expr:class='"loading" + data:blog.mobileClass'>

मंगलवार, 13 सितंबर 2022

ईशः कुत्रास्ति



ईशः कुत्रास्ति
        प्रस्तुत पाठ नोबेल पुरस्कार विजेता कवीन्द्र रवीन्द्रनाथ टैगोर की विश्वविख्यात कृति गीताञ्जलि के संस्कृत अनुवाद से संकलित है। इसमें कवि ने ईश्वर की वास्तविक सत्ता को किसानों, मज़दूरों और गरीबों में दर्शाया है। इसके अनुवादक को. ल. व्यासराय शास्त्री हैं।
       देवागारे पिहितद्वारे
 तमोवृतेऽस्मिन् भजसे कम् ?
 त्यज जपमालां त्यज तव गानं 
नास्त्यत्रेशः स्फुटय दृशम् ॥
अन्वयः - अस्मिन् तमोवृते पिहितद्वारे देव-आगारे कम् भजसे? जपमालाम् त्यज, तव गानम् त्यज, दृशम् स्फुटय, अत्र ईशः न अस्ति॥
हिन्दी अनुवाद/व्याख्या -कवि का कथन है कि हे मानव !अन्धकार से आच्छादित बन्द दरवाजे वाले, देवालय में तू किसका भजन कर रहा है? मन्त्र आदि जाप करने की माला को छोड़ो, तुम्हारे गीत भजन आदि को छोड़ो, दृष्टि (नेत्रों) को खोलो तथा देखो यहाँ ईश्वर नहीं है।
कवि का कथन है कि हे मानव!
अस्मिन् तमोवृते=इस अंधकार से आच्छादित 
पिहितद्वारेबन्द दरवाजे वाले 
देव-आगारेदेवालय में, 
कम् भजसे?(तू) किसका भजन कर रहा है?
 जपमालाम् त्यज,छोड़ो। 
तव गानम् त्यज, छोड़ो।
दृशम् स्फुटय,दृष्टि को खोलो
अत्र ईशःयहाँ ईश्वर  
न अस्तिनहीं है। 
तत्रास्तीशः, कठिनां भूमिं 
यत्र हि कर्षति लाङ्गलिकः। 
यत्र च जनपदरथ्याकर्ता 
प्रस्तरखण्डान् दारयते ॥
अन्वयः - हि यत्र लाङ्गलिकः कठिनाम् भूमिम् कर्षति, यत्र च जनपदरथ्याकर्ता प्रस्तरखण्डान् दारयते, तत्र ईशः अस्ति ॥
हिन्दी अनुवाद/व्याख्या - निश्चय से जहाँ हल चलाने वाला कृषक कठोर धरती पर हल चलाता है तथा जहाँ नगर की सड़क बनाने वाला मजदर पत्थरों के टुकड़ों को तोडता है, वहाँ ईश्वर है। 
हि यत्रनिश्चय से जहाँ   
लाङ्गलिकःहल चलाने वाला कृषक 
कठिनाम्कठोर   
भूमिम् कर्षति,धरती पर हल चलाता है
यत्र च तथा जहाँ 
जनपदरथ्याकर्तानगर की सड़क बनाने वाला मजदूर   
प्रस्तरखण्डान्पत्थरों के टुकड़ों को तोडता है, वहाँ ईश्वर है। 
दारयते,तोडता है,   
तत्र ईशःअस्तिवहाँ ईश्वर है। 
इशस्तिष्ठति वर्षातपयो-
स्ताभ्यां सार्धं मलिनवपुः ।
 दूरे क्षिप तव शुद्धां शाटी- 
मेहि स इव पांसुरभूमिम् ॥

अन्वयः - मलिनवपुः ईशः वर्षा आतपयोः ताभ्यां सार्धम् तिष्ठति। (अतः) तव शुद्धां शाटीम् दूरे क्षिप, स इव पांसुरभूमिम् एहि ॥

हिन्दी अनुवाद/व्याख्या - मैलयुक्त शरीर वाला अर्थात् दीन ईश्वर वर्षा तथा धूप में उन दोनों (किसान व मजदूर) के साथ रहता है, अतः तुम अपनी स्वच्छ साड़ी को दूर फेंको तथा उसकी भाँति धूल-धूसरित धरती पर आओ। 
मलिनवपुःमैलयुक्त शरीर वाला अर्थात् दीन
 ईशः वर्षा ईश्वर वर्षा 
आतपयोःतथा धूप में  
ताभ्यां सार्धम् उन दोनों (किसान व मजदूर) के साथ
तिष्ठति रहता है, 
(अतः) तवअतः तुम 
शुद्धां शाटीम्अपनी स्वच्छ साड़ी को 
 दूरे क्षिप,दूर फेंको तथा 
 स इवउसकी भाँति 
पांसुरभूमिम्धूल-धूसरित धरती पर आओ।   
एहिआओ। 

मुक्तिः ? क्व नु सा दृश्या मुक्ति:!
सलीलमीशः सृजति भुवम्।
 तिष्ठति चास्मद्धिताभिलाषी 
सविधेऽस्माकं मिषन् सदा॥
अन्वयः - मुक्तिः? नु सा मुक्तिः क्व दृश्या! ईशः सलीलम् भुवम् सृजति। अस्मद् हित-अभिलाषी च मिषन् सदा अस्माकम् सविधे तिष्ठति॥ 
हिन्दी अनुवाद/व्याख्या-मुक्ति? निश्चय से वह मुक्ति (मोक्ष) कहाँ देखी गई है? अर्थात् उसे किसने देखा है? अर्थात् किसी ने भी नहीं देखा है। ईश्वर लीला के साथ पृथ्वी का सृजन करता है अर्थात् सृष्टि का निर्माण करता है। हमारा हित चाहने वाला वह ईश्वर हमारा हित देखता हुआ सदैव हमारे पास ही रहता है।
मुक्तिः?मुक्ति?
 नु सा मुक्तिः निश्चय से वह मुक्ति (मोक्ष)  
क्व दृश्या!कहाँ देखी गई है? अर्थात् उसे किसने देखा है? अर्थात् किसी ने भी नहीं देखा है। 
ईशः सलीलम्ईश्वर लीला के साथ 
 भुवम् सृजतिपृथ्वी का सृजन करता है अर्थात् सृष्टि का निर्माण करता है। 
अस्मद् हित-तथा हमारा हित 
अभिलाषी चचाहने वाला  
मिषन् सदावह ईश्वर हमारा हित देखता हुआ सदैव   
अस्माकम्हमारे  
सविधे तिष्ठतिपास ही रहता है।  
ध्वानं हित्वा बहिरेहि त्वं 
त्यज तव कुसुमं त्यज धूपम्। 
पश्यंस्तिष्ठ स्वेदजलार्द्र- 
स्तन्निकटे कार्यक्षेत्रे ॥
अन्वयः - त्वम् ध्यानम् हित्वा बहिः एहि, तव कुसुमम् त्यज, धूपम् त्यज। स्वेदजलार्द्रः तत् निकटे कार्यक्षेत्रे पश्यन् तिष्ठ॥
हिन्दी अनुवाद/व्याख्या - (हे मानव !) तू ध्यान को छोड़कर बाहर आ। तेरे अपने फूल को छोड़, जो तुमने ईश्वर की मूर्ति पर चढ़ाने के लिए हाथ में ले रखा है, धूप को छोड़। अर्थात् मूर्ति पर धूप करने व दीपक जलाने से कुछ नहीं वाला है। पसीने से तरबतर उस श्रमिक के पास में कार्य करने के स्थान पर आकर ठहरो। अर्थात् मैदान में आकर परिश्रम करो।
हे मानव !
 त्वम् ध्यानम्तू ध्यान को  
हित्वा बहिः एहि,छोड़कर बाहर आ। 
 तव कुसुमम् त्यज,तेरे अपने फूल को छोड़, जो तुमने ईश्वर की मूर्ति पर चढ़ाने के लिए हाथ में ले रखा है, 
धूपम् त्यजधूप को छोड़। अर्थात् मूर्ति पर धूप करने व दीपक जलाने से कुछ नहीं वाला है।   
स्वेदजलार्द्रःपसीने से तरबतर 
 तत् निकटेउस श्रमिक के पास में
कार्यक्षेत्रे कार्य करने के स्थान पर 
पश्यन्आकर   
तिष्ठ ठहरो। अर्थात् मैदान में आकर परिश्रम करो। 
यदि तव वसनं धूसरितं स्यात्
 यदि च सहस्त्रच्छिद्रं स्यात् । 
का वा क्षतिरिह तेन भवेत्ते 
तत्त्वमिदं चिन्तय चित्ते॥
अन्वयः - यदि तव वसनम् धूसरितम् स्यात् यदि च (तत्) सहस्रच्छिद्रं स्यात्, तेन इह का वा ते क्षतिः भवेत्, चित्ते इदम् तत्त्वम् चिन्तय॥
हिन्दी अनुवाद/व्याख्या - (कवि कहता है कि) यदि तुम्हारे वस्त्र धूलि से सने हुए (मैले) हो जायें और यदि वे ही वस्त्र हजारों छिद्रों से युक्त हो जावें, तब भी इस संसार में तुम्हारी क्या हानि होगी अर्थात् किसी भी प्रकार की हानि नहीं है। अतः मन में इसी यथार्थ तत्त्व का चिन्तन करना चाहिए।
 (कवि कहता है कि)
यदि तवयदि तुम्हारे  
वसनम्वस्त्र 
धूसरितम्धूलि से सने हुए (मैले) 
स्यात्हो जायें   
 यदि च (तत्)और यदि वे ही वस्त्र  
सहस्रच्छिद्रंहजारों छिद्रों से युक्त 
स्यात्,हो जावें, 
तेन इह का वातब भी इस संसार में    
ते क्षतिः भवेत्,तुम्हारी क्या हानि होगी अर्थात् किसी भी प्रकार की हानि नहीं है। 
 चित्ते इदम्अतः मन में इसी 
तत्त्वम् चिन्तययथार्थ तत्त्व का चिन्तन करना चाहिए। 

