expr:class='"loading" + data:blog.mobileClass'>

मंगलवार, 13 सितंबर 2022

कन्थामाणिक्यम्

 कन्थामाणिक्यम्
प्रस्तुत पाठ आधुनिककाल के प्रतिष्ठित संस्कृत साहित्यकार अभिराज राजेन्द्रमिश्र के एकांकी - संग्रह रूपरुद्रीयम् से संकलित है।'कन्थामाणिक्यम्' का अर्थ है- गुदड़ी का लाल ! नगर के जाने-माने हाईकोर्ट के वकील भवानीदत्त को स्वभावतः चिढ़ है गरीबों की बस्ती से। वह नहीं चाहते कि उनका बच्चा सिन्धु गन्दी बस्ती की ओर जाये, परन्तु संयोगवश सिन्धु का मित्र सोमधर उसी बस्ती में रहता है।दुर्घटना में सिन्धु के आहत होने पर एक दिन वही सोमधर सिन्धु को रिक्शे पर बैठाकर घर लाता है। इधर सिन्धु के घर सब चिन्तित हैं कि बच्चा अभी तक घर क्यों नहीं लौटा ? फ़ोन पर फ़ोन होते हैं। भवानीदत्त स्वयं पता लगाने जाना ही चाहते हैं कि एक रिक्शा घर के लॉन में आता है जिस पर सोमधर सिन्धु को गोद में सँभाले बैठा दीखता है।सोमधर के इस सद्व्यवहार से भवानीदत्त की आँखें खुल जाती हैं। वह उसे गुदड़ी का लाल मान लेते हैं और उसकी शिक्षा का सारा भार अपने ऊपर ले लेते हैं। अब उन्हें गरीबों एवं उनकी बस्ती से बड़ी सहानुभूति हो जाती है।
(समुत्प्रेरकं शिशुजनैकाङ्कम्) 
॥ प्रथमं दृश्यम् ॥
नगरस्य सघनवसतौ प्रख्याताधिवक्तुर्भवानीदत्तस्य भवनम् । भवनान्तरे परिजनानां वार्ताध्वनिः श्रूयते । 
भवानीदत्तः- रामदत्त ! अयि भो रामदत्त ! हरण ! -
(सेवकौ रामदत्तहरणौ ससम्भ्रमं धावन्तावागच्छतः)
हरण:-(अङ्गप्रच्छदेन हस्तौ मार्जयन्)
अन्नदातः! रसवत्यामासम् । किं कर्तुं युज्यते ?
रामदत्तः- (वचोभिः प्रसादयन्)
स्वामिन्! शीतलमानयानि किञ्चित् उष्णं वा ? आहोस्वित् पक्ववटिकादीनि खादितुमिच्छति भवान्?
भवानीदत्तः- (रोषोत्तप्तां मुखाकृतिं किञ्चिन्मसृणयन्) अलम् अलम् । सर्वेऽपि यूयं म्रियध्वे? आहूतोऽपि न शृणोति कश्चित् ? गृहमस्ति कस्यचित् भद्रपुरुषस्य भग्नावशेषो वा प्रेतानाम् ?
रामदत्तः-(सापराधमुद्रम्)
स्! स् स्वामिन् कार्यव्यापृतैरस्माभिर्न श्रुतम् । तत्क्षमन्तामन्नदातारः ।
भवानीदत्तः-भवतु। अलं नाटकेन । गच्छ, सिन्धुमानय तावत् ।
निषेधं नाटयेच्चेत् कर्णग्राहमानय ।
हरण:-(भयभीतस्सन्)
स्वामिन्! किं भर्तृदारकेण किञ्चिदपराद्धम् ? इदानी - मेव क्रीडित्वा सोऽपि समागतः । स्वामिन्याः पार्श्वे भविष्यति ।
भवानीदत्तः-(कठोरस्वरेण)
हरण! कियद्वारं निर्दिष्टोऽसि यत् प्रवचनं न कार्यम्। यदुच्यते तदेव शृणु ! किमवगतम् ? (सनैराश्यम्)
हरण:-युक्तमेतत् स्वामिन्! एष गच्छामि।
(हरणो गच्छति। रामदत्तोऽपि तमनुसरति । कति- पयनिमेषानन्तरं द्वावपि भृत्यौ भवानीदत्तस्य पुस्तकाल- यमागच्छतः। पश्चाच्चाधिवक्तुः पत्नी रत्नापि दारकेण सार्धमायाति)
रत्ना-किंवृत्तम् ? अद्यागतप्राय एव वात्याचक्रमुत्थापयसि ? कस्मिंश्चिद् वादे पराजितोऽसि किम्? 
