योगस्य वैशिष्ट्यम्
जेसीईआरटी तथा एनसीईआरटी के कक्षा-12 के संस्कृत पाठ्यपुस्तक-शाश्वती भाग 2 के त्रयोदशः पाठ: योगस्य वैशिष्ट्यम् का शब्दार्थ सहित हिन्दी अनुवाद एवं भावार्थ तथा उस पर आधारित प्रश्नोत्तर सीबीएसई सत्र-2022-2023 के लिए यहाँ दिए गए हैं।यहाँ दिए गए हिंदी अनुवाद तथा भावार्थ की मदद से विद्यार्थी पूरे पाठ को आसानी से समझकर अभ्यास के प्रश्नों को स्वयं कर सकते हैं।
परिचित योगसूत्र पर आधारित है। जिसमें योगाभ्यास के माध्यम से जीवन को संयमित बनाने के लिए शारीरिक, मानसिक एवं बौद्धिक रूप से विशिष्ट उपायों का उल्लेख किया गया है तथा योग के विभिन्न स्वरूपों का लक्षण वर्णन किया गया है। प्रस्तुत पाठ का संवाद के माध्यम से रोचक रूप में विवेचन किया गया है। पाठ में निहित विषयवस्तु छात्रों के बहुमुखी विकास के लिए अत्यंत उपयोगी है।
(कक्षायाः दृश्यम् अद्य कक्षा विशेषरूपेण सुसज्जिता अस्ति। भित्तिषु योगविषयस्य विविध चित्राणि जितानि सन्ति।)
स्वप्निल:-बलराम!अद्य कक्षायां कोऽपि विशिष्ट कार्यक्रमः ?
बलराम:- अरे मित्रा त्वं न जानासि ? इदानीं तु योगशिक्षायाः कालांश: ।
मोहिनी:- एषः तु नूतन विषयः किं प्रतिदिनम् ईदृशी कक्षा प्रचलिष्यति ?
बलराम:-आम्, अधुना तु अस्माकं कृते योगशिक्षा अतीव उपयोगिनी अस्ति।
सागरिका:-अहो सुखदमाश्चर्यम् । अहमपि गृहे मातुः मुखाद् योगशिक्षायाः विषये
श्रुतवती तथा उक्तम्- 'योग: स्वास्थ्यकरः।'
सागर:-कि विद्याध्ययनेऽपि अस्योपयोगः वर्तते ?
मोहिनी:-आम्,अस्मिन् विषये योगशिक्षकः, विशेषरूपेण वदिष्यति।
(योगशिक्षक कक्षायां प्रविशति )
छात्रा:-नमो नमः आचार्य। स्वागतम् अत्र भवतां कक्षायाम्।
योगाचार्य:-छात्राः भवन्तः सम्प्रति समुत्सुकाः दृश्यन्ते। काऽपि विशिष्टा जिज्ञासा
अस्ति किम्?
सागर:- भो आचार्यः वयं सर्वे योगस्य उपयोगितायाः विषये सम्यग्रूपेण ज्ञातुम्
उत्सुकाः स्मः।
योगाचार्य:-प्रियच्छात्राः किं भवन्तः जानन्ति यत् योगशास्त्रे शरीरस्य मनसः च नियमन प्रतिपादितं वर्तते। अस्य ज्ञानेन अभ्यासेन च भवन्तः स्वाध्यायेऽपि एकाग्रता वर्धयितुम् सक्षमाः भविष्यन्ति ।
मनीष:-अस्माभिः समाचारपत्रेषु पठितम् यत् विश्वेऽपि योगदिवसः सोत्साहम् मान्यते।
योगाचार्य:-साधूक्तम्। जूनमासस्य एकविंशतितमः दिवसः अन्तराष्ट्रिययोगदिवसरूपेण तु सर्वत्र मान्यते
मोहिनी:-आचार्य ! सम्प्रति वयं योगविषये सविस्तरं ज्ञातुम् इच्छामः । (योगाचार्यः पाठमाध्यमेन योगशिक्षा शिक्षयति)
योगाचार्य:-प्रियच्छात्राः ध्यानेन शृणुत।
योगश्चित्तवृत्तिनिरोधः
मोहन:-चित्तवृत्तिनिरोधः । अथ किं तात्पर्यम् अस्य ?