कन्थामाणिक्यम्

 कन्थामाणिक्यम्
प्रस्तुत पाठ आधुनिककाल के प्रतिष्ठित संस्कृत साहित्यकार अभिराज राजेन्द्रमिश्र के एकांकी - संग्रह रूपरुद्रीयम् से संकलित है।'कन्थामाणिक्यम्' का अर्थ है- गुदड़ी का लाल ! नगर के जाने-माने हाईकोर्ट के वकील भवानीदत्त को स्वभावतः चिढ़ है गरीबों की बस्ती से। वह नहीं चाहते कि उनका बच्चा सिन्धु गन्दी बस्ती की ओर जाये, परन्तु संयोगवश सिन्धु का मित्र सोमधर उसी बस्ती में रहता है।दुर्घटना में सिन्धु के आहत होने पर एक दिन वही सोमधर सिन्धु को रिक्शे पर बैठाकर घर लाता है। इधर सिन्धु के घर सब चिन्तित हैं कि बच्चा अभी तक घर क्यों नहीं लौटा ? फ़ोन पर फ़ोन होते हैं। भवानीदत्त स्वयं पता लगाने जाना ही चाहते हैं कि एक रिक्शा घर के लॉन में आता है जिस पर सोमधर सिन्धु को गोद में सँभाले बैठा दीखता है।सोमधर के इस सद्व्यवहार से भवानीदत्त की आँखें खुल जाती हैं। वह उसे गुदड़ी का लाल मान लेते हैं और उसकी शिक्षा का सारा भार अपने ऊपर ले लेते हैं। अब उन्हें गरीबों एवं उनकी बस्ती से बड़ी सहानुभूति हो जाती है।
(समुत्प्रेरकं शिशुजनैकाङ्कम्) 
॥ प्रथमं दृश्यम् ॥
नगरस्य सघनवसतौ प्रख्याताधिवक्तुर्भवानीदत्तस्य भवनम् । भवनान्तरे परिजनानां वार्ताध्वनिः श्रूयते । 
भवानीदत्तः- रामदत्त ! अयि भो रामदत्त ! हरण ! -
(सेवकौ रामदत्तहरणौ ससम्भ्रमं धावन्तावागच्छतः)
हरण:-(अङ्गप्रच्छदेन हस्तौ मार्जयन्)
अन्नदातः! रसवत्यामासम् । किं कर्तुं युज्यते ?
रामदत्तः- (वचोभिः प्रसादयन्)
स्वामिन्! शीतलमानयानि किञ्चित् उष्णं वा ? आहोस्वित् पक्ववटिकादीनि खादितुमिच्छति भवान्?
भवानीदत्तः- (रोषोत्तप्तां मुखाकृतिं किञ्चिन्मसृणयन्) अलम् अलम् । सर्वेऽपि यूयं म्रियध्वे? आहूतोऽपि न शृणोति कश्चित् ? गृहमस्ति कस्यचित् भद्रपुरुषस्य भग्नावशेषो वा प्रेतानाम् ?
रामदत्तः-(सापराधमुद्रम्)
स्! स् स्वामिन् कार्यव्यापृतैरस्माभिर्न श्रुतम् । तत्क्षमन्तामन्नदातारः ।
भवानीदत्तः-भवतु। अलं नाटकेन । गच्छ, सिन्धुमानय तावत् ।
निषेधं नाटयेच्चेत् कर्णग्राहमानय ।
हरण:-(भयभीतस्सन्)
स्वामिन्! किं भर्तृदारकेण किञ्चिदपराद्धम् ? इदानी - मेव क्रीडित्वा सोऽपि समागतः । स्वामिन्याः पार्श्वे भविष्यति ।
भवानीदत्तः-(कठोरस्वरेण)
हरण! कियद्वारं निर्दिष्टोऽसि यत् प्रवचनं न कार्यम्। यदुच्यते तदेव शृणु ! किमवगतम् ? (सनैराश्यम्)
हरण:-युक्तमेतत् स्वामिन्! एष गच्छामि।
(हरणो गच्छति। रामदत्तोऽपि तमनुसरति । कति- पयनिमेषानन्तरं द्वावपि भृत्यौ भवानीदत्तस्य पुस्तकाल- यमागच्छतः। पश्चाच्चाधिवक्तुः पत्नी रत्नापि दारकेण सार्धमायाति)
रत्ना-किंवृत्तम् ? अद्यागतप्राय एव वात्याचक्रमुत्थापयसि ? कस्मिंश्चिद् वादे पराजितोऽसि किम्? 
भवानीदत्तः-बाढम् । गृहेश्वरि ! पराजितोऽस्मि तव न्यायालये । (हरणरामदत्तौ मुखे करप्रोञ्छनीं विन्यस्याऽट्टहासं
रोद्धुं प्रयतेते)
भवानीदत्तः-(सेवकौ प्रति)
भो युवां तत्र किमुपजपथः ? पलायेथां ततः ।
(भृत्यौ हसन्तौ गृहाभ्यन्तरं पलायेते)
रत्ना-(सस्मितम्) 
अवितथं भण, किंवृत्तम् ? मनःस्थितिः कथमद्य संस्खलति ?
भवानीदत्तः-(प्रक्षालनद्रोण्यां मुखं प्रक्षाल्य, प्रच्छदेन च हस्तं मुखं मार्जयन्)
 भणामि, भणामि । सिन्धो! इतस्तावत्।
सिन्धुः-(सभयं कातरदृष्ट्या जननीं पश्यन्) 
अम्ब!
भवानीदत्तः-(कठोरदृष्ट्या पश्यन्)
सिन्धो! इतस्तावत् । तात आह्वयति नाम्बा ।
आगच्छ ।
रत्ना-(दारकं लालयन्ती सविस्मयम्)
भो! किं कृतवान् सिन्धुः। कथमेवं व्यवहरसि, समागच्छन्नेव अग्निं वर्षयसि ? अहमपि तावदा- कर्णयानि।
भवानीदत्तः-देवि! तदेव वच्मि यत्तव सिन्धुना समाचरितम् । कथं भोः, असभ्यानां वसतौ किमर्थं गतवानसि ?
सिन्धुः-(सभयम्) तात! मम सखा सोमधरस्तत्र निवसति । ततः स्वपुस्तकं ग्रहीतुं गतोऽस्मि । 
भवानीदत्तः-किं करोति तस्य पिता?
सिन्धुः-तस्य पिता चतुश्चक्रे शकटे निधाय शाकान् फलानि च विक्रीणीते।
भवानीदत्तः-तव पिता च किं करोति?
सिन्धुः-स तु उच्चन्यायालयेऽधिवक्ताऽस्ति ।
सिन्धुः-भवानीदत्तः कीदृशं तव भवनम् ?
 सिन्धुः-अतिसुन्दरं विशालं मार्जितं च मम भवनम्।
भवानीदत्तः-सोमधरस्य च कीदृशम् ?
सिन्धुः-(हतप्रभः सन्?)
तस्य गृहं नातिदीर्घम् । अस्वच्छवीथिकायाञ्च स्थितम्। न मार्जितं न चाप्यलंकृतम् । 
भवानीदत्तः-(सक्रोधम्)मूर्ख! तस्य गृहमपि नातिदीर्घम्। अस्वच्छवीथिकायां स्थितम्। तस्य पिताऽपि शाकफलविक्रेता, न तव तात इव शिक्षितः। एवम्भूतेऽपि किमर्थं तत्राऽगमस्त्वम्?
सिन्धुः- (सदैन्यम्)
तात! सोमधरः मम सुहृदस्ति । स पठनेऽपि तीक्ष्णः । मय्यतितरां स्नियत्यसौ । तस्मादावयोः प्रगाढा मित्रता । स गणिते मम साहाय्यं करोति ।
भवानीदत्तः-भोः ! पृच्छाम्यहं यत्तेन सह त्वया सख्यमेव कस्मात्कृतम्। तस्मै स्वपुस्तकं कस्माद् दत्तम्? किमुच्चकुलोत्प- न्नाश्छात्राः कक्षायां न सन्ति?
सिन्धुः-(निरुत्तरस्सन्)
तात! सोमधरो मयि स्नियति। स मह्यमपि रोचते । अन्ये छात्रास्तु दुष्टाः । ममाध्यापिका सोमधरं कक्षायाः मान्यतरं (मानीटर) कृतवती।
भवानीदत्तः-(सोद्वेगम्)
त्वं कथं न मान्यतरः कृतः ? फलशाकविक्रेतुर्दारकः कथं त्वामतिशेते?
(सिन्धोः कर्णं किञ्चित्कुब्जीकुर्वन्)
पश्य, इतोऽग्रे तस्यामसभ्यवसतौ न गमिष्यसि। अतः परं शिक्षको भवन्तं गणितमध्यापयिष्यति । अवगतं न वा? सोमधरेण साकं मैत्रीवर्धनस्य न काप्यावश्यकता ।
(सिन्धुरस्फुटं रुदन् गृहाभ्यन्तरं प्रविशति )
रत्ना-(सरोषम्)
साधु साधु! विलक्षणं पितृहृदयमवाप्तम्। कोमलहृदयं बालकं विद्वेषभावं शिक्षयति भवान्? अये, यो गुणवान् स एव सभ्यः स एव धनिकः, स एव आदरणीयः । तस्य गुणवतः पिता यदि शाकफलानि विक्रीय कुटुम्बं पालयति, तर्हि किमत्र पापम् ? स्व-सङ्कीर्णदृष्टिमपलपितुं वराकस्य दारकस्य कर्णमेव भञ्जयितुं प्रवृत्तोऽसि । (दुर्मनायमाना गृहाभ्यन्तरं प्रविशति )
॥ जवनिकापातः ॥
॥ द्वितीयं दृश्यम् ॥
सन्ध्याकालस्य चतुर्वादनवेला अधिवक्ता भवानी- दत्तः स्वपुस्तकालये निषण्णो दूरभाषयन्त्रं बहुश: प्रवर्तयति। भार्या रत्नापि पार्श्वस्थामासन्दीमुपविश्य चिन्तां नाटयति।
भवानीदत्तः-(यन्त्रमुपयोजयन्)
भोः ! किमिदं भरद्वाजविद्यानिकेतनम् ? का नु खलु भवती ब्रवीति ? (श्रुतिं नाटयन्) प्राचार्या ? शोभनं शोभनम् । अयमहं भवानीदत्तो ब्रवीमि । नमस्करोमि तावत्। श्रूयतां तावत् । चतुर्वादनं जातम् । परन्तु मम दारकस्सिन्धुः इदानीं यावद् गृहं नोपावृत्तः । किं विद्यालयेऽद्य कश्चिन्महोत्सवो वर्तते?
(श्रुतिमभिनीय) किमुक्तम्? सपादत्रिवादन एवावकाशो जातः। सर्वेऽपि छात्राः गताः! बाढम्। पश्यामि| 
भवानीदत्तः-(ससम्भ्रमम्!)
किमुक्तवती प्राचार्या? त्रिवादनेऽवकाशो जात: ? भो मम हृदयं कम्पते। सिन्धुः क्व वर्तते? भवान् त्वरितमेव स्कूटरयानेन गच्छतु। पश्यतु तावन्मध्येमार्गं विद्यालय- वाहनं क्व वर्तते? हे परमेश्वर ! रक्ष मम दारकम् !
भवानीदत्तः-(सान्त्वयन्)
गच्छामि, गच्छामि। त्वं पुनः शिशुरिव धैर्यहीना जायसे । कस्मान्मनसि अमङ्गलमेव चिन्तयसि ?
रत्ना-भवान्न जानाति राजपथवृत्तम्। मद्यपा वाहनचालका झञ्झावेगेन यानं चालयन्ति । कोऽपि प्रियेत वा जीवे द्वा । तेषां हतकानां किं जायते ? एतत्सर्वं स्मारं स्मारं निमज्जतीव मम हृदयम्।
भवानीदत्तः-भवतु । शान्ता भव। त्वरितमागच्छामि । (इति प्रस्थामुपक्रमते । अकस्मादेव रिक्शायानमेकं भवनप्राङ्गणं प्रविशति । कश्चिद्बालकः सिन्धुमङ्के निर्धाय रिक्शायाने तिष्ठन्नास्ते)
भवानीदत्तः-(सत्वरमुपसृत्य) 
अये किमिदम्?
(सिन्धुं विलोक्य) 
वत्स! सोमधरस्त्वमेवासि ?
सोमधरः-(सविनयम्)
पितृव्य! अहमेवास्मि सोमधरः सिन्धोर्मित्रम्। सिन्धो-विद्यालयवाहनमद्य केनचित् ट्रकयानेन दृढमाहतम्। ट्रकचालकस्त्वपक्रान्तः। सर्वेऽपि बालकाः क्षतविक्षता जाता:।
भवानीदत्तः-वत्स! त्वं पुनः कुत्राऽसीः ?
सोमधरः-पितृव्य! अहं पुनः प्रतिदिनमिव अद्यापि पदा- तिरेवागच्छन्नासम्। दुर्घटनामनु पञ्चनिमेषानन्तरमेव तत्रासादितवान्। महान् जनसम्मर्दस्तत्राऽसीत्। सिन्धुं प्रत्यभिज्ञाय, अहं पुनस्तद् रिक्शायानमधिरोप्य त्वरितं प्रचलितः । पितृव्य! नात्याहितं किमपि । सिन्धुः केवलं मूर्च्छामुपगतः ।
 (वार्तालापं श्रुत्वा भृत्यौ रत्ना च बहिरायान्ति । रत्ना सिन्धुं निस्संज्ञं दृष्ट्वा भृशं रोदिति)
सोमधरः-अम्ब! अलं चेतनां खलीकृत्य । डॉक्टरधूलियामहोदय- मानयामीदानीमेव । प्रतिवेश एव निवसत्यसौ ।
भवानीदत्तः-वत्स सोमधर! मा गाः कुत्रापि त्वम्। मातृसमीपमेव तिष्ठ। अहं दूरभाषयन्त्रेणैव भिषजमाह्वयामि । (मध्य एव सिन्धुश्चेतनामनुभवति । सोऽम्बामाह्वयति)
सोमधरः-(सहर्षम्) पितृव्यचरण! अलं भिषगावानेन ।
 सिन्धुश्चैतन्यमागतः ।
(भवानीदत्तः दारकसमीपं गच्छति। रत्नानेत्रे आनन्दाश्रुपूरिते जायेते)
सिन्धुः-(अम्बां तातं सोमधरञ्च दृष्ट्वा) 
अम्ब! कथमहं गृहमागतः ? मम वाहनन्तु ट्रकयानेन दृढमाहतमासीत् । वयं सर्वेऽपि तारस्वरेणाक्रोशाम। वाहनमस्माकं विपर्यस्तमासीत् । 
रत्ना-(दारकं प्रचुम्बन्ती)
एवमेतत् वत्स! विपर्यस्तं तव वाहनम्। सोमधर-स्त्वामानीतवान् रिक्शायानेन ।
सिन्धुः-(सप्रणयम्)
सोमू ?
(अकस्मादेव पितरमुपस्थितं दृष्ट्वा सिन्धुः शिथिलीभवति। भवानीदत्तोऽग्रेसरीभूय सोमधरशीर्षे करतलं सारयति। सिन्धुदृष्टिर्दीप्तिमुपगच्छति)
सोमधरः- ( सस्नेहम्)
सिन्धो! अलं भयेन। सर्वथानाहतोऽसि प्रभुकृपया । श्व आवां पुनर्विद्यालयं गमिष्यावः । भवतु, पितृव्य! गच्छामि इदानीम्। नमस्ते। अम्ब! नमस्ते !!
 भवानीदत्तः-(समादिशन्निव)
वत्स सोमधर! मित्रगृहान्नैवं गन्तव्यम्। तिष्ठ तावत् । वयं सर्वेऽपि सहैवाल्पाहारं निर्वर्तयिष्यामः । सपीत्य- नन्तरं गच्छसि।
सोमधरः-पितृव्यचरण! स्वपितुः शाकशकट्याः सज्जा मयैव करणीया वर्तते। स मां प्रतीक्षमाणो भविष्यति । 
भवानीदत्तः-( हतप्रभःसन्)
वत्स सोमधर ! सत्यमेवासि त्वं कन्थामाणिक्यम् । सिन्धुस्त्वामतितरां प्रशंसति । इतः प्रभृति तव शिक्षण- व्यवस्थामहं सम्पादयिष्यामि।
(भृत्यौ अल्पाहारमानयतः। सर्वेऽपि निषीदन्त्यशितुम्) 
बाढम्। सोमधर ! श्व एवाहं युवयोः कृते द्विचक्रिके क्रेष्यामि । युवां द्वावपि सावधानं प्रवर्तयतम्। सहैवा- गच्छतं सहैव गच्छतम्। वत्स! शुल्कमपि ददासि ?
सोमधरः-न खलु । शुल्कस्तु मुक्तः । निर्धनच्छात्रनिधितः पञ्च- विंशतिरूप्यकाणि प्रतिमासं प्राप्यन्ते।
 भवानीदत्तः- शोभनम् । वत्स! तथापि यदि धनमपेक्ष्यते तर्हि मां भणिष्यसि। (रत्ना पतिं सगर्वं पश्यति)
सोमधरः-(चायपेयं परिसमाप्य समुत्तिष्ठन् ) पितृव्यचरण! गच्छामि तावत् । नमस्ते ।
(रत्नां प्रति)
अम्ब! प्रणमामि ।
(सिन्धुं लालयन्)
मित्र सिन्धो ! श्वो मिलिष्यावः ।
भवानीदत्तः-(सहर्षं रत्नां प्रति) रत्ने! उद्घाटितं त्वयाऽद्य मम नेत्रयुगलम् । सत्यमेव सम्प्रति सिन्ध्वभिरुचिं प्रशंसामि । सोमधरस्तु कन्या- माणिक्यमेव वर्तते । इदानीमनुभूतम्मया यद्गुणवन्त एव सभ्याः धनिकाः सम्माननीयाश्च । न मे द्वेषस्सम्प्रति ग्राम्यवसतिं प्रति । पङ्केऽपि कमलं विकसति । रत्ने! अद्यप्रभृत्यहं त्वन्नेत्राभ्यां संसारं द्रक्ष्यामि 
                                                 ॥ शनैर्जवनिका पतति ॥


विज्ञाननौका

 

विज्ञाननौका

      प्रस्तुत पाठ 1933 में पुरी (उड़ीसा) में जन्मे कवि प्रो. श्रीनिवास रथ द्वारा रचित कविता-संग्रह तदेव गगनं सैव धरा से संगृहीत है। श्रीनिवास रथ बाल्यकाल से मध्यप्रदेश के विभिन्न नगरों में रहे तथा अपने पिता से पारम्परिक पद्धति द्वारा संस्कृत का अध्ययन करने के पश्चात् उच्चशिक्षा इन्होंने काशी हिन्दू विश्वविद्यालय में प्राप्त की । ये विक्रम विश्वविद्यालय उज्जैन में संस्कृत विभाग में प्राध्यापक एवं विभागाध्यक्ष रहे।
         प्रायः 40 वर्षों से ये संस्कृत में गीत लिखते आ रहे हैं। इनके गीतों का उपर्युक्त संग्रह हिन्दी अनुवाद के साथ प्रकाशित हो चुका है। प्रस्तुत पाठ में आधुनिक विश्व में यान्त्रिकता और कृत्रिमता के प्रति बढ़ते हुए मोह के प्रति सचेत किया जा रहा है कि जीवन मूल्यों को भुलाकर नई भौतिक तकनीकी से मानव को अभिभूत नहीं होना चाहिए।
विज्ञाननौका समानीयते 
ज्ञानगङ्गा विलुप्तेति नालोक्यते ।
संस्कृतोद्यानदूर्वा दरिद्रीकृता 
निष्कुटेषु स्वयं कण्टकिन्याहिता । 
पुष्पितानां लतानां न रक्षा कृता 
विस्तृता वाटिकायोजना निर्मिता ॥
हिन्दी अनुवाद/व्याख्या-(वर्तमान में) विज्ञान रूपी नाव लाई जा रही है तथा ज्ञानरूपी गंगा लुप्त हो गई है। यह नहीं देखा जा रहा है। अर्थात् ज्ञान की ओर प्रवृत्ति नहीं दिखाई दे रही है। (हमने) स्वयं संस्कृत रूपी उद्यान की दूर्वा (दूब, घास) को गरीब बना दिया है अर्थात् संस्कृत के प्रति उपेक्षा भाव है। हमारे द्वारा अपने घरेलू उपवनों में, क्रीड़ा उद्यानों में कैक्टस या नागफनी का पौधा लगाया जा रहा है। (हमारे द्वारा) पुष्पों से युक्त लताओं की रक्षा नहीं की गई तथा विस्तृत बगीचियों का निर्माण कर दिया गया। 
के कथं कुत्र वा क्रन्दनं कुर्वते 
राजनीतिश्मशानेषु न ज्ञायते । विज्ञाननौका......
हिन्दी अनुवाद/व्याख्या - राजनीति रूपी श्मशानों में कौन, कैसे या किसलिए कहाँ क्रन्दन कर रहे हैं, यह पता नहीं चल रहा है। कहने का तात्पर्य यह है कि आधुनिक राजनीति ने श्मशान का रूप धारण कर लिया है। जहाँ सब अपना-अपना राग अलाप रहे हैं मानो क्रन्दन कर रहे हैं। विज्ञान रूपी नाव लाई जा रही है।
वर्तमानस्थितिर्मानवानां कृते 
प्रत्यहं दुर्निमित्तैव संलक्ष्यते । 
यत्र कुत्रापि शान्तिः समुद्वीक्ष्यते 
तत्र विध्वंसबीजं समायोज्यते ॥
सर्वनाशार्थविद्यैव विद्योतते
 स्वार्थरक्षावलम्बोऽपि नो चिन्त्यते । विज्ञाननौका.......
हिन्दी अनुवाद/व्याख्या - प्रतिदिन मनुष्यों के लिए वर्तमान परिस्थिति अमांगलिक (अशुभ) ही दिखाई दे रही है। जहाँ कहीं भी शान्ति दिखाई दे रही है, वहीं विनाश का बीज भी बोया जा रहा है। सभी पदार्थों का विनाश करने वाली विद्या ही अधिक चमक रही है अर्थात् उसी का बोलबाला है। स्वार्थ रक्षा के आश्रय के विषय में भी विचार नहीं किया जा रहा है। विज्ञान रूपी नाव लाई जा रही है।
तारकायुद्धसम्भावनाऽधीयते 
गोपनीयायुधानां कथा श्रूयते ।
 विश्वशान्तिप्रयत्नेषु सन्दृश्यते 
विश्वसंहारनीतिर्यथोपास्यते ॥
भूतले जीवरक्षा परिक्षीयते 
जीवनाशाऽन्तरिक्षे ऽनुसन्धीयते । विज्ञाननौका..... 
हिन्दी/व्याख्या - (आज) मिसाइलों की लड़ाई की संभावना बतलाई जा रही है। गोपनीय आण्विक अस्त्र-शस्त्र आदि की कहानी सुनने में आ रही है। विश्वशान्ति के प्रयास दिखाई दे रहे हैं। विश्व के विनाश की नीति सिखाई जा रही है या अपनाई जा रही है। पृथ्वी पर प्राणियों की रक्षा क्षीण हो रही है तथा आकाश में जीवन की आशा ढूँढ़ी जा रही है। विज्ञान रूपी नौका लाई जा रही है। 
विश्वबन्धुत्वदीक्षागुरूणां व्रतं 
धर्मसंस्कारतत्त्वं बतास्तं गतम् । 
लोककल्याणशिक्षासमाराधनं 
हन्त ! विक्रीयते काव्य-सङ्कीर्तनम् ॥
यन्त्रमुग्धान्धताऽहर्निशं सेव्यते 
संस्कृतिज्ञानरक्षा न सञ्चिन्त्यते । विज्ञाननौका......
हिन्दी अनुवाद/व्याख्या - बड़ा कष्ट है कि वर्तमान में विश्वबन्धुत्व की दीक्षा, गुरुओं का व्रत, धर्म संस्कार सम्बन्धी बातें नष्ट हो रही हैं। खेद है कि आज लोकहित शिक्षा की आराधना तथा काव्य संकीर्तन बेचा जा रहा है। दिन रात यन्त्रों के मोह के अन्धकार का सेवन किया जा रहा है, अर्थात् यन्त्रों का मोह बढ़ रहा है। संस्कृति एवं ज्ञान की रक्षा के विषय में किसी को भी चिन्ता नहीं है, उनके विषय में कुछ भी विचार नहीं किया जा रहा है। विज्ञान रूपी नौका लाई जा रही है। 


दयावीर-कथा

 