भवानीदत्तः-बाढम् । गृहेश्वरि ! पराजितोऽस्मि तव न्यायालये । (हरणरामदत्तौ मुखे करप्रोञ्छनीं विन्यस्याऽट्टहासं
रोद्धुं प्रयतेते)
भवानीदत्तः-(सेवकौ प्रति)
भो युवां तत्र किमुपजपथः ? पलायेथां ततः ।
(भृत्यौ हसन्तौ गृहाभ्यन्तरं पलायेते)
रत्ना-(सस्मितम्) 
अवितथं भण, किंवृत्तम् ? मनःस्थितिः कथमद्य संस्खलति ?
भवानीदत्तः-(प्रक्षालनद्रोण्यां मुखं प्रक्षाल्य, प्रच्छदेन च हस्तं मुखं मार्जयन्)
 भणामि, भणामि । सिन्धो! इतस्तावत्।
सिन्धुः-(सभयं कातरदृष्ट्या जननीं पश्यन्) 
अम्ब!
भवानीदत्तः-(कठोरदृष्ट्या पश्यन्)
सिन्धो! इतस्तावत् । तात आह्वयति नाम्बा ।
आगच्छ ।
रत्ना-(दारकं लालयन्ती सविस्मयम्)
भो! किं कृतवान् सिन्धुः। कथमेवं व्यवहरसि, समागच्छन्नेव अग्निं वर्षयसि ? अहमपि तावदा- कर्णयानि।
भवानीदत्तः-देवि! तदेव वच्मि यत्तव सिन्धुना समाचरितम् । कथं भोः, असभ्यानां वसतौ किमर्थं गतवानसि ?
सिन्धुः-(सभयम्) तात! मम सखा सोमधरस्तत्र निवसति । ततः स्वपुस्तकं ग्रहीतुं गतोऽस्मि । 
भवानीदत्तः-किं करोति तस्य पिता?
सिन्धुः-तस्य पिता चतुश्चक्रे शकटे निधाय शाकान् फलानि च विक्रीणीते।
भवानीदत्तः-तव पिता च किं करोति?
सिन्धुः-स तु उच्चन्यायालयेऽधिवक्ताऽस्ति ।
सिन्धुः-भवानीदत्तः कीदृशं तव भवनम् ?
 सिन्धुः-अतिसुन्दरं विशालं मार्जितं च मम भवनम्।
भवानीदत्तः-सोमधरस्य च कीदृशम् ?
सिन्धुः-(हतप्रभः सन्?)
तस्य गृहं नातिदीर्घम् । अस्वच्छवीथिकायाञ्च स्थितम्। न मार्जितं न चाप्यलंकृतम् । 
भवानीदत्तः-(सक्रोधम्)मूर्ख! तस्य गृहमपि नातिदीर्घम्। अस्वच्छवीथिकायां स्थितम्। तस्य पिताऽपि शाकफलविक्रेता, न तव तात इव शिक्षितः। एवम्भूतेऽपि किमर्थं तत्राऽगमस्त्वम्?
सिन्धुः- (सदैन्यम्)
तात! सोमधरः मम सुहृदस्ति । स पठनेऽपि तीक्ष्णः । मय्यतितरां स्नियत्यसौ । तस्मादावयोः प्रगाढा मित्रता । स गणिते मम साहाय्यं करोति ।
भवानीदत्तः-भोः ! पृच्छाम्यहं यत्तेन सह त्वया सख्यमेव कस्मात्कृतम्। तस्मै स्वपुस्तकं कस्माद् दत्तम्? किमुच्चकुलोत्प- न्नाश्छात्राः कक्षायां न सन्ति?
सिन्धुः-(निरुत्तरस्सन्)
तात! सोमधरो मयि स्नियति। स मह्यमपि रोचते । अन्ये छात्रास्तु दुष्टाः । ममाध्यापिका सोमधरं कक्षायाः मान्यतरं (मानीटर) कृतवती।
भवानीदत्तः-(सोद्वेगम्)
त्वं कथं न मान्यतरः कृतः ? फलशाकविक्रेतुर्दारकः कथं त्वामतिशेते?
