कथं शब्दानुशासनं कर्तव्यम्
जेसीईआरटी तथा एनसीईआरटी के कक्षा-12 के संस्कृत पाठ्यपुस्तक-शाश्वती भाग 2 के चतुर्दशः पाठ: कथं शब्दानुशासनं कर्तव्यम् का शब्दार्थ सहित हिन्दी अनुवाद एवं भावार्थ तथा उस पर आधारित प्रश्नोत्तर सीबीएसई सत्र-2022-2023 के लिए यहाँ दिए गए हैं।यहाँ दिए गए हिंदी अनुवाद तथा भावार्थ की मदद से विद्यार्थी पूरे पाठ को आसानी से समझकर अभ्यास के प्रश्नों को स्वयं कर सकते हैं।
यह पाठ महर्षि पतञ्जलि विरचित महाभाष्य से उद्धृत है। इसमें शब्दों के अनुशासन का वर्णन किया गया है। इस पाठ में वर्णन किया गया है कि हमें कैसे शब्दों का उपदेश करना चाहिये। अर्थात् केवल शब्दों का उपदेश करना चाहिये, अथवा अपशब्दों का अथवा दोनों का। इसी का समाधान प्रस्तुत पाठ में पौराणिक आख्यानक के माध्यम से किया गया है।
शब्दानुशासनमिदानीं कर्तव्यम्। किं शब्दोपदेशः कर्तव्यः, आहोस्विदपशब्दोपदेशः, आहोस्विदुभयोपदेश इति ? अन्यतरोपदेशेन कृतं स्यात्। तद्यथा-भक्ष्यनियमेनाभक्ष्यप्रतिषेधो गम्यते । 'पश्च पश्चनखा भक्ष्याः' इत्युक्ते गम्यत एतत्- अतोऽन्येऽभक्ष्या इति ॥
अभक्ष्यप्रतिषेधेन च भक्ष्यनियमः। तद्यथा- 'अभक्ष्यो ग्राम्यकुक्कुट अभक्ष्यो प्राम्यसूकर: ' इत्युक्ते गम्यत एतत्-आरण्यो भक्ष्य इति ।। एवमिहापि।
यदि तावच्छब्दोपदेशः क्रियते, गौरित्येतस्मिन्नुपविष्टे गम्यत एतत् गाव्यादयोऽपशब्दा इति। अथाप्यपशब्दोपदेशः क्रियेत, एतत् गौरित्येष शब्द इति ॥
किं पुनरत्र ज्यायः ?
लघुत्वाच्छबदोपदेशः । लघीयाच्छब्दोपदेशः।
गरीयानपशब्दोपदेशः। एकैकस्य शब्दस्य बहवोऽपभ्रंशाः । तद्यथा-गौरित्यस्य शब्दस्य गावी गोणी गोता गोपोतलिका-इत्येवमादयोऽपभ्रंशाः ।
इष्टान्वाख्यानं खल्वपि भवति ॥ अथैतस्मिन्शब्दोपदेशे सति किं शब्दानां प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः- गौरश्वः पुरुषो हस्ती शकुनिर्मृगो ब्राह्मण इत्येवमादयः शब्दाः पठितव्या?
नेत्याह। अनभ्युपाय एष शब्दानां प्रतिपत्तौ प्रतिपदपाठः। एवं हि श्रूयते-“बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम "॥ बृहस्पतिश्च प्रवक्ता, इन्द्रश्चाध्येता, दिव्यं वर्षसहस्रमध्ययनकाल:, न चान्तं जगाम । किं पुनरद्यत्वे? यः सर्वथा चिरं जीवति वर्षशतं जीवति ।
चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति-आगमकालेन, स्वाध्यायकालेन, प्रवचनकालेन, व्यवहारकालेनेति। तत्र चास्यागमकालेनैवायुः पर्युपयुक्तं स्यात् । तस्मादनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठः ॥
कथं तमे शब्दाः प्रतिपत्तव्या: ?
किश्चित्सामान्यविशेषवल्लक्षणं प्रवर्त्यम् । येनाल्पेन यत्नेन महतो महतः शब्दौघान् प्रतिपद्येरन् ॥
किं पुनस्तत्?
उत्सर्गापवादौ । कश्चिदुत्सर्गः कर्तव्यः, कश्चिदपवादः ॥ कथञ्जातीयकः पुनरुत्सर्गः कर्तव्यः कथञ्जातीयको ऽपवादः ? | सामान्येनोत्सर्गः कर्तव्यः । तद्यथा-"कर्मण्यण्" । तस्य विशेषेणापवादः । तद्यथा-' -"आतोऽनुपसर्गे कः "
1. संस्कृतभाषायाम् उत्तरत ।
(क) मनुष्यस्य आयुः कति वर्षाणि मन्यते?
(ख) कस्य नियमेन अभक्ष्यप्रतिषेधो गम्यते?
(ग) गाम्यकुक्कुटः मक्ष्यः अमक्ष्यः वा?
(घ) कः ज्यायः अस्ति?
(ङ) कः गरीयान् अस्ति ?
2. रेखाङ्कितपदानि आवृत्य प्रश्ननिर्माणं कुरुत |
(क) एकैकस्य शब्दस्य बहव: अपभ्रंशाः सन्ति ।
(ख) शब्दानां प्रतिपत्ती प्रतिपदपाठः कर्तव्यः।
(ग) बृहस्पतिः इन्द्राय प्रतिपदशब्दान् उक्तवान्।
(घ) चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति ।
(ङ) सामान्येन उत्सर्गः कर्तव्यः ।
3 विपरीतार्थैः सह मेलनं कुरुत ।
(क) भक्ष्यम् -तदानीम्
(ख) लघीयान् -अनिष्टान्
(ग) एकः -अभक्ष्यम्
(घ) इष्टान् - -गरीयान्
(ङ) इदानीम् -बहव:
4. अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत ।
(क) अन्यतरोपदेशेन कृतं स्यात् ।
(ख) इष्टान्वाख्यानं खल्वपि भवति ।
(ग) यः सर्वथा चिरं जीवति वर्षशतं न जीवति ।
(घ) चतुर्भिश्च प्रकारैर्विद्योपयुक्ता न भवति ।
(ङ) आगमकालेनैवायुः कृत्स्नं पर्युपयुक्तं स्यात् ।
5. शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।
(क) शब्दानुशासनम्
(ख) भक्ष्यम्
(ग) इदानीम्
(घ) चिरम्
(ङ) प्रवक्ता
(क) इदानी-
(च) कृत्स्नम्
6. रिक्तस्थानानि पूरयत ।
प्रतिपदपाठः कर्तव्यः, शब्दोपदेशाः, अपभ्रंशाः, अपशब्दोपदेशाः, अभक्ष्यप्रतिषेधः, शब्दानुशासनम्
(क)इदानीं-------------------कर्त्तव्यम्।
(ख) भक्ष्यनियमेन--------------------गम्यते ।
(ग) गरीयान्--------------------------।
(घ) एकैकशब्दस्य बहवः----------------भवन्ति।
(ङ) लघुत्वात्----------------------।
(च) शब्दोपदेशे सति शब्दानां प्रतिपत्तौ----------------------।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें
जयतु संस्कृतम्।