दयावीर-कथा

प्रस्तुत पाठ मैथिली, संस्कृत और अपभ्रंश (अवहट्ठ) के प्रसिद्ध कवि विद्यापति द्वारा विरचित 'पुरुष-परीक्षा' नामक कथाग्रन्थ से सङ्कलित किया गया है। विद्यापति का जन्म चतुर्दश शताब्दी (1360-1448) में मिथिला क्षेत्र के विसफी ग्राम में हुआ था। 'विद्यापति पदावली' इनकी लोकविश्रुत रचना है। इन्होंने संस्कृत में विविधविषयक 12 ग्रन्थों की रचना की है।
'पुरुष-परीक्षा' में सच्चे पुरुष की परख कैसे की जाये यह बताने के लिए वासुकि नामक मुनि पारावार नामक राजा को अनेक कथाएँ सुनाते हैं। प्रस्तुत कथा में राजा हम्मीरदेव को दयावीर के रूप में चित्रित किया गया है। कथा के अनुसार राजा हम्मीरदेव ने सम्राट् अलाउद्दीन के कोप का भाजन बने शरणागत मुहम्मद शाह (सेनापति) की प्राणपण से रक्षा की है।
दयालुः पुरुषः श्रेष्ठः सर्वजन्तूपकारकः ।
तस्य कीर्तनमात्रेण कल्याणमुपपद्यते ॥
अस्ति कालिन्दीतीरे योगिनीपुरं नाम नगरम् । तत्र अलावदीनो नाम यवनराजो बभूव । स चैकदा केनापि निमित्तेन महिमासाहिनाम्ने सेनानिने अकुप्यत्। स च यवनस्वामिनं प्रकुपितं प्राणग्राहकं च ज्ञात्वा चिन्तयामास, सामर्षो राजा विश्वसनीयो न भवति । तदिदानीं यावदनिरुद्धोऽस्मि तावदेवेतः क्वापि गत्वा निजप्राणरक्षां करोमीति परामृश्य सपरिवारः पलायितः । पलायमानो ऽप्यचिन्तयत् यत्सपरिवारस्य दूरगमनमशक्यम् । परिवारं परित्यज्य पलायनमपि नोचितम्। यतः
जीवितार्थं कुलं त्यक्त्वा योऽतिदूरं जनो व्रजेत् । 
लोकान्तरगतस्येव किं तस्य जीवितेन वा ॥
तदिहैव दयावीरं हम्मीरदेवं समाश्रित्य तिष्ठामीति परामृश्य स यवनो हम्मीरदेवमुपगम्याह देव ! विनापराधं हन्तुमुद्यतस्य स्वामिनस्त्रासेनाहं तव शरणमागतोऽस्मि । यदि मां रक्षितुं शक्नोषि तदा विश्वासं देहि । नो चेदितोऽन्यत्र गच्छामि।
राजोवाच- यवन! मम शरणागतं मयि जीवति यमोऽपि
त्वां पराभवितुं न शक्नोति, किं पुनर्यवनराजः ? तदभयं तिष्ठ । ततस्तस्य राज्ञो वचनेन स यवनसचिवस्तस्मिन् रणस्तम्भनाम्नि दुर्गे निःशङ्कमुवास। क्रमेण यवनराजस्तत्रावस्थितं तं विदित्वा परमसामर्षः करितुरगपदाति- पदाघातैर्धरित्रीं चालयन् दुर्गद्वारमागत्य हम्मीरदेवेन साकं युद्धं कृतवान् परं जयं न लब्धवान्।
प्रथमयुद्धानन्तरं यवनराजेन हम्मीरदेवं प्रति दूतः प्रहितः । दूत उवाच- राजन् हम्मीर ! श्रीमान् यवनराजस्त्वामादिशति यन्ममापथ्यकारिणं महिमासाहिं परित्यज्य देहि । यद्येनं न दास्यसि तदा श्वस्तने प्रभाते तव दुर्गं तुरगखुराघातैश्चूर्णावशेषं कृत्वामहिमासाहिना सह त्वामन्तकपुरं नेष्यामि। हम्मीरदेव उवाच- रे दूत ! त्वमवध्योऽसि । तवाहं किं करवाणि? अस्योत्तरं तव स्वामिने खङ्गधाराभिरेव दास्यामि न वचोभिः । मम शरणागतं यमोऽपि विपक्षदृष्ट्या वीक्षितुं न शक्नोति किं पुनर्यवनराजः ?
ततो निर्भर्त्यिते दूते गते सति यवनराजः कुपित्वा युद्धसमुद्धरो बभूव । एवमुभयोरपि बलयोर्युद्धेऽर्धावशिष्टसुभटे यवनसैन्ये दुर्गे ग्रहीतुमशक्ये यवनराजः परावृत्य निजनगरगमनाकाङ्क्षी बभूव । तञ्च भग्नोद्यमं दृष्ट्वा रायमल्लरामपालनामानौ हम्मीरदेवस्य द्वौ सचिवौ दुष्टौ यवनराजमागत्य मिलितौ । तावूचतुः यवनराज ! भवता क्वापि न गन्तव्यम् । दुर्गे दुर्भिक्षमापतितम् । श्वः परश्वो वा दुर्गं ग्राहयिष्यावः । ततस्तौ दुष्टसचिवौ पुरस्कृत्य यवनराजेन दुर्गद्वाराण्यवरुद्धानि।
तथा सङ्कटं दृष्ट्वा हम्मीरदेवः स्वसैनिकान् प्रत्युवाच - रे रे योद्धारः ! परिमितबलोऽप्यहं शरणागतकरुणया प्रवृद्धबलेनापि यवनराजेन समं योत्स्यामि । ततो यूयं सर्वे दुर्गाद्द्बहिः स्थानान्तर गच्छत। त ऊचुः- भवान् निरपराधो राजा (शरणागतस्य) यवनस्य करुणया सङ्ग्रामे मरणमङ्गीकुरुते । वयं भवतो जीव्यभुजः कथमिदानीं भवन्तं स्वामिनं परित्यज्य कापुरुषपदवीमनुसरिष्यामः ? किञ्च श्वस्तने प्रभाते देवस्य शत्रुं हत्वा प्रभोर्मनोरथं साधयिष्यामः । यवनस्त्वयं वराकः स्थानान्तरं प्रहीयताम् । तेन रक्षणीयरक्षा सम्भवति । यवन उवाच- देव! किमर्थं ममैकस्य विदेशिनो रक्षार्थं सपुत्रकलत्रं स्वकीयराज्यं विनाशयिष्यसि ? ततो मां परित्यज्य देहि । राजोवाच- यवन ! मैवं ब्रूहि । यतः
भौतिकेन शरीरेण नश्वरेण चिरस्थितम् । लप्स्यमानं यशः को वा परिहर्तुं समीहते ॥
किञ्च यदि मन्यसे तदा निर्भयस्थानं त्वां प्रापयामि । यवन उवाच-राजन् मैवं ब्रूहि। सर्वप्रथमं मयैव विपक्षशिरसि खङ्गप्रहारः कर्तव्यः ।
ततः प्रभाते युद्धे प्रवर्त्तमाने हम्मीरदेवः सत्वर - तुरंगारूढो निजसुभटसार्थसहितः पराक्रमं कुर्वाणो दुर्गान्निःसृत्य खङ्गधारा-
प्रहारैर्विपक्षबलवाजिनः पातयन् कुञ्जरान् घातयन्, कबन्धान् नर्तयन् रुधिरधाराप्रवाहेन मेदिनीमलङ्कृत्य शर-शल्लितसर्वाङ्गस्तुरगपृष्ठे त्यक्तप्राणः सम्मुखः सङ्ग्रामभूमौ निपपात सूर्यमण्डलभेदी अभवत् ।

दयालुः पुरुषः श्रेष्ठः सर्वजन्तूपकारकः ।

तस्य कीर्तनमात्रेण कल्याणमुपपद्यते ॥ 

अन्वयः - (यः) दयालुः पुरुषः श्रेष्ठः सर्वजन्तु-उपकारकः (अस्ति) तस्य कीर्तनमात्रेण कल्याणम् उपपद्यते ॥ 

कठिन-शब्दार्थ : 

  • सर्वजन्तूपकारकः = सभी प्राणियों का उपकार करने वाला। 
  • कीर्तनमात्रेण = यशोगाथा गाने मात्र से। 
  • उपपद्यते = प्राप्त होता है। 

प्रसंग-यह श्लोक हमारी पाठ्यपुस्तक 'शाश्वती' प्रथम भाग के 'दयावीर कथा' शीर्षक पाठ से अवतरित है। मूलतः यह पाठ मैथिलीकोकिल विद्यापति कवि विरचित 'पुरुष परीक्षा' नामक ग्रन्थ के प्रथम परिच्छेद से संकलित किया गया है। इसमें राजा हम्मीर देव की महिमा का वर्णन करते हुये कवि कह रहा है -

हिन्दी अनुवाद/व्याख्या-जो राजा हम्मीर (देव) दयालु व्यक्ति हैं, पुरुष श्रेष्ठ हैं सभी प्राणियों का उपकार करने वाले हैं। उनके कीर्तन मात्र से कल्याण की प्राप्ति होती है। अर्थात् उनका नाम स्मरण करने मात्र से कल्याण होता है। 
विशेष-यहाँ राजा हम्मीर देव को दयालु, श्रेष्ठ, परोपकारी बतलाते हुए उनके पुण्य नाम से ही मानव-मात्र का कल्याण होना दर्शाया गया है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - अयं श्लोकः अस्माकं पाठ्यपुस्तक 'शाश्वती' प्रथम भागस्य 'दयावीर कथा' शीर्षक पाठात् अवतरितः। मूलतः अयं पाठः कवि विद्यापति विरचितात् 'पुरुष परीक्षा' नाम्नः ग्रन्थस्य प्रथम परिच्छेदात् संकलितः। अस्मिन् श्लोके नृपहम्मीरदेवस्य महिमानः वर्णनं कुर्वन् कविः कथयति 

संस्कृत-व्याख्या - (यः) दयालुः = कृपालुः पुरुषः श्रेष्ठः = नरश्रेष्ठः सर्वजन्तु उपकारकः = सर्वेषां प्राणीनाम् उपकारकः (वर्तते) तस्य = नृपस्य, कीर्तनमात्रेण = यशोगाथासंकीर्तनमात्रेण, कल्याणम् = श्रेयं, उपपद्यते = प्राप्यते। 

विशेषः - 

(i) अस्मिन् श्लोके नृपहम्मीरदेवस्य गुणानां वर्णनं कृतम्। सः दयालुः, पुरुषश्रेष्ठः सर्वेषां प्राणीनाम् च उपकारकः अस्ति। 
(ii) व्याकरणम्-श्रेष्ठः-प्रशस्य + इष्ठन्। सर्वजन्तुउपकारकः = सर्वेषां जन्तूनां उपकारकः (षष्ठी तत्पु.)। 

अस्ति कालिन्दीतीरे योगिनीपुरं नाम नगरम् । तत्र अलावदीनो नाम यवनराजो बभूव । स चैकदा केनापि निमित्तेन महिमासाहिनाम्ने सेनानिने अकुप्यत्। स च यवनस्वामिनं प्रकुपितं प्राणग्राहकं च ज्ञात्वा चिन्तयामास, सामर्षो राजा विश्वसनीयो न भवति । तदिदानीं यावदनिरुद्धोऽस्मि तावदेवेतः क्वापि गत्वा निजप्राणरक्षां करोमीति परामृश्य सपरिवारः पलायितः । पलायमानो ऽप्यचिन्तयत् यत्सपरिवारस्य दूरगमनमशक्यम् । परिवारं परित्यज्य पलायनमपि नोचितम्।  

कठिन-शब्दार्थ : 

  • कालिन्दी तीरे = यमुना नदी के किनारे पर। 
  • प्रकुपितम् = अत्यन्त क्रोधित हुये। 
  • चिन्तयामास = विचार किया। 
  • सामर्षः = क्रोधयुक्त। 
  • विश्वसनीयः = विश्वास के योग्य। 
  • अनिरुद्ध = न पकड़ा गया। 
  • परामृत्य = विचार करके। 
  • पलायितः = भाग गया। 
  • परित्यज्य = छोड़कर। 

प्रसंग - प्रस्तुत गद्यांश 'दयावीर कथा' से उद्धृत है। इसमें अलाउद्दीन नामक यवन शासक के क्रोध से भयभीत महिमासाह नामक सेनापति की मनःस्थिति का वर्णन किया गया है - 

हिन्दी अनुवाद/व्याख्या - यमुना नदी के किनारे पर योगिनीपुर नाम का नगर है। वहाँ अलाउद्दीन नामक यवनों का शासक हुआ। वह एक समय किसी कारण से महिमासाह नाम वाले सेनापति पर अत्यन्त क्रोधित हो गया तथा वह यवनों के स्वामी को अत्यन्त क्रोधित तथा प्राणों का ग्राहक (प्राण लेने की इच्छा करने वाला) जानकर चिन्तित हो गया। क्रोधयुक्त राजा विश्वास योग्य नहीं होता। अतः इस समय मैं जब तक नहीं पकड़ा जाता हूँ, तब तक ही यहाँ से कहीं पर भी जाकर अपने प्राणों की रक्षा करता हूँ- ऐसा विचार कर परिवार सहित भाग गया। भागते हुये भी उसने विचार किया कि परिवार सहित दूर जाना संभव नहीं है। परिवार को छोड़कर भागना भी उचित नहीं है। 
विशेष-यहाँ यवनराज अलावदीन का अपने सेनापति पर क्रोध तथा सेनापति द्वारा वहाँ से सपरिवार भाग जाने का चित्रण हुआ है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - प्रस्तुत गद्यांशः 'दयावीर कथा' पाठात् अवतरितः। अस्मिन् गद्यांशे अलावदीनो नाम्न: यवनशासकस्य क्रोधात् भयभीतः महिमाशाह नाम्नः सेनापतेः मनः स्थिते: वर्णनं कृतम् 

संस्कृत-व्याख्या - कालिन्दीतीरे = यमुनातटे, योगिनीपुरं नाम नगरम्, अस्ति = वर्तते । तत्र = तस्मिन् नगरे, अलावदीन नाम = नामधेयः, यवनराजो = यवनां नाम नृपः, बभूव = अभवत्। सः = नृपः, चैकदा = एकस्मिन् दिने च, केनापि निमित्तेन = केनचित् प्रयोजनेन, महिमासाम्ने सेनानिने = यवन सेनापतये, अकुप्यत् = अक्रुध्यत्। सः च = सः सेनापतिश्च, यवनस्वामिनं = यवन नृपं, प्रकुपितं = अतिक्रुद्धं, प्राणग्राहकं च = प्राणानां ग्राहकः तम् च, ज्ञात्वा = विज्ञाय, चिन्तयामास = चिन्तनमकरोत्, सामषो = क्रोधयुक्तः, राजा = नृपः, विश्वसनीयो = विश्वासयोग्यः, न भवति = नास्ति। तदिदानीम् = अतः साम्प्रतम् यावदनिरुद्धोऽस्मि = यावत् = यावत् कालपर्यन्तम्, अनिरुद्धोऽस्मि = न निरुद्धः = अनिरुद्धः अस्मि, तावत् = तावत् कालपर्यन्तम् एव इतः = अत्रतः, क्वापि = कुत्रापि, गत्वा = निर्गम्य, निजप्राणरक्षाम् = स्वकीय प्राणरक्षणं करोमि, इति = एवं, परामृश्य = विचार्य, सपरिवारः = परिवारेण सहितः = पलायितः = पलायनं कृतवान्। पलायमानः = पलायनं कुर्वतः अपि, अचिन्तयत् = चिन्तयामास, यत् = यतोहि, सपरिवारस्य = परिवारेण सार्की, दूरगमनम् = दूर पलायनं, अशक्यम् = संभवं नास्ति। परिवारं = कुटुम्ब, परित्यज्य = विहाय, पलायनमपि = नोचितम् = उचितं नास्ति। 

विशेष:- 

(i) गद्यांशस्य भाषा सरला प्रसंगानुकूला चास्ति। 
(ii) व्याकरणम्-यवनराजः-यवनानां राजा (ष. तत्पु.)। चैकदा-च + एकदा (वृद्धि सन्धि)। प्रकुपितः-प्र + कुप् + क्त। प्राणग्राहकम्-प्राणानाम् ग्राहकम् (ष. तत्पु.)। सामर्ष:-अमर्षेण सहितम् (अव्ययीभावः)। विश्वसनीयः वि + श्वस् + अनीयर्। निरुद्धम्-नि + रुध् + क्त। परामृश्य-परा + मृश् + ल्यप् । परित्यज्य-परि + त्यज् + ल्यप्। 

3. यतः-

जीवितार्थं कुलं त्यक्त्वा योऽतिदूरं जनो व्रजेत् । 
लोकान्तरगतस्येव किं तस्य जीवितेन वा ॥

अन्वयः - यः जनः जीवितार्थं कुलं त्यक्त्वा अतिदूरम् व्रजेत्, लोकान्तरगतस्य इव तस्य जीवितेन वा किम् (प्रयोजनम् अस्ति)॥ 

कठिन-शब्दार्थ : 

  • जीवितार्थम् = प्राणरक्षा के लिए। 
  • त्यक्त्वा = छोड़कर। 
  • व्रजेत् = चला जाये। 
  • जीवितेन = जीवन से। 
  • लोकान्तर गतस्य इव = दूसरे लोक को गये हुये के समान। 

प्रसंग - यह श्लोक 'दयावीर कथा' शीर्षक पाठ से उधत है। इसमें महिमासाह सेनापति के संदर्भ में कवि ने अपना विचार व्यक्त किया है 