(सिन्धोः कर्णं किञ्चित्कुब्जीकुर्वन्)
पश्य, इतोऽग्रे तस्यामसभ्यवसतौ न गमिष्यसि। अतः परं शिक्षको भवन्तं गणितमध्यापयिष्यति । अवगतं न वा? सोमधरेण साकं मैत्रीवर्धनस्य न काप्यावश्यकता ।
(सिन्धुरस्फुटं रुदन् गृहाभ्यन्तरं प्रविशति )
रत्ना-(सरोषम्)
साधु साधु! विलक्षणं पितृहृदयमवाप्तम्। कोमलहृदयं बालकं विद्वेषभावं शिक्षयति भवान्? अये, यो गुणवान् स एव सभ्यः स एव धनिकः, स एव आदरणीयः । तस्य गुणवतः पिता यदि शाकफलानि विक्रीय कुटुम्बं पालयति, तर्हि किमत्र पापम् ? स्व-सङ्कीर्णदृष्टिमपलपितुं वराकस्य दारकस्य कर्णमेव भञ्जयितुं प्रवृत्तोऽसि । (दुर्मनायमाना गृहाभ्यन्तरं प्रविशति )
॥ जवनिकापातः ॥
॥ द्वितीयं दृश्यम् ॥
सन्ध्याकालस्य चतुर्वादनवेला अधिवक्ता भवानी- दत्तः स्वपुस्तकालये निषण्णो दूरभाषयन्त्रं बहुश: प्रवर्तयति। भार्या रत्नापि पार्श्वस्थामासन्दीमुपविश्य चिन्तां नाटयति।
भवानीदत्तः-(यन्त्रमुपयोजयन्)
भोः ! किमिदं भरद्वाजविद्यानिकेतनम् ? का नु खलु भवती ब्रवीति ? (श्रुतिं नाटयन्) प्राचार्या ? शोभनं शोभनम् । अयमहं भवानीदत्तो ब्रवीमि । नमस्करोमि तावत्। श्रूयतां तावत् । चतुर्वादनं जातम् । परन्तु मम दारकस्सिन्धुः इदानीं यावद् गृहं नोपावृत्तः । किं विद्यालयेऽद्य कश्चिन्महोत्सवो वर्तते?
(श्रुतिमभिनीय) किमुक्तम्? सपादत्रिवादन एवावकाशो जातः। सर्वेऽपि छात्राः गताः! बाढम्। पश्यामि| 
भवानीदत्तः-(ससम्भ्रमम्!)
किमुक्तवती प्राचार्या? त्रिवादनेऽवकाशो जात: ? भो मम हृदयं कम्पते। सिन्धुः क्व वर्तते? भवान् त्वरितमेव स्कूटरयानेन गच्छतु। पश्यतु तावन्मध्येमार्गं विद्यालय- वाहनं क्व वर्तते? हे परमेश्वर ! रक्ष मम दारकम् !
भवानीदत्तः-(सान्त्वयन्)
गच्छामि, गच्छामि। त्वं पुनः शिशुरिव धैर्यहीना जायसे । कस्मान्मनसि अमङ्गलमेव चिन्तयसि ?
रत्ना-भवान्न जानाति राजपथवृत्तम्। मद्यपा वाहनचालका झञ्झावेगेन यानं चालयन्ति । कोऽपि प्रियेत वा जीवे द्वा । तेषां हतकानां किं जायते ? एतत्सर्वं स्मारं स्मारं निमज्जतीव मम हृदयम्।
भवानीदत्तः-भवतु । शान्ता भव। त्वरितमागच्छामि । (इति प्रस्थामुपक्रमते । अकस्मादेव रिक्शायानमेकं भवनप्राङ्गणं प्रविशति । कश्चिद्बालकः सिन्धुमङ्के निर्धाय रिक्शायाने तिष्ठन्नास्ते)
भवानीदत्तः-(सत्वरमुपसृत्य) 
अये किमिदम्?
(सिन्धुं विलोक्य) 
वत्स! सोमधरस्त्वमेवासि ?
सोमधरः-(सविनयम्)
पितृव्य! अहमेवास्मि सोमधरः सिन्धोर्मित्रम्। सिन्धो-विद्यालयवाहनमद्य केनचित् ट्रकयानेन दृढमाहतम्। ट्रकचालकस्त्वपक्रान्तः। सर्वेऽपि बालकाः क्षतविक्षता जाता:।
भवानीदत्तः-वत्स! त्वं पुनः कुत्राऽसीः ?
