं लिखत।
(ii) ‘कर्तव्यम्’ इति पदस्य धातुं लकारं च लिखत।
(iii)‘गम्यते’ इति क्रियापदस्य पुरुषं वचनं च लिखत।
(iv)‘अपशब्दोपदेशः’ इति पदे कः समासः?
पद्यम् -
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते झवश: कर्म सर्वः प्रकृतिजैर्गुणैः ॥
37. पूर्णवाक्येन उत्तरत -
(1) कश्चित् जनः क्षणमपि किं कर्तुं न शक्नोति?
(ii) सर्वः जनः कैः गुणैः प्रेरितः कर्म करोति?
38. यथानिर्देशम् उत्तरत -
(i) ‘कार्यते’ इति क्रियापदस्य लकारं, पुरुषं, वचनं च लिखत।
(ii) ‘अकर्मकृत्’ इति विशेषणं कस्य विशेषणम् अस्ति?
खण्ड -ब
(लघु उत्तरीय प्रश्नः)
कस्यापि षट् प्रश्नस्य उत्तरं ददातु। प्रत्येकं प्रश्नस्य उत्तरं अधिकतमं १५० शब्देषु ददातु।
39. अधोलिखितस्य श्लोकस्य अन्वये रित्तस्थानपूर्ति कुरुत
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति॒ तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥ अनेजदेकं (i).................जवीयःनैनद्देवा आप्नुवन्पूर्वम् अर्षत् तद्धावतोऽन्यान् (ii)............एति तिष्ठत् तस्मिन् अपो (iii)......................दधाति।
40.वाक्यं शुद्ध कुरुत-
(क)रामायणं राष्ट्रकाव्यम् सन्ति।
(ख)बालकाः क्षेत्रे धावति।
(ग)मोहनः विद्यालयः गच्छति। 41. उचितरूपैः रिक्तस्थानं पूरयत - (क).----------- परित: वृक्षाः सन्ति । (विद्यालय)
(ख).रामः रावणं----------- हतवान् । (बाण)
(ग).----------- स्वाहा ।(अग्नि)
42. प्रत्ययं संयोज्य लिखत
(क).वि + √धा + ल्यप्
(ख).√गम् + क्त्वा
(ग).√गम् + क्त
43. अधः समस्तपदानां विग्रहाः दत्ताः, तानाश्रित्य समस्तपदानि रचयत
यथा-वनस्य अन्तरे-वनान्तरे ।
(क).दीर्घाःवृक्षाः
(ख).शीघ्रं गतः
(ग). गृहे स्थितः
44. शब्दार्थं लिखत-
(क)अनाश्रितः
(ख) चिकीर्षुः
(ग) असक्तः
45. रेखाङ्कितपदस्य विभक्ति तत् कारणं च लिखत -
(क)ग्रामम् अभितः पर्वताः सन्ति ।
(ख) रामः रावणं वाणेन हतवान्।
(ग) मोहनः पादेन खञ्जः।
46. अधोलिखितपदानां सन्धिं विच्छेदं वा कुरुत
(क).गणेशः-.............+................
(ख).सूर्योदयः-.............+.................
(ग).निः+मलः-...............................
खण्ड -स
(दीर्घ उत्तरीय प्रश्नः)-5x4-20
चतुर्णां प्रश्नानाम् उत्तरं ददातु। प्रत्येकं प्रश्नस्य उत्तरं अधिकतमं २५० शब्देषु ददातु।
47.श्लोकमेलनं कुरुत -
'अ'' आ'
अन्धन्तमः प्रविशन्ति जातु तिष्ठत्यकर्मकृत्।
ततो भूय इव ते तमो सर्वः प्रकृतिजैर्गुणैः ॥
न हि कश्चित्क्षणमपि य उ विद्यायां रताः ॥
कार्यते ह्यवश: कर्म येऽविद्यामुपासते ।
48.विद्यालयात् दिनद्वयस्य अवकाशार्थं प्राचार्यं प्रति आवेदनपत्रं लिखत।
49.महाकाव्यम् इति विधायाः वैशिष्ट्यं प्रतिपादयत।
50.अधोलिखित्तरचनानां लेखकानां नामानि लिखत । (केवलं पञ्चानाम् )
(क)रामायणम्
(ख) पाषाणीकन्या
(ग) नैषधीयचरितम्
(घ) समुद्रसङ्गमः
(ङ)कादम्बरी
(च) रघुवंशः
51. मञ्जूषासहायतया चित्रं दृष्ट्वा पञ्च चाक्यानि रचयत -
मन्जूषाः-वृक्षच्छायायां,शान्तचित्तेन,शिक्षकः,मुक्तवातावरणे,ज्ञानवृद्धये।
52.मञ्जूषातः उचितसङ्केतान् गृहीत्या अधोलिखितां कथां पूरयित्वा पुनः लिखत-
मन्जूषाः-एकं घटं, ग्रीष्मकाले, सन्तुष्टः, जलं, लघून् पाषाणान्।