हिन्दी अनुवाद/व्याख्या - जो व्यक्ति अपने जीवन के लिए या अपने प्राणों की रक्षा के लिए अपने कुल को छोड़कर बहुत दूर चला जाये। दूसरे लोक को गये हुए की तरह उसके जीने से क्या (लाभ)? अर्थात् उसका जीना व्यर्थ है। 

विशेष - यहाँ अपने प्राणों को बचाने के लिए अपने कुल को त्यागकर अत्यन्त दूर चले जाने वाले व्यक्ति को मृत के समान मानते हुए उसके जीवन को व्यर्थ बताया गया है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्ग - श्लोकोऽयं अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' प्रथमभागस्य 'दयावीर कथा' शीर्षक पाठात् उद्धृतः। अस्मिन् श्लोके कविना महिमाशाह सेनापति सन्दर्भे स्वविचाराः प्रकटिता: 

संस्कृत-व्याख्या - यः जनः = यः मानवः, जीवितार्थं = जीवनस्य हेतोः, कुलम् = परिवारम्, त्यक्त्वा = विहाय, अतिदूरम् = अतिदूरस्यं स्थानम्, व्रजेत् = गच्छेत्, लोकान्तरगतस्य इव = परलोकं प्रयातस्य इव, तस्य = तस्य मानवस्य, जीवितेन वा = जीवनेन न जीवनेन, किम् = किं प्रयोजनम्, किमपि प्रयोजनं न इत्याशयः। 

विशेषः - 

(i) अस्मिन् श्लोके अनुष्टुप् छन्दः। उपमाऽलंकारः। 
(ii) व्याकरणम्-त्यक्त्वा-त्यज् + क्त्वा। व्रजेत-व्रज् धातु विधिलिङ्ग। 

तदिहैव दयावीरं हम्मीरदेवं समाश्रित्य तिष्ठामीति परामृश्य स यवनो हम्मीरदेवमुपगम्याह देव ! विनापराधं हन्तुमुद्यतस्य स्वामिनस्त्रासेनाहं तव शरणमागतोऽस्मि । यदि मां रक्षितुं शक्नोषि तदा विश्वासं देहि । नो चेदितोऽन्यत्र गच्छामि।

कठिन-शब्दार्थ : 

  • इहैव = यहीं। 
  • समाश्रित्य = आश्रय लेकर। 
  • उपगम्य = समीप जाकर। 
  • उद्यतस्य = तैयार। 
  • त्रासेन = भय ये। 
  • आह = बोला। 
  • विश्वासं देहि = विश्वास दो। 
  • नोचेत् = यदि नहीं तो।

प्रसंग - यह श्लोक 'दयावीर कथा' शीर्षक पाठ से उद्धृत है। प्रस्तुत गद्यांश में महिमासाह नामक सेनापति द्वारा दयावीर हम्मीरदेव के यहाँ आश्रय लेने का वर्णन किया गया है 

हिन्दी अनुवाद/व्याख्या - अत: यहीं दयावीर हम्मीरदेव का आश्रय लेकर ठहरता हूँ-ऐसा विचार कर वह यवन हम्मीरदेव के समीप जाकर बोला-हे महाराज! मैं बिना अपराध के मारने के लिए तत्पर स्वामी के भय से आपकी शरण में आया हूं। यदि आप मेरी रक्षा कर सकते हो तो विश्वास दो, (मुझे आश्वासन दो)। यदि नहीं तो मैं और कहीं जाता हैं। 

विशेष - यवन-सेनापति अपने परिवार को त्यागकर दूर न जाने हेतु निश्चय करता है एवं वहीं पर दयालु राजा हम्मीरदेव के पास शरण लेने हेतु जाता है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - प्रस्तुत गद्यांशः 'दयावीर कथा' पाठात् अवतरितः। अस्मिन् गद्यांशे महिमाशाह नाम्ना सेनापतिना दयावीर हम्मीरदेवं समया आश्रयग्रहणस्य वर्णनं कृतमस्ति-
 
संस्कृत-व्याख्या - तत् = तर्हि, इहैव = अत्रैव, दयावीरं = दयालु हम्मीरदेवं = एतन्नाम्नः नृपं, समाश्रित्य = आश्रयं गृहीत्वा, तिष्ठामि = निवसामि, इति = एवं, परामृश्य = विचार्य, स यवनो = स यवन सेनानी, हम्मीरदेवम्, उपगम्य = समीपं मत्वा, आह = अकथयत्-देव! = हे राजन्। बिनापराधं = अपराधं बिना, हन्तुम् उद्यतस्य = तत्परस्य, स्वामिनः = राज्ञः नृपतेः त्रासेन = भयेन, अहं = महिमाशाही, तव = भवतः, शरणागतोऽस्मि = संरक्षणे आगतोस्मि। यदि = चेत्, मां = महिमासाहिन, रक्षितुं = अवतुं शक्नोषि = समर्थोऽसि तदा = तर्हि विश्वासं देहि = आश्वासनं यच्छ। नो चेत् = अन्यथा, इतो = अत्रतः, अन्यत्र = अन्यस्मिन् स्थाने, गच्छामि = यामि। 

विशेषः - 

(i) गद्यांशस्य भाषा सरला समासविहीना चास्ति। 
(ii) व्याकरणम्-तदिहैव-तत् + इह + एव (जश्त्व, वृद्धि सन्धि)। समाश्रित्य-सम् + आङ् + श्रि + ल्यप्। हन्तुम् हन् + तुमुन्। उपगम्य-उप + गम् + ल्यप्। रक्षितुम्-रक्ष् + तुमुन्। 

राजोवाच- यवन! मम शरणागतं मयि जीवति यमोऽपि
त्वां पराभवितुं न शक्नोति, किं पुनर्यवनराजः ? तदभयं तिष्ठ । ततस्तस्य राज्ञो वचनेन स यवनसचिवस्तस्मिन् रणस्तम्भनाम्नि दुर्गे निःशङ्कमुवास। क्रमेण यवनराजस्तत्रावस्थितं तं विदित्वा परमसामर्षः करितुरगपदाति- पदाघातैर्धरित्रीं चालयन् दुर्गद्वारमागत्य हम्मीरदेवेन साकं युद्धं कृतवान् परं जयं न लब्धवान्।

कठिन-शब्दार्थ : 

  • पराभवितुं = पराजित करने के लिए। 
  • अभयम् = भयरहित होकर। 
  • रणस्तम्भ = नाम्नि 
  • निःशङम = शंकारहित होकर। 
  • उवास = रहा. ठहरा। 
  • तरग = घोडा। 
  • पदाघातैः = पैरों के आघात से।
  • धरित्रीम् = पृथ्वी को। 
  • चालयन् = कपाते हुये। 
  • साकम् = साथ। 
  • लब्धवान् = प्राप्त की। 

प्रसंग - प्रस्तुत गद्यांश 'दयावीर कथा' शीर्षक पाठ से अवतरित है। इसमें मुहम्मदशाह को राजा हम्मीरदेव द्वारा शरण दिये जाने का वर्णन है। साथ ही हम्मीर देव के युद्ध-कौशल का भी वर्णन किया गया है -

हिन्दी अनुवाद/व्याख्या - राजा बोला-हे यवन् (सेनापति)! मेरी शरण में आये तुझे मेरे जीवित रहते हुये यमराज भी पराजित करने के लिए या अपमानित करने के लिए समर्थ नहीं हो सकता। फिर यवनों का राजा तो क्या (चीज) है? अर्थात् वह तो कहीं भी नहीं ठहरता है। अतः तुम निडर होकर रहो। 

इसके बाद उस राजा के वचन से वह यवन सेनापति उस रणथम्भौर नामक किले में शंकारहित होकर रहने लगा। क्रम से यवनों का राजा उसे वहाँ ठहरा हुआ जानकर अत्यन्त क्रोधित हुआ। हाथियों, घोड़ों तथा पैदल सेना के पैरों के आघातों (प्रहारों) से धरती को कंपाते हुये किले के दरवाजे पर आकर हम्मीर देव के साथ युद्ध करने लगा। परन्तु युद्ध में विजय प्राप्त नहीं कर सका।। 

विशेष - यहाँ राजा हम्मीरदेव की शरणागतवत्सलता एवं वीरता व्यक्त हुई है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - प्रस्तुत गद्यांशः 'दयावीर कथा' शीर्षक पाठात् अवतरितोस्ति। अस्मिन् मुहम्मद साहिनं नृपेण हम्मीरदेवेन शरणप्रदानस्य वर्णनमस्ति । एतदतिरिक्तं हम्मीरदेवस्य युद्धकौशलस्यापि वर्णनं वर्तते। 

संस्कृत-व्याख्या - राजोवाच = नृपः उक्तवान्-यवन! हे यवन। (सेनापते!) मम शरणागतं = मम शरणं आगतं मयि जीवति सति यमोऽपि = मृत्युदेवोऽपि, त्वां = भवन्तम्, पराभवितुं = पराजितुं न शक्नोति = समर्थो नास्ति, किं पुनः = किं भूय: यवनराजः = यवननृपतिः? तत् = तर्हि, अभयं = निर्भयं, तिष्ठ = भव। ततः = तदनन्तरम्, राज्ञो वचनेन = नृपस्य आदेशेन सः यवनसचिवः = मुस्लिमसेनापतिः, तस्मिन् रणस्तम्भनाम्नि = रणथम्भोर नाम्नः दुर्गे, निःशङ्कम् = शङ्कारहितम्, उवास = अध्युवा स। क्रमेण = क्रमशः, यवनराजः = यवननृपतिः, तत्रावस्थितं = तत्र विद्यमानं, तं = यवन सेनापति, विदित्वा = विज्ञाय, परम-सामर्षः = अतिक्रोधयुक्तः संजातः। करितुरगपदाधातैः = करिण: तुरगाश्च = करितुरगाः तेषां पदानां आघातः तैः, धरित्रीम् = पृथिवीम्, चालयन् = कम्पायमानः दुर्गकारम् = दुर्गस्य मुख्य कारम्, आगत्य = आगम्य, हम्मीरदेवेन = एतन्नाम्ना नृपतिना, साकं = सार्द्ध, युद्धं कृतवान् = संग्राम अकरोत, परं = परन्तु, जयं = विजयं, न लब्धवान् = न प्राप्तवान्॥ 

विशेषः -

(i) अस्मिन् गद्यांशे हम्मीरदेवस्य 'शरणागतवात्सल्यम्' युद्धकौशलञ्च अभिव्यक्तम्। 
(ii) गद्यांशस्य भाषा सरला सुबोधा चास्ति। 
(iii) व्याकरणम्-राजोवाच-राजा + उवाच (गुण सन्धि)। पराभवितुम्-परा + भू + णिच् + तुमुन्। शरणागतम् शरणम् आगतम् (द्वितीया तत्पु.)। विदित्वा-विद् + क्त्वा। कृतवान् = कृ + क्तवतु। लब्धवान्-लभ् + क्तवतु। 

प्रथमयुद्धानन्तरं यवनराजेन हम्मीरदेवं प्रति दूतः प्रहितः । दूत उवाच- राजन् हम्मीर ! श्रीमान् यवनराजस्त्वामादिशति यन्ममापथ्यकारिणं महिमासाहिं परित्यज्य देहि । यद्येनं न दास्यसि तदा श्वस्तने प्रभाते तव दुर्गं तुरगखुराघातैश्चूर्णावशेषं कृत्वामहिमासाहिना सह त्वामन्तकपुरं नेष्यामि। हम्मीरदेव उवाच- रे दूत ! त्वमवध्योऽसि । तवाहं किं करवाणि? अस्योत्तरं तव स्वामिने खङ्गधाराभिरेव दास्यामि न वचोभिः । मम शरणागतं यमोऽपि विपक्षदृष्ट्या वीक्षितुं न शक्नोति किं पुनर्यवनराजः ?

कठिन-शब्दार्थ : 

  • प्रहितः = भेजा। 
  • अपथ्यकारिणम् = बुरा करने वाले को, अपराधी को। 
  • परित्यज्य = छोड़कर। 
  • श्वस्तने = आने वाले कल में। 
  • तुरगखुराघातैः = घोड़ों के खुरों के आघात से। 
  • चूर्णावशेषम् = चूर-चूर मात्र शेष। 
  • अन्तकपुरम् = यम- लोक। 
  • अवध्य = मारने योग्य नहीं। 
  • खड़गधाराभिः = तलवार की धारों से। 
  • वीक्षितम् = देखने के लिए। 
  • वचोभिः = वचनों से। 

प्रसंग - यह श्लोक 'दयावीर कथा' शीर्षक पाठ से उद्धृत है। प्रस्तुत गद्यांश में यवन राज द्वारा प्रेषित दूत व हम्मीरदेव के मध्य जो वार्तालाप होता है-उसका वर्णन किया गया है 

हिन्दी अनुवाद/व्याख्या - प्रथम युद्ध के बाद यवनराज द्वारा हम्मीरदेव के यहाँ दूत भेजा गया। दूत ने कहा—हे राजा हम्मीर ! श्रीमान् यवनराज तुम्हें आदेश देते हैं कि मेरे विरोधी (शत्रु) महिमासाह को छोड़कर मुझे दे दो। यदि आप इसे नहीं देंगे तो आने वाले कल सुबह तुम्हारे किले को घोड़ों के खुरों के आघातों से धूलि मात्र शेष करके महिमासाह के साथ तुम्हें यमलोक ले जाऊँगा। अर्थात् महिमासाह व तुम्हें मार डालूँगा। 

हम्मीरदेव ने कहा-अरे दूत! तुम (दूत होने के कारण) अवध्य हो (मारे जाने योग्य नहीं हो) तुम्हारा मैं क्या करूँ? इसका जवाब तो तुम्हारे स्वामी को तलवार की धारों से ही (युद्ध के मैदान में) दूंगा न कि वचनों से। मेरी शरण में आये हुये को यमराज भी शत्रु की दृष्टि से देखने में समर्थ नहीं हो सकता फिर यवनराज तो क्या (चीज) है? अर्थात् वह तो कहीं भी मुकाबले में नहीं आता है। 

विशेष - यहाँ यवनराज अलावदीन के अहंकारयुक्त संदेश का तथा हम्मीरदेव के वीरोचित प्रत्युत्तर का वर्णन हुआ है, जिसमें हम्मीरदेव की शरणागत-वत्सलता व दयावीरता व्यक्त हुई है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - अयं गद्याशं अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' प्रथम भागस्य 'दयावीर कथा' पाठात् उद्धतः। मूलतः अयं पाठः विद्यापति विरचितात् 'पुरुष-परीक्षा' इति कथा ग्रन्थात् संकलितः। अस्मिन् गद्यांशे अलाउद्दीन मुहम्मदशाहं त्यक्तुं प्रतिदातुं च आदिशति परञ्च हम्मीरदेवाः दयावीरः स्वशरणागतस्य रक्षणार्थ रात्रोः आहवानम् स्वीकरोति, नासौ शरणागतं च ददाति। 

संस्कृत-व्याख्या - प्रथमयुद्धानन्तरम् = पूर्व सम्पन्नात् युद्धात् उपरान्तं = यवनराजेन यवनशासकेन अलाउद्दीनेन, हम्मीरदेवं प्रति = हम्मीर देवं निकषा, दूतः प्रहितः = चरः प्रेषितः। दूत उवाच = चरोऽवदत्-राजन् हम्मीर। = हे महाराज हम्मीर ! श्रीमान् यवनराजः = श्रीयुत् अलाउद्दीन, त्वाम् = भवन्तम्, आदिशति = आदेशं ददाति, यत् मम अपथ्यकारिणं = यत् मे विरोधिनम्, महिमासाहिं = मुहम्मदशाहं, परित्यज्य = त्यक्त्वा, देहि = यच्छ। यदि एनं = अयम् चेत्, न दास्यसि = न प्रदास्यसि, तदा श्वस्तने = तदा श्वः, प्रभाते = प्रातःकाले, तवदुर्गम् = ते दुर्गम् तुरगखुराघातैः = अश्वानां खुराणां प्रहारैः, चूर्णावशेषम् = चूर्णरूपे अवशेष, कृत्वा = विधाय,

महिमा साहिना सह = मुहम्मदशाहेन साकम्, त्वाम् = भवन्तम्, अन्तकपुरम् = यमलोकम्, नेष्यामि = प्रापयिष्यामि। हम्मीरदेव उवाच = हम्मीरदेवो अवदत् = रे दूत ! = भो चर! त्वमवध्योऽसि = भवान् हन्तव्यः नास्ति। तवाहं = तेऽहम् किं करवाणि = किं विदधामि? अस्योत्तरम् = एतस्योत्तरम्, तव स्वामिने = ते प्रभवे, खङ्गधाराभिरेव = असीनां तीक्ष्णधाराभिः एव, दास्यामि = दास्यै, न वचाभिः = न तु वचनैः। मम = मे, शरणागतम् = आश्रयम् आगतम्, यमोऽपि = यमराजः अपि, विपक्षदृष्ट्या = शत्रुदृष्ट्या, वीक्षितुम् = द्रष्टुम्, न शक्नोति = समर्थ: नास्ति, किं पुनः = किं भूयः यवनराजः = यवन सम्राट्। 

विशेषः - व्याकरणम-प्रहित:-प्र + धा + क्त। यद्येनं-यदि + एनम (यण सन्धि)। तवाहम-तव अहम (दीर्घ)। अस्योत्तरम्-अस्य + उत्तरम् (गुण सन्धि)। वीक्षितुम्-वि + इक्ष् + तुमुन्। शरणागतम्-शरणम् आगतम् (द्वि. तत्पु.)। 