सोमधरः-पितृव्य! अहं पुनः प्रतिदिनमिव अद्यापि पदा- तिरेवागच्छन्नासम्। दुर्घटनामनु पञ्चनिमेषानन्तरमेव तत्रासादितवान्। महान् जनसम्मर्दस्तत्राऽसीत्। सिन्धुं प्रत्यभिज्ञाय, अहं पुनस्तद् रिक्शायानमधिरोप्य त्वरितं प्रचलितः । पितृव्य! नात्याहितं किमपि । सिन्धुः केवलं मूर्च्छामुपगतः ।
 (वार्तालापं श्रुत्वा भृत्यौ रत्ना च बहिरायान्ति । रत्ना सिन्धुं निस्संज्ञं दृष्ट्वा भृशं रोदिति)
सोमधरः-अम्ब! अलं चेतनां खलीकृत्य । डॉक्टरधूलियामहोदय- मानयामीदानीमेव । प्रतिवेश एव निवसत्यसौ ।
भवानीदत्तः-वत्स सोमधर! मा गाः कुत्रापि त्वम्। मातृसमीपमेव तिष्ठ। अहं दूरभाषयन्त्रेणैव भिषजमाह्वयामि । (मध्य एव सिन्धुश्चेतनामनुभवति । सोऽम्बामाह्वयति)
सोमधरः-(सहर्षम्) पितृव्यचरण! अलं भिषगावानेन ।
 सिन्धुश्चैतन्यमागतः ।
(भवानीदत्तः दारकसमीपं गच्छति। रत्नानेत्रे आनन्दाश्रुपूरिते जायेते)
सिन्धुः-(अम्बां तातं सोमधरञ्च दृष्ट्वा) 
अम्ब! कथमहं गृहमागतः ? मम वाहनन्तु ट्रकयानेन दृढमाहतमासीत् । वयं सर्वेऽपि तारस्वरेणाक्रोशाम। वाहनमस्माकं विपर्यस्तमासीत् । 
रत्ना-(दारकं प्रचुम्बन्ती)
एवमेतत् वत्स! विपर्यस्तं तव वाहनम्। सोमधर-स्त्वामानीतवान् रिक्शायानेन ।
सिन्धुः-(सप्रणयम्)
सोमू ?
(अकस्मादेव पितरमुपस्थितं दृष्ट्वा सिन्धुः शिथिलीभवति। भवानीदत्तोऽग्रेसरीभूय सोमधरशीर्षे करतलं सारयति। सिन्धुदृष्टिर्दीप्तिमुपगच्छति)
सोमधरः- ( सस्नेहम्)
सिन्धो! अलं भयेन। सर्वथानाहतोऽसि प्रभुकृपया । श्व आवां पुनर्विद्यालयं गमिष्यावः । भवतु, पितृव्य! गच्छामि इदानीम्। नमस्ते। अम्ब! नमस्ते !!
 भवानीदत्तः-(समादिशन्निव)
वत्स सोमधर! मित्रगृहान्नैवं गन्तव्यम्। तिष्ठ तावत् । वयं सर्वेऽपि सहैवाल्पाहारं निर्वर्तयिष्यामः । सपीत्य- नन्तरं गच्छसि।
सोमधरः-पितृव्यचरण! स्वपितुः शाकशकट्याः सज्जा मयैव करणीया वर्तते। स मां प्रतीक्षमाणो भविष्यति । 
भवानीदत्तः-( हतप्रभःसन्)
वत्स सोमधर ! सत्यमेवासि त्वं कन्थामाणिक्यम् । सिन्धुस्त्वामतितरां प्रशंसति । इतः प्रभृति तव शिक्षण- व्यवस्थामहं सम्पादयिष्यामि।
(भृत्यौ अल्पाहारमानयतः। सर्वेऽपि निषीदन्त्यशितुम्) 
बाढम्। सोमधर ! श्व एवाहं युवयोः कृते द्विचक्रिके क्रेष्यामि । युवां द्वावपि सावधानं प्रवर्तयतम्। सहैवा- गच्छतं सहैव गच्छतम्। वत्स! शुल्कमपि ददासि ?
सोमधरः-न खलु । शुल्कस्तु मुक्तः । निर्धनच्छात्रनिधितः पञ्च- विंशतिरूप्यकाणि प्रतिमासं प्राप्यन्ते।
 भवानीदत्तः- शोभनम् । वत्स! तथापि यदि धनमपेक्ष्यते तर्हि मां भणिष्यसि। (रत्ना पतिं सगर्वं पश्यति)
सोमधरः-(चायपेयं परिसमाप्य समुत्तिष्ठन् ) पितृव्यचरण! गच्छामि तावत् । नमस्ते ।
(रत्नां प्रति)
अम्ब! प्रणमामि ।
(सिन्धुं लालयन्)
मित्र सिन्धो ! श्वो मिलिष्यावः ।
भवानीदत्तः-(सहर्षं रत्नां प्रति) रत्ने! उद्घाटितं त्वयाऽद्य मम नेत्रयुगलम् । सत्यमेव सम्प्रति सिन्ध्वभिरुचिं प्रशंसामि । सोमधरस्तु कन्या- माणिक्यमेव वर्तते । इदानीमनुभूतम्मया यद्गुणवन्त एव सभ्याः धनिकाः सम्माननीयाश्च । न मे द्वेषस्सम्प्रति ग्राम्यवसतिं प्रति । पङ्केऽपि कमलं विकसति । रत्ने! अद्यप्रभृत्यहं त्वन्नेत्राभ्यां संसारं द्रक्ष्यामि 
                                                 ॥ शनैर्जवनिका पतति ॥


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

जयतु संस्कृतम्।