ग्रीष्मकाले, एकं घटं, लघून् पाषाणान्, एवं, सन्तुष्टः।
एकस्मिन् वने (i)......…............ महातृष्णया पीडितः एकः काक: आसीत्।सः जलं अन्वेष्टुं सर्वत्र भ्रमन् आसीत्।अन्ते सः (ii)......…............ अपश्यत्।घटे अल्पं जलम् आसीत्।काक: तं घटं मुखेन प्राप्तुं न अशक्नोत्।सः चिन्तयामास- “कथं जलं प्राप्नुयाम्?”ततः काक: उपायम् अचिन्तयत्।सः समीपात् (iíi)......…............आनयत्। एकैकशः तान् घटे अक्षिपत्।पाषाणैः जलस्य स्तरः शनैः शनैः वर्धितः।शीघ्रमेव (iv)......…............ घटस्य मुखे आगतम्। काकः आनन्देन जलं अपिबत्।ततः सः (v)......…............ सन्तुष्टः अभवत्।
उत्तरम्-
1.(ग) षट्
2.(ग) वर्षा
3.(ख) कृष्णैः मेघैः
4.(ख) कृषकाः
5.(ग) शस्य-श्यामला
6. (ग)
7. (ग)
8. (ख)
9. (ख)
10.(ग)
11.(ख)
12.(ख)
13. (ग)
14. (ग)
15. (ख)
16. (ग)
17. (ग)
18. (ग)
19. (ख)
20. (ग)
21.(क) कः
22.(ग) कस्मात्
23.(ख) कीमर्थं
24.(घ) कस्य
25.(क) कम्
26.(क)
27.(घ)
28.(ख)
29.(ग)
30.(ग)
31.भागीरथी.
32. बहवः तीर्थाः मुनीनाम् आश्रमाः
33.ताराणां समूहः आकाशात् अवतीर्य पृथिव्याम् आगतः इव
34.(1)षष्ठी विभक्ति, एकवचनम्।
(ii)लट् लकारः, प्रथम पुरुषः, एकवचनम्।
(iii)पावन।
(iv)अत्र ‘प्रज्वलितान्’ इति विशेषणम्, ‘दीपान्’ इति विशेष्यः।
35.शब्दोपदेशः कर्तव्यः वा अपशब्दोपदेशः वा उभयोपदेशः वा इति निर्णेतुम्
36.
(1) शब्दानुशासनम् — षष्ठी तत्पुरुष समासः।
(ii)धातुः कृ, विधेयार्थे कृदन्तप्रयोगः।
(iii)प्रथम पुरुषः, एकवचनम्।
(iv)अपशब्दोपदेशः — षष्ठी तत्पुरुष समासः।
37.(1) अकर्मकृत् (अकर्मणः)
(ii) प्रकृतिजैः गुणैः
38.
(i)लकारः लट्,पुरुषः प्रथम,वचनः एकवचनम्।
(ii)‘अकर्मकृत्’ कश्चित् (सर्वनाम) विशेषणम् अस्ति।
39.(i)मनसो
(ii)अति
(iii)मातरिश्वा
40.
(क रामायणं राष्ट्रकाव्यम् अस्ति ।
(ख)बालकाः क्षेत्रे धावन्ति।
(ग)मोहनः विद्यालयं गच्छति।
41.
(क),विद्यालयं
(ख).बाणेन
(ग).अग्नये
42.(क) विधाय
(ख)गत्वा
(ग)स्थित
43.
(क).दीर्घवृक्षाः
(ख).शीघ्रगतः
(ग). गृहस्थितः
44.(क)न चाहता हुआ। (ख) चाहता हुआ। (ग) अनासक्त हुआ।
45.
(क)द्वितीया-अभितः परितः सर्वतः समया निकषा प्रति संयोगेऽपि द्वितीया।
(ख)तृतीया-साधकतमं करणम्
(ग)तृतीया-येनाङ्गविकारः।
46
.(क).गण+ईशः (ख).सूर्य+उदयः (ग).निर्मलः
47.श्लोकमेलनं कुरुत -
'अ'' आ'
अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ॥
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवश: कर्म सर्वः प्रकृतिजैर्गुणैः ॥
50.
(क) वाल्मीकि
(ख) चन्द्रशेखरदासवर्मा
(ग) श्रीहर्षः
(घ)दाराशिकोह
(ङ)बाणभट्ट
(च) कालिदासः
51.अत्र वृक्षच्छायायां छात्राः छात्रिकाश्च पंक्तिशः उपविश्य लेखनकार्यं कुर्वन्ति।सर्वे विद्यार्थीणः शान्तचित्तेन ध्यानपूर्वक अभ्यासं कुर्वन्ति।शिक्षकः अग्रे स्थित्वा विद्यार्थिनां मार्गदर्शनं करोति।मुक्तवातावरणे अध्ययनस्य सुखदः अनुभवः दृश्यते।एषा शिक्षा-पद्धतिः विद्यार्थिनां ज्ञानवृद्धये उपयोगिनी अस्ति।
52.
(i)ग्रीष्मकाले,
(ii)एकं घटं,
(iii)लघून् पाषाणान्,
(iv) जलं
(v)सन्तुष्टः।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें
जयतु संस्कृतम्।