ततो निर्भर्त्यिते दूते गते सति यवनराजः कुपित्वा युद्धसमुद्धरो बभूव । एवमुभयोरपि बलयोर्युद्धेऽर्धावशिष्टसुभटे यवनसैन्ये दुर्गे ग्रहीतुमशक्ये यवनराजः परावृत्य निजनगरगमनाकाङ्क्षी बभूव । तञ्च भग्नोद्यमं दृष्ट्वा रायमल्लरामपालनामानौ हम्मीरदेवस्य द्वौ सचिवौ दुष्टौ यवनराजमागत्य मिलितौ । तावूचतुः यवनराज ! भवता क्वापि न गन्तव्यम् । दुर्गे दुर्भिक्षमापतितम् । श्वः परश्वो वा दुर्गं ग्राहयिष्यावः । ततस्तौ दुष्टसचिवौ पुरस्कृत्य यवनराजेन दुर्गद्वाराण्यवरुद्धानि।

कठिन-शब्दार्थ :

  • निर्भर्त्तिते = भर्त्सना किये गये, फटकारे गये।
  • कुपित्वा = क्रुद्ध होकर।
  • युद्ध समुद्धरो = युद्ध के लिए उद्यत।
  • बभूव = हुआ।
  • बलयोः = सेनाओं के।
  • अर्धावशिष्ट सुभटे = आधे बचे सैनिकों वाले।
  • दुर्गे गृहीतुमशक्ये = किले को लेने में असमर्थ।
  • परावृत्य = लौटकर।
  • गमनाकांक्षी = जाने की इच्छा वाला।
  • भग्नोद्यम = विफल पराक्रम वाला।
  • तावूचतुः = उन दोनों ने कहा।
  • दुर्भिक्षम् = अकाल।
  • परश्वः = परसों।
  • ग्राहयिष्यावः = ग्रहण करवा लेंगे।
  • पुरस्कृत्य = पुरस्कृत कर।
  • अवरुद्धा दिये, बन्द कर दिये।

प्रसंग-प्रस्तुत गद्यांश हमारी पाठ्य पुस्तक 'शाश्वती' प्रथम भाग के 'दयावीर कथा' शीर्षक पाठ से उद्धृत है। इस गद्यांश में हम्मीर देव के दो सचिवों के दुष्कृत्य का वर्णन किया गया है-

हिन्दी अनुवाद/व्याख्या - फटकारे गये दूत के चले जाने पर यवनों के राजा अलाउद्दीन क्रुद्ध होकर युद्ध के लिए तत्पर हो गये। इस प्रकार दोनों ही सेनाओं के युद्ध में आधे बचे सैनिकों वाली यवन सेना के होने पर किले को लेने में असमर्थ होने पर यवनराज लौटकर अपने नगर को जाने की इच्छा वाले हो गये। इस प्रकार उसे विफल पराक्रम वाला देखकर रायमल्ल तथा रामपाल नाम वाले हम्मीर देव के दो दुष्ट सचिव यवन राज के पास आकर उनसे मिले। उन दोनों ने कहा-हे यवनराज! आपको कहीं भी नहीं जाना है। किले में अकाल पड़ गया है। कल अथवा परसों तक किले को ग्रहण करवा लेंगे। इसके बाद उन दोनों दुष्ट सचिवों को पुरस्कृत करके यवनराज ने किले के दरवाजों को बन्द कर दिया। 

विशेष-हम्मीरदेव के युद्ध-कौशल से जब अलावदीन हतोत्साहित होकर भागने का विचार करता है तभी हम्मीरदेव के दो सचिव विश्वासघात करके अलावदीन से मिल जाते हैं। इस ऐतिहासिक तथ्य किया है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - अयं गद्यांशः 'दयावीर कथा' शीर्षक पाठात् अवतरितः। अस्मिन् गद्यांशे हम्मीरदेवस्य द्वयोः सचिवयोः दुष्कृत्यस्य वर्णनं कृतम्- 

संस्कृत-व्याख्या - ततो = तदनन्तरम्, निर्भसिंते दूते = भर्त्सना प्राप्ते गुप्तचरे, गते सति = गमनं कृते सति, यवनराजः = यवननृपतिः अलावदीमः, युद्ध समुद्धरो = युद्धाय उद्यतः बभूव = अभवत्। एवम् = इत्थम्, उभयोरपि = द्वयोरपि, बलयोः = सेनयोः, युद्धे = समरे, अर्धावशिष्ट सुभटे = अर्धावशेष वीरे, यवनसैन्ये = मुगलसैन्ये, दुर्गे ग्रहीतुमशक्ये = ग्रहीतुमसमर्थे, यवनराजः = यवननृपतिः, परावृत्य निजनगरगमनाकांक्षी = स्वकीयनगरगमनप्रार्थी, बभूष = अभवत् । तञ्च = तम् नृपं च, भग्नोद्यम = विफलपराक्रम, दृष्ट्वा = विलोक्य, रायमल्लराम पालनामानौ = एतत् नामधेयौ, हम्मीरदेवस्य द्वौ सचिवौ = अमात्यौ, दुष्टौ = दुर्जनौ, यवनराजम् = यवननृपति, आगत्य = उपगम्य मिलितौ। द्वौ उचतुः = तौ उक्तवन्तौ-यवनराज ! = हे यवननृपति! भवता = त्वया, क्वापि = कुत्रापि, न गन्तव्यम् = न गमनीयः। दुर्गे दुर्भिक्षम् = अकालम् आपतितम् = संजातम्, श्वः परश्वो वा = दिनद्वये, दुर्गं ग्राहयिष्यावः = ग्रहणं कारयिष्यावः, ततः = तदनन्तरं, दुष्टसचिवौ = दुर्जनमात्यौ, पुरस्कृत्य = पुरस्कृतं कृत्वा, यवनराजेन = यवननृपतिना, दुर्ग द्वाराणि = दुर्ग कपाटानि, अवरुद्धानि। 

विशेषः-व्याकरणम्-गते-गम् + क्त (स. एकवचन)। सति-अस् + शतृ (स. एकवचन)। ग्रहीतुम्-ग्रह् + तुमुन्। आगत्य-आ + गम् + ल्यप्। कुपित्वा-कुप् + णिच् + क्त्वा। भग्नोद्यमम्-भग्नं उद्यमम् यस्य सः तम् (बहुव्रीहि)। 
वभूव-भू धातु लिट् लकार (प्र. पु. एकवचन)। निर्भत्सिते-निर् + भर्त्स + क्त। तावूचतुः = तौ उचतुः (अयादि सन्धि) वच् + लिट् लकार प्र. पु. द्विवचन। पुरस्कृत्य-पुरः + कृ + ल्यप् । गन्तव्यम्-गम् + तव्यत्। अवरुद्धानि-अव + रुध् + क्त। 

तथा सङ्कटं दृष्ट्वा हम्मीरदेवः स्वसैनिकान् प्रत्युवाच - रे रे योद्धारः ! परिमितबलोऽप्यहं शरणागतकरुणया प्रवृद्धबलेनापि यवनराजेन समं योत्स्यामि । ततो यूयं सर्वे दुर्गाद्द्बहिः स्थानान्तर गच्छत। त ऊचुः- भवान् निरपराधो राजा (शरणागतस्य) यवनस्य करुणया सङ्ग्रामे मरणमङ्गीकुरुते । वयं भवतो जीव्यभुजः कथमिदानीं भवन्तं स्वामिनं परित्यज्य कापुरुषपदवीमनुसरिष्यामः ? किञ्च श्वस्तने प्रभाते देवस्य शत्रुं हत्वा प्रभोर्मनोरथं साधयिष्यामः । यवनस्त्वयं वराकः स्थानान्तरं प्रहीयताम् । तेन रक्षणीयरक्षा सम्भवति । यवन उवाच- देव! किमर्थं ममैकस्य विदेशिनो रक्षार्थं सपुत्रकलत्रं स्वकीयराज्यं विनाशयिष्यसि ? ततो मां परित्यज्य देहि । राजोवाच- यवन ! मैवं ब्रूहि । 
  • परिमित बलः = कम सेना वाला। 
  • शरणागत करुणया - शरण में आये हये के प्रति दयाभाव के कारण। 
  • प्रवृद्धबलेन = बड़ी सेना वाले से। 
  • योत्स्यामि = युद्ध करूँगा। 
  • स्थानान्तरं = दूसरे स्थान पर। 
  • अङ्गीकुरुते = स्वीकार करते हैं। 
  • जीव्यभुजः = जीविका का उपभोग करने वाले।
  • कापुरुष पदवीम् = कायर पुरुष की पदवी को। 
  • अनुसरिष्यामः = अनुसरण करेंगे। 
  • साधयिष्यामः = सिद्ध करेंगे। 
  • वराकः = बेचारा। 
  • प्रहीयताम् = भेज दीजिये। 
  • सपुत्रकलत्रम् = पुत्र तथा पत्नी के साथ। 
  • बूहि = कहो।

प्रसंग - यह श्लोक 'दयावीर कथा' शीर्षक पाठ से उद्धृत है। प्रस्तुत गद्यांश में हम्मीरदेव की एक ओर अपने स्वामिभक्त योद्धाओं के प्रति सहानुभूति व्यक्त हुई है, दूसरी ओर योद्धाओं की अपने स्वामी के प्रति स्वामिभक्ति व्यक्त हुई है। साथ ही शरणागत महिमासाह के प्रति शरणागतवत्सलता व्यक्त हुई है -

अनुवाद/व्याख्या - उस प्रकार के संकट को देखकर हम्मीरदेव ने अपने सैनिकों के प्रति कहा-अरे रे योद्धाओ! कम सेना वाला भी मैं शरणागत के प्रति दयाभाव के कारण बड़ी सेना वाले भी यवनराज के साथ युद्ध करूँगा। तुम सब दुर्ग से बाहर दूसरे स्थान पर चले जाओ। उन योद्धाओं ने कहा-आप निरपराध राजा (शरणागत) यवन के प्रति दयाभाव के कारण युद्ध में मृत्यु को स्वीकार कर रहे हैं। हम सब आपकी जीविका का उपयोग करने वाले कैसे इस समय आप जैसे स्वामी को छोड़कर कायर पुरुष की पदवी का अनुसरण करेंगे तथा क्या आने वाले कल प्रभात में महाराज के शत्रु को मारकर स्वामी का मनोरथ सिद्ध करेंगे? इस बेचारे यवन को किसी अन्य स्थान पर भेज दीजिये। इससे रक्षा करने योग्य की रक्षा हो सकती है। वह यवन (महिमासाह) बोला--महाराज! किस कारण से मुझ एक विदेशी की रक्षा के लिए (आप) पुत्र एवं स्त्री सहित अपने राज्य को विनष्ट कराओगे? अतः मुझे त्यागकर यवनराज को दे दीजिये। राजा ने कहा-इस प्रकार मत बोलो-(ऐसा मत कहो)। 

विशेष - यहाँ संकटग्रस्त हम्मीरदेव की दयावीरता एवं उसके गुणों से प्रभावित उसके सैनिकों की स्वामिभक्ति को दर्शाया गया है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्ग: - अयं गद्यांशः अस्माकं पाठ्यपुस्तकस्य 'दयावीर कथा' इति पाठात् अवतरितः। अयं पाठः मूलतः कवि विद्यापति विरचितात् 'पुरुष-परीक्षा' इति कथाग्रन्थात् संकलितः। अस्मिन् गद्यांशे हम्मीरदेवस्य दृढ़ संकल्पं, दयार्द्रता, शरणागत संरक्षण धर्मः वीरतादयः सद्गुणाः वर्णिताः। 

संस्कृत-व्याख्या - तथा = तादृशं, संकटं = आपत्तिम्, दृष्ट्वा = विलोक्य, हम्मीरदेवः = रणथम्भोर नरेशः, स्वसैनिकान् = स्वकीयान् योद्धान्, प्रत्युवाच = प्रति अवदत्- रे रे योद्धारः = भोः भोः भटाः! परिमितवलोऽप्यहं = सीमित सैन्योऽपि अहम्, शरणागतकरुणया = आश्रयं प्राप्तं प्रति दयाभावेन, प्रवृद्धबलेनापि = समृद्ध सैन्यबलेनापि, यवनराजेन = यवनाधीशेन, समं = सार्द्धम, योत्स्यामि = युद्धं करिष्यामि। ततो = वदा, यूयं सर्वे = यूयमशेषाः, दुर्गाद् बहिः = दुर्ग प्राचीरात् बहिः, स्थानान्तरं = अन्यत् स्थानं, गच्छत = गमनं कुरुत। त ऊचुः = ते अपदन् - भवान् = त्वम्, निपराधो = निर्दोषः, राजा = नृपः (शरणागतस्य = शरणं आयातस्य) यवनस्य करुणया = दयया, संग्रामे = समरे, युद्धे, मरणमङ्गी-कुरुते = मृत्युं स्वीकरोषि। 

वयं भवतः = वयं श्रीमतः, जीव्यभुजः = आजीविकायाः उपभोक्ता, कथम् = केन प्रकारेण, इदानीम् = साम्प्रतम्, भवन्तम्, अवन्तम् = त्वाम्, स्वामिनं = प्रभुम्, परित्यज्य = त्यक्त्वा, कापुरुषपदवीम् = कुत्सितमानवस्य मार्गम्, अनुसरिष्यामः = अनुसरणं करिष्यामः। किं च श्वस्तने प्रभाते = किमन्यत् श्वः प्रात:काले, देवस्य = महाराजस्य, शत्रु = अरिं, हत्वा = निहत्य, प्रभोः = स्वाभिनः, मनोरथम् = अभिलषितं, साधयिष्यामः = सिद्धं करिष्यामः। 

यवनः तु अयं = मोहम्मदीयः एषः, वराकः = अनाथः, स्थानान्तरं = अन्य स्थानम्, प्रहीतयताम् = प्रेष्यताम् । तेन = एवम् इत्थम् वा, रक्षणीय रक्षा = रक्षितव्यस्य रक्षणम्, सम्भवति = संभवः वर्तते। यवन उवाच = मोहम्मदीयः अवदत–किमर्थम = कस्मात कारणात, ममैकस्य = मे एकस्य, विदेशिनः = वैदेशिकस्य, रक्षार्थम् = रक्षणाय, सपत्रकलत्रम = ससुतं रूपलीकं स्वकीय-राज्यम् = आत्मनः राज्यम्, विनाशयिष्यसि = विनष्टं करिष्यसि ततः = तदा, मां परित्यज्य = त्यक्त्वा मा, देहि = प्रयच्छ। राजोवाच = नृपः अवदत्-यवन! = हे यवन! एवं = इत्थम् मा ब्रूहि = न कथय। 

विशेष-व्याकरणम् - प्रत्युवाच-प्रति + उवाच (यण् सन्धि)। योद्धार:-युध् + तृच् (प्रथमा बहुवचन)। परिमित-परि + मा + क्त। प्रवृद्ध-प्र + वृध् + क्त। हत्वा-हन् + क्त्वा। परिमितबलः-परिमितः बलः यस्य सः (बहुव्रीहि)। ममैकस्य मम + एकस्य (वृद्धि सन्धि)। परित्यज्य-परि + त्यज् + ल्यप्। प्रभोर्मनोरथम्-प्रभोः + मनः + रथम् (विसर्ग, रुत्व, उत्व)। यवनस्त्वयम-यवनः + तु + अयम् (विसर्ग, रुत्व, यण् सन्धि)। 

यतः
भौतिकेन शरीरेण नश्वरेण चिरस्थितम् । 
लप्स्यमानं यशः को वा परिहर्तुं समीहते ॥

अन्वयः - भौतिकेन नश्वरेण शरीरेण चिरस्थितम् लप्स्यमानम् यशः कः वा परिहर्तुम् समीहते ॥ 

कठिन-शब्दार्थ : 

  • भौतिकेन = पञ्च तत्वों से निर्मिता। 
  • नश्वरेण = नश्वर, नाशवान। 
  • चिरस्थितिम् = चिर काल तक स्थिर रहने वाला। 
  • लप्स्यमानम् = प्राप्त होने वाला।
  • परिहर्तुम् = छोड़ने के लिए। 
  • समीहते = चाहता है। 

प्रसंग - प्रस्तुत श्लोक 'दयावीर कथा' शीर्षक पाठ से लिया गया है। मूलतः यह पाठ मैथिल कोकिल विद्यापति विरचित 'पुरुष परीक्षा' नामक कथा-संग्रह से संकलित किया गया है। इस पद्य में हम्मीरदेव ने अपने भौतिक शरीर के प्रति आसक्ति न रखते हुये चिरस्थायी अपने यश के प्रति इच्छा व्यक्त की है -

हिन्दी अनुवाद/व्याख्या- (क्योंकि) भौतिक (पंचभूतों से निर्मित) एवं नश्वर शरीर से (यदि) चिरकाल तक स्थायी रहने वाला यश प्राप्त हो रहा है, तो कौन उसे छोड़ना चाहेगा अर्थात् कोई भी उसे नहीं छोड़ना चाहेगा। 