योगाचार्य:-चित्तवृत्तीनां भेदः लक्षणम् चावगच्छन्तु प्रथम, ततः विस्तरेण योधयामि'प्रमाणविपर्ययविकल्पनिद्रास्मृतयः' इति।
प्रमाणम् अर्थात् प्रत्यक्षानुमानागमाः प्रमाणानि।
विपर्ययः अर्थात् विपर्ययो मिथ्याज्ञानमतरूपप्रतिष्ठम्।
विकल्पः अर्थात् शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ।
निद्रा-अभावप्रत्ययालम्बनावृत्तिर्निद्रा ।
स्मृति:-अनुभूतविषयासम्प्रमोषः स्मृतिः ।
(सर्वं श्यामपट्टे योगाचार्यः लिखति अवबोधयति च छात्राः च प्रसन्नमनसा अवगच्छन्ति,स्वपुस्तिकासु चाऽपि लिखन्ति)
सागर:-आचार्य ! अन्यदपि ज्ञातुमुत्सुकाः वयं विस्तरेण।
योगाचार्य:-अधुना योगाङ्गानां नामानि लक्षणानि चावबोधयामि-
यमनियमासनप्राणायामप्रत्याहार-धारणाध्यानसमाधयोऽष्टावङ्गानि '
सागरिका:-कः तात्पर्यः अस्य एतादृशस्य दीर्घवाक्यस्य ? किञ्चिदपि नावगम्यते....
योगाचार्य:-अलं चिन्तया,एकैकं कृत्वा बोधयामि।
यमः-अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः।
नियमः-शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।
आसनम्-स्थिरसुखमासनम्।
प्राणायामः-तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ।
प्रत्याहारः-स्वविषयसम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ।
धारणा-देशबन्धश्चित्तस्य धारणा।
ध्यानम्- तत्र प्रत्ययैकतानता ध्यानम्।
समाधिः-तदेवार्थमात्रनिर्भास स्वरूपशून्यमिव समाधिः।
एतत्सर्वमपि योगाचार्य श्यामपट्टे लिखित्वा बोधयति छात्राश्च स्वस्वपुस्तिकासु लिखन्ति, अवबुध्यन्ति च।
स्वप्निल:-आचार्य। योगाङ्गानां नामानि तु अस्माभिः सुष्ठु ज्ञातानि अवबुद्धानि चाऽपि । साम्प्रतं योगाङ्गानां फलमपि ज्ञातुं महती उत्कण्ठा वर्तते ।
योगाचार्यः-आम् आम् तदपि बोधयामि शृण्वन्तु, लिखन्तु, अवबुध्यन्तु च तावत्-
यम:
अहिंसा-अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ।
सत्यम्-सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ।
अस्तेयम्-अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ।
ब्रह्मचर्यम्-ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः |
अपरिग्रहः-अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः।
बलराम:-अतीव ज्ञानवर्धिका एषा कक्षा पुस्तकालयं गत्वाऽपि एतावत् ज्ञान
प्राप्तुमशक्यमासीत् वादृशम् अद्य अस्यां कक्षायां प्राप्तम्।
नियमः-
शौचम्-शौचास्वाङ्गजुगुप्सा परैरसंसर्गः सत्त्वशुद्धिसौमनस्य ऐका ग्रेन्द्रियजयात् आत्मदर्शनयोग्यत्वानि च।
सन्तोष:-सन्तोषादनुत्तमसुखलाभः ।
तपः - कार्येन्द्रियसिद्धिः अशुद्धिाक्षयात्तपः ।
स्वाध्यायः-स्वाध्यायादिष्टदेवतासम्प्रयोगः ।