विशेष - यहाँ भौतिक एवं नश्वर शरीर की अपेक्षा यश की श्रेष्ठता बतलाई गई है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्ग: - अयं श्लोकः अस्माकं पाठ्यपुस्तकस्य 'दयावीर कथा' इति पाठात् उद्धृत । अयं पाठः मूलतः 'विद्यापतिविरचितात् पुरुष-परीक्षा' इति कथाग्रन्थात् संकलितः। अस्मिन् पये हम्मीरदेवः स्वभौतिक शरीरं प्रति अनासक्तो भूत्वा चिरस्थायिनं यशः प्रति कामनां अभिव्यक्तं करोति 

संस्कृत-व्याख्या - भौतिकेन = पञ्चतत्व निर्मितेन, नश्वरेण = क्षणभंगुरेण, शरीरेण = देहेन, चिरस्थितम् = दीर्घकालपर्यन्तं विद्यमानम्, लप्स्यमानम् = प्राप्यमानम्, यशः = कीर्तिम् कः = कः जनः, परिहर्तुम् = त्यक्तुम्, समीहते = वांछति। कोऽपिजनः न इत्याशयः। 

व्याकरणम् - 

(i) लप्स्यमानम्-लभ् + शानच्। स्थितम्-स्था + क्त। परिहर्तुम्-परि + हृ + तुमुन्। 
(ii) अस्मिन् पद्ये हम्मीरदेवस्य यशः शरीरे आसक्तिः प्रस्तुता। 

किञ्च यदि मन्यसे तदा निर्भयस्थानं त्वां प्रापयामि । यवन उवाच-राजन् मैवं ब्रूहि। सर्वप्रथमं मयैव विपक्षशिरसि खङ्गप्रहारः कर्तव्यः ।
ततः प्रभाते युद्धे प्रवर्त्तमाने हम्मीरदेवः सत्वर - तुरंगारूढो निजसुभटसार्थसहितः पराक्रमं कुर्वाणो दुर्गान्निःसृत्य खङ्गधारा-
प्रहारैर्विपक्षबलवाजिनः पातयन् कुञ्जरान् घातयन्, कबन्धान् नर्तयन् रुधिरधाराप्रवाहेन मेदिनीमलङ्कृत्य शर-शल्लितसर्वाङ्गस्तुरगपृष्ठे त्यक्तप्राणः सम्मुखः सङ्ग्रामभूमौ निपपात सूर्यमण्डलभेदी अभवत् ।

कठिन-शब्दार्थ : 

  • प्रापयामि = पहुँचाता हूँ। 
  • प्रवर्तमाने = प्रारंभ होने पर। 
  • सत्वर तुरगारूढो = शीघ्रगामी घोड़े पर सवार होकर। 
  • विपक्ष बलवाजिनः = शत्रुओं की सेना के घोड़ों को। 
  • पातयन् = गिराते हुये। 
  • कुञ्जरान् = हाथियों को। 
  • घातयन् = मारते हुये। 
  • कबन्धान् नर्तयन् = कटे हुये शरीर के धड़ों को नचाते हुये। 
  • मेदिनीमलकृत्य = पृथ्वी को सुशोभित करके। 
  • शरशल्लितसर्वाङ्गः = बाणों से खण्ड-खण्ड हुये सर्वांग शरीर वाले।
  • निपपात = गिर पड़ा। 
  • सूर्यमण्डलभेदी = सूर्यमण्डल का भेदन करने वाला, वीरगति को प्राप्त। 

प्रसंग - प्रस्तुत गद्यांश 'दयावीर कथा' पाठ का अन्तिम अंश है। इसमें हम्मीरदेव के आत्मोत्सर्ग का वर्णन किया गया 

हिन्दी अनुवाद/व्याख्या - और क्या यदि तुम मानते हो तो तुम्हें किसी निर्भय स्थान पर पहुँचाता हूँ। यवन ने कहा - हे राजा! ऐसा मत कहिए। सर्वप्रथम मेरे द्वारा ही शत्रु के सिर पर तलवार का प्रहार किया जाना चाहिए। अर्थात् मैं ही सर्वप्रथम शत्रु के सिर पर प्रहार करूँगा। 

इसके पश्चात् प्रातःकाल युद्ध के प्रारंभ होने पर हम्मीरदेव ने शीघ्रगामी घोड़े पर चढ़कर अपने श्रेष्ठ योद्धाओं तथा सारथि सहित पराक्रम करते हुये दुर्ग से निकलकर तलवार की धारों के प्रहारों से शत्रुओं की सेना के घोड़ों को गिराते हुये, हाथियों को मारते हुये, कटे हुये शरीर के धड़ों को नचाते हुये रक्त की धारा के प्रवाह से पृथ्वी को सुशोभित करके, तीरों से टुकड़े-टुकड़े हुये सर्वाङ्ग शरीर वाले, घोड़े की पीठ पर प्राणों का त्याग किया तथा युद्धभूमि में सामने गिर पड़े तथा सूर्य के मण्डल को भेदने वाले हो गये अर्थात् वीरगति को प्राप्त हो गये। 

विशेष - यहाँ अपने शरणागत की रक्षा करने के लिए राजा हम्मीरदेव द्वारा भयंकर युद्ध-कौशल का परिचय देते हुए वीरगति को प्राप्त होने का वर्णन हआ है। 

सप्रसङ्ग संस्कृत-व्याख्या - 

प्रसङ्गः - अयं गद्यांशः अस्माकं पाठ्यपुस्तकस्य 'दयावीर कथा' पाठस्य अन्तिमांशो वर्तते। अस्मिन् गद्यांशे हम्मीरदेवस्य आत्मोत्सर्गस्य वर्णनं विद्यते 

संस्कृत-व्याख्या - किं च = किमन्यत्, यदि = चेत्, मन्यसे = मनुषे, तदा = तर्हि, निर्भयस्थानम् = भयहीनं स्थानम्, त्वाम् = भवन्तम्, प्रापयामि = प्रेषयामि। यवन उवाच = यवनः अवदत् राजन! = हे नृप! एवं = इत्थम्, मा ब्रूहि = न कथय। सर्वप्रथमम् = आद्यम्, मयैव = अहम् एव, विपक्ष शिरसि = शत्रूणां मस्तकेषु, खङ्गप्रहारः = असि आधातम्, कर्तव्यः = कुर्याम्। ततः = तदनन्तरं, प्रभाते = प्रात:काले, युद्धे प्रवर्त्तमाने = समरे प्रारंभे सति, हम्मीरदेवः सत्वरतुरगारूढो = शीघ्रगामी-अश्वारूढो भूत्वा निजसुभटसार्थसहितः = स्वश्रेष्ठवीरसारथिसहितः पराक्रमं = शौर्य, 

कुर्वाणः = प्रदर्शयन्, दुर्गान्निःसृत्य = दुर्गात् बहिरागत्य, खङ्गधारा प्रहारैः = करवालधाराप्रहारैः, विपक्षवलवाजिनः = शत्रुसेना अश्वान्, पातयन्, कुञ्जरान् = गजान् घातयन् = भारपन्, कबन्धान् = कं मुखं बध्नाति-कबन्धः, तान् नर्तयन् रुधिरधाराप्रवाहेन = रक्तधारा सम्पातेन, मेदिनीम् = पृथिवीम्, अलङ्कृत्य = विभूषितं कृत्वा, शर-शल्लित सर्वाङ्ग = शरैः बाणैः, शल्लितः = खण्ड खण्ड जातः सर्वाङ्गः, तुरगपृष्ठे = अश्वपृष्टे, त्यक्तप्राणः = त्यक्तः प्राणः येन सः = मृतः, सम्मुखः संग्रामभूमौ = युद्धभूमौ, निपपात = अपतत्, सूर्यमण्डलभेदी = सूर्यमण्डलस्य भेदनकर्ता अभवत् = वीरगतिं प्राप्तवान् इत्यर्थः। 

विशेष:-

(i) अस्मिन् गद्यांशे दयावीर शरणागतवत्सल हम्मीरदेवस्य आत्मोत्सर्गस्य शोभनं चित्रणं कृतमस्ति। 
(ii) गद्यांशस्य भाषा सरला भावानुकूला च वर्तते। 
(iii) व्याकरणम्-प्रवर्त्तमाने - प्र + वृत् + शानच्। आरुढ-आ + रुह् + क्त। कुर्वाण:- कृ + शानच्। पातयन् पत् + णिच् + शतृ। घातयन्-हन् + णिच् + शतृ। नर्तयन्-नृत् + णिच् + शतृ। सत्वरं-त्वरमा सहितम् (अव्ययीभाव)।

प्रश्न: 1. 
संस्कृतभाषया उत्तरत - 
(क) पुरुषपरीक्षायाः लेखकः कः? 
उत्तरम् : 
पुरुषपरीक्षायाः लेखकः कविः विद्यापतिः अस्ति। 

(ख) अलावदीनो नाम यवनराजः कस्मै अकुप्यत्?
उत्तरम् : 
अलावदीनो नाम यवनराजः महिमासाहिनाम्ने सेनानिने अकुप्यत्। 

(ग) महिमासाहि सेनानी प्राणरक्षायै कुत्र अगच्छत्? 
उत्तरम् : 
महिमासाही सेनानी प्राणरक्षायै हम्मीरदेवं अगच्छत् । 

(घ) हम्मीरदेवः यवन सेनानिनं प्रति किमवदत्? 
उत्तरम् : 
मम शरणागतं मयि जीवति यत्रोऽपि त्वां पराभवितुं न शक्नोति, किं पुनर्यवनराजः? 

(ङ) हम्मीरदेवेन निर्भर्त्सते दूते यवनराजः किं करोति? 
उत्तरम् : 
हम्मीरदेवेन निर्भर्त्ससते दूते यवनराजः कुपित्वा युद्ध समुद्धतो बभूव। 

(च) भग्नोद्यमं यवनराजं दृष्ट्वा तभागत्य कौ मिलितौ? 
उत्तरम् :
भग्नोद्यमं यवनराजं दृष्ट्वा तमागत्य रायमल्ल रामपालनामानौ हम्मीरदेवस्य द्वौ सचिवौ मिलितौ। 

(छ) युद्ध संकटमवलोक्य हम्मीरदेवः स्वसैनिकान् प्रति किम कथयत? 
उत्तरम् : 
हम्मीरदेवः स्वसैनिकान् अकथयत्-यत् परिमितबलोऽप्यहं शरणागत करुणया प्रवृद्ध बलेनापि यवनराजेन समं 

योत्स्यामि। 

(ज) 'मां परित्यज्य देहि' इत्युक्तवति यवनसचिवे हम्मीरदेवः तं प्रति किमवदत्? 
उत्तरम् : 
हम्मीरदेवः अवदत्-मैवं ब्रूहि। "यतः भौतिकेन शरीरेण नश्वरेण चिरस्थितम्। लप्स्यमानं यशः को वा परिहर्तुं समीहते॥" 

(झ) शरणागतक्षायै कः वीरगतिमलभत् ? 
उत्तरम् : 
शरणागत रक्षायै हम्मीरदेवः वीरगतिमलभत्। 

प्रश्न: 2. 
अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखत - 
अलावदीनः, रणस्तम्भ दुर्गः, योगिनीपुरम, यवनराजः।
उत्तरम् :  

  • अलावदीनः - अलाउद्दीन 
  • रणस्तम्भ दुर्ग: - रणथम्भौर किला
  • योगिनीपुरम् - जोगिनापुर 
  • यवनराजः - मुसलमान राजा, बादशाह

प्रश्न: 3. 
आशयं स्पष्टी कुरुत - 
(क) जीविताएं ................जीवितेन वा। 
(ख) वयं भवतो............. मनुसरिष्यामः॥
उत्तरम् : 
(क) जीविता............जीवितेन वा। 
आशय - जो व्यक्ति अपने जीवन के लिए या प्राणों की रक्षा के लिए अपने कुल को त्यागकर बहुत दूर चला जाये, दूसरे लोक को गये हुये की तरह उसके जीवित रहने से क्या लाभ? अर्थात् उसका जीवित रहना, न जीवित रहना बराबर है।

(ख) वयं भवतो .............. मनुसरिष्यामः॥ 
आशय - महाराज हम्मीर सिंह के यह कहने पर मैं यवनराज के साथ युद्ध करूँगा और तुम किले से बाहर चले जाना। सैनिकों ने कहा - महाराज! हम आपकी जीविका का उपभोग करने वाले हैं, कैसे इस समय आप जैसे स्वामी को छोड़कर कायर पुरुषों के मार्ग का अनुसरण करेंगे अर्थात् ऐसा हम कदापि नहीं करेंगे। 

प्रश्न: 4. 
प्रकृति प्रत्यय विभागः क्रियताम् ज्ञात्वा, दृष्ट्वा, हत्वा, परित्यज्य, पुरस्कृत्य, अलङ्कृत्य घातयन्, पलायमानः। 
उत्तरम् :
प्रकृतिः - प्रत्ययः 

  • ज्ञात्वा = ज्ञा + क्त्वा 
  • दृष्ट्वा = दृश् + क्त्वा 
  • हत्वा = हन् + क्त्वा 
  • परित्यज्य = परि + त्यज् + क्त्वा ल्यप्। 
  • पुरस्कृत्य = पुरः + कृ + क्त्वा ल्यप्। 
  • अलङ्कृत्य = अलम् + कृ + क्त्वा ल्यप्। 
  • घातयन् = हन् + णिच् + शत, पुं. प्रथमा एकवचन 
  • पलायमानः = पलाय् + शानच् पु. प्रथमा एकवचन 

प्रश्न: 5.
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत। 
उत्तरम् : 

  • विद् + क्त्वा = विदित्वा 
  • परा + मृश् + ल्यप् = परामृश्य
  • निर् + सृ + ल्यप् = निःसृत्य 
  • पत् + णिच् + शतृ = पातयन् 
  • कृ + शानच् = कुर्वाणः .
  • रक्ष् + तुमुन् = रक्षितुम् 

प्रश्नः 6. 
अधोलिखित शब्दान् आश्रित्य वाक्यरचनां कुरुत 
कुपित्वा, परामृश्य, अलङ्कृत्य, नर्तयन्, कुर्वाणः, गन्तव्यम्, पलायमानः, रक्षितुम्, लब्धवान् ।
उत्तरम् : 

  1. कुपित्वा - सः कुपित्वा युद्धाय तत्परो अभवत् ।
  2. परामृश्य - स्वमित्रेण सह परामृश्य स: ग्रामं गतवान् । 
  3. अलङ्कृत्य - रमा पुष्पैः धरित्रीम् अलंकृत्य अति प्रसन्ना जाता। 
  4. नर्तयन् - हम्मीरदेवः समराङ्गणे कबन्धान् नर्तयन् प्राणान् त त्याज। 
  5. कुर्वाण: - कार्यं कुर्वाणः सः सुप्तः।
  6. गन्तव्यम् - तत्र त्वया न गन्तव्यम्। 
  7. पलायमानः - सिंह दृष्ट्वा पलायमानः सः न जाने कुत्र गतः। 
  8. रक्षितुम् - यदि मां रक्षितुं शक्नोषि तर्हि वचनं देहि । 
  9. लब्धवान् - यवनराजः युद्धे जयं न लब्धवान्। 

प्रश्नः 7. 
सन्धि विच्छेदः क्रियताम्।
उत्तरम् :  

  • सामर्षः - स + अमर्षः। 
  • भग्नोद्यमम् - भग्न + उद्यमम्। 
  • ममैकस्य - मम + एकस्य। 
  • यमोऽपि - यमः + अपि। 
  • गतस्येव - गतस्य + इव 
  • मयैव - मया + एव 
  • तुरगारूढः - तुरग + आरूढः 
  • इहैव - इह + एव 
  • चूर्णावशेषम् - चूर्ण + अवशेषम् 

प्रश्नः 8. 
अधोलिखिताव्ययपदान्याधृत्य संस्कृते वाक्यरचनां कुरुत - 
तत्र, यतः, इह, तदा, ततः, च, यदि, श्वः, परश्वः।
उत्तरम् : 
तत्र-त्वं तत्र गच्छ। यतः-अहम् अद्य विद्यालयं न गमिष्यामि, यतः मम गृहे आवश्यक कार्यमस्ति। इह-इह एव जीवनं मरणं च। तदा-यदा सूर्यं उदेति तदा पुष्पाणि विकसन्ति। ततः-ततः प्रभाते युद्धं प्रारब्धम्। च-रामः मोहनश्च तत्र गतवन्तौ। यदि-यदि मां रक्षितुं शक्नोषि तर्हि विश्वासं देहि। श्वः-अहं श्वः जयपुरं गमिष्यामि। परश्वः-परश्वः विद्यालये अवकाशः वर्तते।

संस्कृतभाषया उत्तरम् दीयताम् - 

प्रश्न: 1. 
'दयावीर कथा' पाठ कस्मात् ग्रन्थात् संकलितः? 
उत्तरम् : 
'दयावीर कथा' पाठः 'पुरुषपरीक्षा' नाम्नः कथाग्रन्थात् संकलितः।

प्रश्नः 2. 
विद्यापतेः लोकविश्रुत रचना का अस्ति? 
उत्तरम् : 
विद्यापतेः लोकविश्रुत रचना 'विद्यापति - पदावली' अस्ति। 

प्रश्न: 3.
'दयावीर कथायां' कः दयावीररूपे चित्रितः? 
उत्तरम् : 
'दयावीर कथायां' नृप हम्मीरदेवः दयावीररूपे चित्रितः। 

प्रश्न: 4. 
अलावदीनस्य सेनानी कः आसीत्? 
उत्तरम् : 
अलावदीनस्य सेनानी महिमासाही आसीत्। 

प्रश्न: 5. 
कीदृशः राजा विश्वसनीयो न भवति?
उत्तरम् : 
सामर्षो राजा विश्वसनीयोः न भवति। 

प्रश्न: 6. 
कीदृशः पुरुषः श्रेष्ठः? 
उत्तरम् : 
सर्वजन्तूपकारकः दयालुः पुरुषः श्रेष्ठः। 

प्रश्नः 7. 
पलायमानः महिमासाही किं अचिन्तयत? 
उत्तरम् :
पलायमानः महिमासाही अचिन्तयत् यत् सपरिवारस्य दूरगमनमशक्यम्, परिवारं परित्यज्य पलायनमपि नोचितम्। 

प्रश्नः 8. 
हम्मीरदेवमुपगम्य महिमासाही किं उक्तवान्? 
उत्तरम् :
हम्मीरदेवमुपगम्य महिमासाही उवाच-"देव विनापराधं हन्तुमुद्यतस्य स्वामिनस्त्रासेनाहं तव शरणमागतोऽस्मि। यदि मां रक्षितुं शक्नोषि तदा विश्वासं देहि।"
 
प्रश्नः 9. 
राज्ञः वचनेन यवनसचिवः कुत्र उवास?
उत्तरम् :
राज्ञः वचनेन यवनसचिवः रणस्तम्भनाम्नि दुर्गे निःशङ्कमुवास। 

प्रश्नः 10. 
यदा हम्मीरदेवः 'निर्भयस्थानं त्वां प्रापयामि' इत्यकथयत् तदा यवनः किमुवाच? 
उत्तरम् : 
यवनः उवाच-'राजन् ! मैवं ब्रूहि । सर्वप्रथमं ममैव विपक्षशिरसि खङ्गप्रहारः कर्तव्यः।' 

प्रश्न: 11. 
नृपः हम्मीरदेवः कस्य प्राणापणेन रक्षां अकरोत्? 
उत्तरम् : 
नृपः हम्मीरदेव: यवनसेनापते: महिमासाहिम्नः प्राणापणेन रक्षां अकरोत्। 

प्रश्न: 12. 
प्रथमयुद्धान्तरं केन हम्मीरदेवं प्रति दूतः प्रेषितः? 
उत्तरम् : 
प्रथमयुद्धान्तरं यवनराजेन हम्मीरदेवं प्रति दूतः प्रेषितः।

सन्ततिप्रबोधनम्

 सन्ततिप्रबोधनम्

       प्रस्तुत पाठ महर्षि अरविन्द द्वारा संस्कृत में प्रणीत खण्डकाव्य 'भवानी भारती' से संकलित किया गया है। जीवन के प्रारम्भिक चरण में अरविन्द घोष महान क्रान्तिकारी तथा राष्ट्रभक्त के रूप में उभरे। वह सशस्त्र क्रान्ति के समर्थक थे। ब्रिटिश सरकार ने उन्हें अलीपुर बम केस का अपराधी मानकर 1906 ई. में अलीपुर कारागार में बन्दी बना दिया।
       कारावास की इसी अवधि में एक रात स्वप्न में बन्दिनी भारतमाता का दर्शन कर, भावाविष्ट मनोदशा में कवि ने इस ओजस्वी तथा राष्ट्रीय भावना से ओत-प्रोत शतककाव्य का प्रणयन किया। इस रचना में महाकवि अरविन्द ने भारतमाता को महाकाली, महालक्ष्मी एवं महासरस्वती के रूप में निरूपित किया है।
      जीवन के उत्तरार्ध में महर्षि अरविन्द वेदों के व्याख्याता, महायोगी, महाकवि, परमराष्ट्रभक्त एवं महादार्शनिक के रूप में विश्वमञ्च पर प्रतिष्ठित हुए।
      प्रस्तुत पाठ में भारतजननी परतन्त्रता एवं अज्ञानरूपी अन्धकार के बन्धनों में जकड़ी, अवमानना ग्रस्त अपनी सन्ततियों को उनके स्वर्णिम इतिहास का स्मरण कराते हुए, उन्हें प्रेरित करती है कि वे अपनी निद्रा का त्याग करें तथा अपने पराक्रम से राष्ट्र को पराधीनता के बन्धन से मुक्त कराएँ ।
      सान्द्रं तमिस्रावृतमार्तमन्धं विलोक्य तद्भारतमार्यखण्डम् ॥ 
      गूढा रजन्यामरिभिर्विनष्टा माता भृशं क्रन्दति भारतानाम्॥1॥
      सनातनान्याद्द्वय भारतानां कुलानि युद्धाय,जयोऽस्तु नो भीः । 
      भो जागृतास्मि क्व धनुः क्व खड्गः उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः॥2॥
      माताऽस्मि भो ! पुत्रक! भारतानां सनातनानां त्रिदशप्रियाणाम् ।
      शक्तो न यान्पुत्र विधिर्विपक्षः कालोऽपि नो नाशयितुं यमो वा॥३ 
      ते ब्रह्मचर्येण विशुद्धवीर्याः ज्ञानेन ते भीमतपोभिरार्याः । 
      सहस्रसूर्या इव भासुरास्ते समृद्धिमत्यां शुशुभुर्धरित्र्याम्॥4॥
      उत्तिष्ठ भो जागृहि सर्जयाग्नीन् साक्षाद्धि तेजोऽसि परस्य शौरेः।
       वक्षः    स्थितेनैव   सनातनेन   शत्रून्हुताशेन  दहन्नटस्व ॥5॥
       अस्त्येव लोहं निशितश्च खड्गः क्रूरा शतघ्नी नदतीह मत्ता । 
    कथं निरस्त्रोऽसि, मृतोऽसि शेषे रक्ष स्वजातिं परहा भवाऽऽर्यः ॥6॥
       भो भो अवन्त्यो मगधाश्च बङ्गा अङ्गाः कलिङ्गाः कुरुसिन्धवश्च ।
         भो दाक्षिणात्याः शृणुतान्ध्रचोलाः शृण्वन्तु ये पञ्चनदेषु शूराः ॥7॥
                ये केचिदर्चन्ति ननु त्रिमूर्तिं ये चैकमूर्तिं यवना मदीयाः । 
माताऽऽह्वये वस्तनयान्हि सर्वान् निद्रां विमुञ्चध्वमये शृणुध्वम्॥8॥
पाठ के श्लोकों का अर्थ-
सान्द्रं तमिस्रावृतमार्तमन्धं विलोक्य तद्भारतमार्यखण्डम् ॥ 
गूढा रजन्यामरिभिर्विनष्टा माता भृशं क्रन्दति भारतानाम्॥1॥
रात्रि के समय छिपी हुई, शत्रुओं से विनष्ट भारत माता गहन अन्धकार से ढके हुये, दुःखी अन्धे से हुये आर्यखण्ड 
उस भारत को देखकर अत्यधिक विलाप कर रही है। 

रजन्याम्रात्रि के समय 
गूढाछिपी हुई, 
अरिभिःशत्रुओं से 
विनष्टाविनष्ट
 भारतानांभारतीयों की 
मातामाता  
सान्द्रम्गहन  
तमिस्राअन्धकार से 
आवृतम्ढके हुये 
आर्तम्दुःखी 
अन्धम् अन्धे से हुये
आर्यखण्डम्आर्यखण्ड 
तत् भारतम्उस भारत को 
विलोक्यदेखकर 
भृशंअत्यधिक
क्रन्दतिविलाप कर रही है।

सनातनान्याद्द्वय भारतानां कुलानि युद्धाय,जयोऽस्तु नो भीः । 

भो जागृतास्मि क्व धनुः क्व खड्गः उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः॥2॥  

हे सोये हुये सिंहों ! युद्ध करने के लिए उठो, उठो। मैं जाग गई हूँ। तलवार कहाँ है? भारत के  सनातन कुलों को 
बलाओ,वे कहाँ है? भयभीत मत होओ , तुम्हारी विजय हो।

भो सुप्तसिंहाःहे सोये हुये सिंहों ! 
युद्धाययुद्ध करने के लिए  
उतिष्ठतउठो, 
उतिष्ठतउठो। मैं
 (अहं)मैं 
जागृता अस्मि,जाग गई हूँ। 
 क्व खड्गःतलवार कहाँ है?  
भारतानांभारत के 
संतनानिसनातन 
कुलानिकुलों को 
आह्वय,बुलाओ 
(ते) क्ववे कहाँ है? 
भोः  (अस्तु),भयभीत मत होओ
नो जयः अस्तुतुम्हारी विजय हो  

माताऽस्मि भो ! पुत्रक! भारतानां 

सनातनानां त्रिदशप्रियाणाम् । 

शक्तो न यान्पुत्र विधिर्विपक्ष: 

कालोऽपि नो नाशयितुं यमो वा ॥ 3 ॥

हे पुत्र! मैं सनातन, देवताओं के प्रिय भारतवासियों की माता हूँ। पुत्र ! जिन भारतीयों को शत्रु पक्ष का शासन नष्ट 

करने में समर्थ नहीं है, उन्हें काल अथवा यम भी विनष्ट करने में समर्थ नहीं है।

ते ब्रह्मचर्येण विशुद्धवीर्याः 

ज्ञानेन ते भीमतपोभिरार्याः । 

सहस्रसूर्या इव भासुरास्ते 

समृद्धिमत्यां शुशुभुर्धरित्र्याम्॥4॥

वे (भारतीय) ब्रह्मचर्य से, ज्ञान से,अत्यधिक परिश्रम से,अत्यधिक पराक्रम वाले श्रेष्ठ दीप्तिमान हजारों सूर्यों की 

भाँति समृद्धिशाली इस पृथ्वी पर सुशोभित हुये। 

उत्तिष्ठ भो जागृहि सर्जयाग्नीन् 

साक्षाद्धि तेजोऽसि परस्य शौरेः। 

वक्षः स्थितेनैव सनातनेन 

शत्रून्हुताशेन दहन्नटस्व॥5॥

हे भारतीयो ! उठो, जागो, अग्नि को पैदा करो क्योंकि तुम शत्रु संहारक कृष्ण के साक्षात् तेज हो। वक्षस्थल पर 

स्थित ही सनातन अग्नि के द्वारा शत्रुओं को जलाते हुये उन्हें नष्ट करो। उन्हें यहाँ से भगा दो।

अस्त्येव लोहं निशितश्च खड्गः 

क्रूरा शतघ्नी नदतीह मत्ता । 

कथं निरस्त्रोऽसि, मृतोऽसि शेषे 

रक्ष स्वजातिं परहा भवाऽऽर्यः ॥6॥

तुम्हारे लोहे से बने हुये अस्त्र हैं, पैनी की गई तलवार है (साथ ही) यहाँ भयंकर मतवाली तोप बोल रही है (तोप 

गरज रही है)। (तुम) कैसे शस्त्रहीन हो? मरे हुये के तुल्य हो, सो रहे हो। अपनी जाति की रक्षा करो तथा शत्रुओं 

को मारने वाले आर्य श्रेष्ठ बनो। 

भो भो अवन्त्यो मगधाश्च बङ्गा 

अङ्गाः कलिङ्गाः कुरुसिन्धवश्च ।

 भो दाक्षिणात्याः शृणुतान्ध्रचोलाः

 शृण्वन्तु ये पञ्चनदेषु शूराः ॥ 7 ॥

अरे! अरे! अवन्ति प्रदेश में रहने वालो! तथा मगधवासियो! बंगप्रदेश-वासियो! अंग प्रदेश में रहने वालो ! कलिंग 

तथा सिन्धु प्रदेशवासियो! हे दक्षिण प्रदेश में रहने वालो! आन्ध्र तथा चोल प्रदेशवासियो! तुम सब सुनो।(साथ ही) जो 

पंचनद (पंजाब) प्रदेश में रहने वाले वीर हैं, (वे भी) सुनें।

ये केचिदर्चन्ति ननु त्रिमूर्तिं. 

ये चैकमूर्तिं यवना मदीयाः । 

माताऽऽह्वये वस्तनयान्हि सर्वान् 

निद्रां विमुञ्चध्वमये शृणुध्वम्॥8॥

जो कोई त्रिदेवों(ब्रह्मा,विष्णु,महेश) की मूर्ति को पूजते हैं।निश्चय से जो मेरे यवन,एक निराकार परमेश्वर की 

अर्चना करते हैं,निश्चय ही सम्पूर्ण पुत्रों को मैं तुम्हारी भारत माता बुला रही हूँ,तुम्हारा आह्वान कर रही हूँ। तुम सब 

सुनो तथा निद्रा का त्याग करो। खड़े हो जाओ,अब सोने का समय नहीं है। 

प्रश्न: 1. 
संस्कतेन उत्तरम दीयताम -
(क) भारतानां माता कं विलोक्य भृशं क्रन्दति? 
उत्तरम् : 
भारतानां माता सान्द्रम् तमिस्रा आवृतम् आर्तम् अन्धम् आर्यखण्डम् भारतम् विलोक्य भृशं क्रन्दति। 

(ख) रजन्यां गूढा माता कैः विनष्टा? 
उत्तरम् : 
रजन्यां गूढा माता अरिभिः विनष्टा। 

(ग) के उत्तिष्ठन्तु? 
उत्तरम् : 
सुप्तसिंहाः उत्तिष्ठन्तु। 

(घ) पुत्रक! केषां भारतानां माता अस्मि? 
उत्तरम् : 
पुत्र ! सनातनानां भारतानां माता अस्मि।

(ङ) कः भारतपुत्रान् नाशयितुं शक्तः ? 
उत्तरम् : 
विपक्षः भारतपुत्रान् नाशयितुं शक्तः न। 

(च) ते (शूराः) केन विशुद्धवीर्याः आसन्? 
उत्तरम् : 
ते (शूराः) ! ब्रह्मचर्येण विशुद्ध वीर्याः आसन्। 

(छ) त्वं परस्य शौरेः किम् असि? 
उत्तरम् :  
त्वं परस्य शौरेः तेजोऽसि। 

(ज) कविना कुत्रत्याः कुत्रत्याः शूराः आहूयन्ते? 
उत्तरम् : 
कविना अवन्त्यः, मगधाः, बङ्गाः, अङ्गा, कलिङ्गाः, कुरुः, सिन्धवः दाक्षिणात्याः, आन्ध्रचोलाः पञ्जाब च शूराः आह्वयन्ते। 

(झ) मदीया यवनाः कम् अर्चयन्ति अहं,? 
उत्तरम् : 
मदीयाः यवनाः एकमूर्तिम् अर्चयन्ति। 

(ञ) सर्वान् तनयान् का आह्वयति ? 
उत्तरम् : 
सर्वान् तनयान् माता आह्वयति। 

प्रश्न: 2. 
हिन्दी भाषया आशयं लिखत -
(क) गूढा रजन्यामरिभिर्विनष्टा माता भृशं क्रन्दति भारतानाम्। 
उत्तर :
आशय-पराधीनता की रात्रि में छिपी हुई तथा शत्रुओं द्वारा पीड़ित भारतमाता अज्ञान-अन्धकार से आच्छादित एवं अन्धे भारतवर्ष को देखकर अत्यधिक विलाप कर रही है। 

(ख) भो जागृतास्मि क्व धनुः क्व खड्गः उत्तिष्ठतोतिष्ठत सुप्तसिंहाः। 
उत्तर :
आशय-भारतमाता महाकाली के रूप में सोये हुये भारतवासियों को जगाते हुये कहती है - अरे सोते हुये, मैं जाग गई हूँ। तुम्हारे पुराने हथियार धनुष व तलवार कहाँ हैं? उन्हें लेकर उठो तथा शत्रुओं को मारकर अपने देश की रक्षा करो। 

(ग) ते .......... आर्याः जाताः। 
(तपस्, तृतीया विभक्ति, बहुवचन) 
उत्तरम् : 
ते तपोभिः आर्याः जाताः।।

(घ) माता .......... पुत्रान् आह्वयति। 
(सर्व, द्वितीया विभक्ति, बहुवचन) 
उत्तरम् : 
माता सर्वान् पुत्रान् आह्वयति। 

(ङ) शूरा:............वसन्ति। 
(पञ्चनद, सप्तमी विभक्ति, बहुवचन) 
उत्तरम् : 
शूराः पञ्चनदेषु वसन्ति। 

प्रश्नः 7. 
अधोलिखितेषु यथास्थानं सन्धिं सन्धिविच्छेदं वा कुरुत् - 
(क) सनातनानि + आह्वय = .....................
(ख) जयोऽस्तु = ............... + ..................
(ग) भासुराः + ते = .....................
(घ) शुशुभुर्धरित्र्याम् = ................... + ..................
(ङ) जागृतास्मि = .................... + .......................
(च) स्थितेन + एव = .................
(छ) अस्ति + एव = ...................
उत्तरम् : 
(क) सनातनान्याह्वय। 
(ख) जयः + अस्तु।
(ग) भासुरास्ते। 
(घ) शुशुभुः + धरित्र्याम्। 
(ङ) जागृता + अस्मि। 
(च) स्थितेनैव। 
(छ) अस्त्ये व। 

प्रश्नः 8. 
अधोलिखितस्य श्लोकस्य अन्वयं कुरुत - 
सनातनान्याह्वय ................ सुप्तसिंहाः। 
उत्तरम् : 
श्लोक संख्या 2 का अन्वय देखें। 