ईश्वरप्रणिधानम् - समाधिसिद्धिरीश्वरप्रणिधानात्।
(तदैव घण्टावादनम् भवति)
सर्वे छात्राः-आचार्य! कृपया आसन-प्राणायामेत्यादिकं स्पष्टीकृत्य एव कक्षां समापयतु। अर्धे मा त्यजतु ।
योगाचार्यः-आम् आम् बोधयामि अग्रे अपि।
आसनम्-ततो द्वन्द्वानभिघातः
प्राणायामः- ततः क्षीयते प्रकाशावरणम्। धारणासु च योग्यता मनसः ।
प्रत्याहारः-ततः परमावश्यतेन्द्रियाणाम्।
धारणा ध्यान-समाधिः- त्रयमेकत्र संयमः । तज्जयात्प्रज्ञालोकः ।
योगाचार्यः-शोभनम्। श्वः प्रायोगिकं व्यवहारं करिष्यामः, येन भवन्तः यमनियमेत्यादीनां प्रत्यक्षमनुभवं विधास्यन्ति।
(एवं कथयित्वा कक्षातः प्रस्थानं करोति आचार्यः। छात्राः अपि हृष्टमनसा परस्परं योगचर्चा कुर्वाणः सन्ति ।)
1. अधोलिखितप्रश्नानां उत्तराणि संस्कृतेन लिखत
(क) योगः कः कथ्यते ?
(ख) मातुः मुखाद् योगशिक्षायाः विषये का श्रुतवती ?
(ग) छात्राः कस्मिन् विषये ज्ञातुम् उत्सुकाः सन्ति?
(घ) प्रमाणानि कानि ?
(ङ) स्मृतिः का कथ्यते?
(च) निद्रा का भवति ?
(छ) योगाङ्गानि कानि ?
(ज) अहिंसा का कथ्यते?
(झ) अपरिग्रहः कः भवति ?
(ञ) के नियमाः ?
2. वाक्यांशानाम् आशयं स्पष्टीकुरुत ।
(क) स्थिरसुखमासनम् ।
(ख) देशबन्धश्चित्तस्य धारणा ।
(ग) ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः।
(घ) सन्तोषादनुत्तमः सुखलाभः।
(ङ) स्वाध्यायादिष्टदेवतासम्प्रयोगः ।
(ब)
'अ' स्तम्भस्य वाक्यांशैः सह 'ब' स्तम्भस्य वाक्यांशान् मेलयत ।
(अ) (ब)
(क) शब्दज्ञानानुपाती वस्तुशून्यः धारणा
(ख) स्थिरसुखम् वीर्यलाभः
(ग) देशबन्ध चित्तस्य सर्वरत्नोपस्थानम्
(घ) अस्तेयप्रतिष्ठायाम् विकल्पः
(ङ) ब्रह्मचर्यप्रतिष्ठायाम् ध्यानम्
(च) प्रत्येकतानता आसनम्
4. रिक्तस्थानानां पूर्ति कुरुत ।
(क) योगशास्त्रे शरीरस्य मनसः.................................प्रतिपादनं वर्तते।
मान्यते।
(ख) अन्ताराष्ट्रिययोगदिवसः जूनमासस्य "प्रणिधानानि नियमाः.........................मान्यते।
(ग) शौचसन्तोषतपः.......................................क्रियाफलाश्रयत्वम्।
(ङ).......................................मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ।
5. अधोलिखितपदानां सन्धिं विच्छेदं वा कुरुत ।
(क) स्वागतम्
(ख) कालांश:
(ग) अति+इव
(घ) विद्याध्ययनेऽपि
(ङ) स+उत्साहम्
(च) सम्यग्रूपेण
(छ) सन्निधिः
6. अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिङ्गम् च लिखत ।
(क) अस्माकम्
(ख) मनसः
(ग) चिन्तया
(घ) अङ्गानि
(ङ) तस्मिन्
(च) महती
(छ) प्रतिष्ठायाम्
7. पाठमाधृत्य योगस्य महत्तां स्वशब्देषु वर्णयत ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें
जयतु संस्कृतम्।