प्रश्नः 9. 
अधोलिखितेषु अलङ्कारं निर्दिशत - 
(क) सहस्रसूर्या इव भासुरास्ते 
समृद्धिमत्यां शुशुभुर्धरित्र्याम्। 
(ख) भो भो अवन्त्यो मगधाश्च बङ्गाः 
अङ्गाः कलिङ्गाः कुरुसिन्धवश्य ॥ 
उत्तरम् : 
(क) उपमा अलंकारः। 
(ख) अनुप्रासः अलंकारः।

प्रश्न 10. 
अधोलिखिते श्लोके प्रयुक्तस्य छन्दसः नाम लिखत ते ब्रह्मचर्येण विशद्धवीर्याः ज्ञानेन ते भीम तपोभिरार्याः। सहस्रसूर्या इव भासुरास्ते समृद्धिमत्यां शुशुभुर्धरित्र्याम् ॥ 
उत्तरम् : 
अस्मिन् श्लोके उपजाति छन्दः अस्ति।

संस्कृतभाषया उत्तरम् दीयताम् - 
 
प्रश्न: 1. 
'सन्ततिप्रबोधनम्' पाठः कुत्रतः संकलितः? 
उत्तरम् : 
'सन्ततिप्रबोधनम्' पाठः भवानी भारती' खण्डकाव्यात् संकलितः।

प्रश्न: 2. 
'भवानी भारती' खण्डकाव्यस्य कः रचयिता? 
उत्तरम :
'भवानी भारती' खण्डकाव्यस्य रचयिता महर्षि अरविन्दः अस्ति।

प्रश्न: 3. 
जीवनस्य प्रारंभिकचरणे अरविन्दघोषः कीदृशः आसीत्? 
उत्तरम् : 
जीवनस्य प्रारंभिकचरणे अरविन्दघोषः महान् क्रान्तिकारी राष्ट्रभक्तश्च आसीत्। 

प्रश्न: 4. 
का भ्रशं क्रन्दति? 
उत्तरम् : 
भारतानां माता भ्रशं क्रन्दति।

प्रश्न: 5.
ते किमिव भासुराः?
उत्तरम् : 
ते सहस्रसूर्या इव भासुराः। 

प्रश्नः 6. 
त्रिमूर्ति के अर्चयन्ति? 
उत्तरम् : 
त्रिमूर्तिं हिन्दवः अर्चयन्ति। 

प्रश्नः 7. 
भारतमाता कान् आह्वयति? 
उत्तरम् : 
भारतमाता सर्वान् तनयान् आह्वयति। 

प्रश्नः 8. 
अस्मिन् पाठे सुप्तसिंहाः के उक्ता:? 
उत्तरम् : 
अस्मिन् पाठे भारतीयाः सुप्तसिंहाः उक्ताः। 

प्रश्नः 9. 
ब्रह्मचर्येण विशुद्धवीर्याः के सन्ति? 
उत्तरम :
ब्रह्मचर्येण विशुद्धवीर्याः भारतीयाः सन्ति। 

प्रश्न: 10.
क्रूरा शतघ्नी कुत्र नदति? 
उत्तरम् : 
क्रूरा शतघ्नी इह (भारतवर्षे) नदति। 

प्रश्न: 11. 
वक्षः स्थितेन सनातनेन हुताशेन कान् दहन् नटस्व?
उत्तरम् : 
वक्षः स्थितेन सनातनेन हुताशेन शत्रून् दहन् नटस्व।

प्रश्न: 12. 
सान्द्र, तमिस्रावृत्तम्, आर्तम्, अन्धं - एतानि विशेषणानि कस्य सन्ति? 
उत्तरम् : 
सान्द्रं, तमिस्रावृत्तम्, आर्तम्, अन्यं - एतानिविशेषणानि भारतमार्य खण्डस्य सन्ति।

श्लोकों का अन्वय, सप्रसङ्ग हिन्दी-अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या - 

1. सान्द्रं तमिस्त्रावृतः ............................................. भारतानाम्॥1॥ 

अन्वयः - रजन्याम् गूढा अरिभिः विनष्टा भारतानाम् माता सान्द्रम् तमित्रा आवृतम् आर्तम् अन्धम् आर्यखण्डम् तत् भारतम विलोक्य भशं क्रन्दति ॥ 

कठिन-शब्दार्थ : 

  • रजन्याम् = रात्रि में। 
  • गूढा = डूबी हुयी। 
  • अरिभिः = शत्रुओं से।
  • सान्द्रम् = सघन। 
  • तमिस्रा = अन्धकार से, 
  • आवृतम् = ढका हुआ। 
  • आर्तम् = दुःखी, पीड़ित। 
  • विलोक्य = देखकर। 
  • भृशं = बहुत अधिक। 
  • क्रन्दति = रोती है, विलाप करती है। 

हिन्दी अनुवाद/व्याख्या - रात्रि के समय छिपी हुई, शत्रुओं से विनष्ट भारत माता गहन अन्धकार से ढके हुये, दुःखी अन्धे से हुये आर्यखण्ड उस भारत को देखकर अत्यधिक विलाप कर रही है। 

विशेष - यहाँ भारत देश की परतन्त्रता काल का दुर्दशा का यथार्थ चित्रण किया गया है। 

सप्रसङ्ग संस्कृत-व्याख्या - 

प्रसङ्गः - अयं पद्यांश: अस्माकं पाठ्यपुस्तक 'शाश्वती' प्रथम भागस्य 'सन्तति प्रबोधनम्' पाठात् अवतरितः। मूलतः अयं पाठः महर्षि अरविन्द प्रणीत 'भवानीभारती' खण्डकाव्यात् संकलितः। अस्मिन् पद्ये भारतजनन्याः वर्णनं कृतम् 

संस्कृत-व्याख्या - सान्द्रं = अन्द्रेण, सह = सघनमित्यर्थः, तमिस्त्रावृतम् = तिमिरावृतम् आर्तम् = पीडितं, अन्धं = अन्धकारयुक्तं, तत् भारतमार्यखण्डम् = भारत नाम्नः आर्यखण्डम्, विलोक्य = दृष्ट्वा, गूढा = निक्षिप्ता, रजन्याम् = रात्रौ, अरिभिः = शत्रुभिः, विनष्टा = विनाशं प्राप्ता, भारतनाम् = भारतीयानाम्, माता = भारत-माता इत्यर्थः भ्रशं = अत्यधिकं, क्रन्दति = विलपति, क्रन्दनं करोति।

विशेषः - 

  1. भारतमाता स्वदेशवासिनां दयनीयां स्थितिं दृष्ट्वा भ्रशं क्रन्दति-इत्यत्र प्रतिपादितम्। 
  2. अस्मिन् पद्ये उपजातिवृत्तं वर्तते। 
  3. व्याकरण-विलोक्य-वि + लोक् + ल्यप्। विनष्टा-वि + नश् + क्त + टाप्। गूढा-गुह् + क्त + टाप्। अरिभिर्विनष्टा-अरिभिः + विनष्टा (विसर्ग सन्धि)। तमिस्रावृत्तम्-तमिनेण- आवृतम् (तृतीया तत्पु.)। सान्द्रम्-सह अन्द्रेण। 

2. सनातनान्याहवय .................................................. सुप्तसिंहाः॥2॥ 

अन्वयः - भो सुप्तसिंहाः! युद्धाय उत्तिष्ठत उत्तिष्ठत। (अहं) जागृता अस्मि, धनुः क्व, खङ्गः क्व, भारतानां सनातनानि कुलानि आह्वय, भी: नो (अस्तु), जयः अस्तु॥ 

कठिन-शब्दार्थ : 

  • सुप्तसिंहा = सोये हुये शेरों। 
  • उत्तिष्ठत = उठो। 
  • जागृता अस्मि = (मैं) जाग गई हूँ। 
  • खङ्गः = तलवार। 
  • सनातनानि = पुरातन, पुराने। 
  • आह्वय = बुलाओ।
  • भीः = भय, डर।

प्रसंग - यह श्लोक 'सन्तति प्रबोधनम्' शीर्षक पाठ से लिया गया है। यहाँ भारत माता को महाकाली के रूप में चित्रित किया गया है। उसके माध्यम से सोये हुये भारतीयों को जागृत करने की प्रेरणा दी गई है - 

हिन्दी अनुवाद/व्याख्या - अरे सोये हुये शेरो! युद्ध करने के लिए उठो, उठो। मैं जाग गई हूँ। धनुष कहाँ है? तलवार के सनातन कलों को बलाओ, उनका आहवान करो। भयभीत मत हो (डरो मत), तुम्हारी विजय हो। विशेष - यहाँ शत्रुओं से भयभीत न होकर पराक्रमपूर्वक उनका मुकाबला करने हेतु भारत के लोगों का आह्वान किया गया है। 

सप्रसङ्ग संस्कृत-व्याख्या - 

प्रसङ्ग - अयं पद्यः अस्माकं पाठ्यपुस्तकस्य 'सन्तति प्रबोधनम्' इति पाठात् उद्धृतः। मूलतः अयं पाठः महर्षि अरविन्द विरचितात् 'भवानी भारती' इति खण्डकाव्यात् संकलितः। अस्मिन् पद्ये भारतमाता स्वकीयान् वीर पुत्रान् युद्धाय आह्वानं करोति सनातनकुलानि च आमन्त्रयति 

संस्कृत-व्याख्या - भो सुप्तसिंहाः = रे शयिताः केसरिणः। युद्धाय = समराय, उतिष्ठत उतिष्ठत् = उत्थानं कुरुत, उत्थानं कुरुत, (अहं = भारत माता) जागृता = त्यक्तनिन्द्रा अस्मि, धनु : वच = तव शरासनः कुत्र वर्तते? खङ्गः क्व = असि कुत्रास्ति? भारतानां = भारतीयानां, सनातनानि = पुरातनानि, कुलानि = वंशानि, आहवय = आकारथ, आमन्त्रय। भी: = भयः, नो = न, अस्तु = भवतु। जयः = विजयः, अस्तु = भवतु। 

विशेषः - 

  1. अस्मिन् पद्ये उपजातिवृत्तः। 
  2. व्याकरणम्-सुप्तसिंहाः-सुप्तः च असौ सिंहः सुप्तसिंहः ते सुप्तसिंहाः (कर्मधारय)। जागृतास्मि-जागृता + अस्मि (दीर्घ सन्धि)। सनातना न्याह्वय-सनातनानि + आह्वय (यण् सन्धि)। जयोऽस्तु-जयः अस्तु (पूर्वरूप)। 

3. माताऽस्मि भो! ..................................................नाशयितुं यमो वा॥3॥ 

अन्वयः - भोः पुत्रक! (अहं) सनातनानां त्रिदशप्रियाणाम् भारतानाम् माता अस्मि, पुत्र! यान् विपक्षः विधिः नाशयितुं न शक्तः, कालः यमः वा अपि नो (नाशयितुं शक्तः)॥ 

कठिन-शब्दार्थ : 

  • त्रिदशप्रियाणाम् = देवताओं के प्रियों का। 
  • विधिः = शासन। 
  • नाशयितुम् = नष्ट करने के लिए। 
  • शक्तः = समर्थ। 

प्रसंग - प्रस्तुत श्लोक 'सन्तति प्रबोधनम्' शीर्षक पाठ से अवतरित है। इस श्लोक में महाकाली के रूप में भारत माता कहती है कि भारतीयों को कोई भी नहीं मार सकता है 

हिन्दी अनुवाद/व्याख्या - हे पुत्र! मैं सनातन, देवताओं के प्रिय भारतवासियों की माता हूँ। पुत्र ! जिन भारतीयों को शत्रु पक्ष का शासन नष्ट करने में समर्थ नहीं है, उन्हें काल अथवा यम भी विनष्ट करने में समर्थ नहीं है। 

विशेष - यहाँ भारतीयों को देवताओं का प्रिय बतलाते हुए उनके बल एवं पराक्रम को प्रकट किया गया है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - अयं पद्यांशः अस्माकं पाठ्यपुस्तक 'शाश्वती' प्रथम भागस्य 'सन्तति प्रबोधनम्' पाठात् अवतरितः। मूलतः अयं पाठः महर्षि अरविन्द प्रणीत 'भवानी भारती' खण्डकाव्यात् संकलितः। अस्मिन् श्लोके महाकाली रूपे भारतमाता कथयति यत् भारतीयान् कोऽपि हन्तुं न शक्नोति - 

संस्कृत-व्याख्या - भो पुत्रक! = हे पुत्र ! (अहं) सनातनानाम् = शाश्वतानाम् सनातन धर्मानुयायिनाम् वा, त्रिदशप्रियाणाम् = देव-प्रियाणाम्, भारतानाम् = भारतीयानाम्, माताऽस्मि = जननी अस्मि। पुत्र! = हे तात! यान् = भारतीयान्, विपक्षः विधिः = शत्रो: शासनम्, नाशयितुं = विनाशयितुं न शक्तः = न समर्थः (तान् भारतीयान्) कालः = यमः, भयः = भीतिः, अपि नाशयितुं समर्थो नास्ति। 

विशेषः - 

  1. भारतमातुः कथनमस्ति यत् तस्याः पुत्राः अजेयाः सन्ति। तान् कोऽपि नाशयितु समर्थो नास्ति। 
  2. अत्र उपजाति छन्दः वर्तते। 

4. ते ब्रह्मचर्येण ........................................................ शुशुभुर्धरित्र्याम्॥4॥ 

अन्वयः - ते ब्रह्मचर्येण, ते ज्ञानेन भीमतपोभिः विशुद्धवीर्या : आर्या : ते भासुराः सहस्रसूर्याः इव समृद्धिमत्यां धरित्र्याम् शुशुभुः॥ 

कठिन-शब्दार्थ : 

  • भीमतपोभिः = अत्यधिक परिश्रमों से। 
  • विशुद्धवीर्याः = अत्यधिक पराक्रम वाले। 
  • भासुराः = दीप्तिमान। 
  • सहस्त्रसर्याः = हजारों सर्यों की तरह। 
  • धरित्र्याम = पृथ्वी पर। 
  • शशभः = सुशं भित हये। 

प्रसंग - प्रस्तुत श्लोक 'सन्तति प्रबोधनम्' शीर्षक पाठ से अवतरित है। मूलतः यह पाठ महर्षि अरविन्द कृत 'भवानी भारती' खण्डकाव्य से संकलित किया गया है। इस श्लोक में आर्यों की दीप्तिमत्ता का चित्रण किया गया है 

हिन्दी अनुवाद/व्याख्या - वे (भारतीय) ब्रह्मचर्य से, ज्ञान से, अत्यधिक परिश्रम से, अत्यधिक पराक्रम वाले श्रेष्ठ दीप्तिमान हजारों सूर्यों की भाँति समृद्धिशाली इस पृथ्वी पर सुशोभित हुये। 

विशेष - यहाँ भारतीय लोगों के वैशिष्ट्य को दर्शाया गया है। 

सप्रसङ्ग संस्कृत-व्याख्या - 

प्रसङ्गः - अयं श्लोकः 'सन्ततिप्रबोधनम्' शीर्षक पाठात् अवतरितः। मूलतः अयं पाठः महर्षि अरविन्द विरचित 'भवानी भारती' खण्डकाव्यात् संकलितः। अस्मिन् श्लोके आर्याणाम् दीप्तिमत्तायाः चित्रणं कृतम् 

संस्कृत-व्याख्या - ते = भारतीयाः, ब्रह्मचर्येण = ब्रह्मचर्यव्रतेन, ज्ञानेन = स्वकीय ज्ञानेन, भीमतपोभिः = अतिपरिश्रमेण, विशुद्धवीर्याः = परिष्कृत पराक्रमाः, आर्याः = श्रेष्ठाः ते, भासुराः = भासमानाः = सहस्रसूर्या इव = सहस्रभानवः यथा, समृद्धिमत्यां = समृद्धिशालिन्यां, धरित्र्याम् = पृथिव्याम्, शुशुभुः = शोभायमानाः जाताः। 

विशेषः - 

  1. सहस्त्रसूर्या इव-अत्रोपमाऽलंकारः।
  2. छन्द उपजातिः।  
  3. व्याकरणम् -विशुद्धवीर्या :-विशुद्धं वीर्यं येषां ते (ब. व्री.)। भीमतपोभिः-भीमैः तपोभिः (तृतीया तत्पु.)। समृद्धिः- सम् + ऋध् + क्तिन्। भासुराः-भास् + घुरच् प्रत्यय। समृद्धिमत्याम-समृद्धि + मतुप् + ङीप् सप्तमी ए. व.। शुशुभुः-शुभ् लिट लकार प्र. पु. बहुवचन।। 

5. उत्तिष्ठ भो ............................................... दहन्नटस्व॥5॥

अन्वयः - भोः ! उत्तिष्ठ, जागर्हि, अग्नीन् सर्जय, हि (त्वं) परस्य शौरेः साक्षात् तेजः असि, वक्षः स्थितेन एव सनातनेन हुताशेन शत्रून् दहन नटस्व।। 


कठिन-शब्दार्थ : जागर्हि = जागो। सर्जय = उत्पन्न करो। शौरेः = कृष्ण के। हुताशेन = अग्नि के द्वारा। नटस्व = नष्ट करो, भगा दो। 

प्रसंग - यह श्लोक 'शाश्वती' प्रथम भाग के सप्तम पाठ 'सन्तति प्रबोधनम्' शीर्षक पाठ से लिया गया है। भारतमाता को महाकाली के रूप में कवि ने चित्रित किया है तथा भारतवासियों को प्रेरित किया है कि वे उठे, जागें 

हिन्दी अनुवाद/व्याख्या - हे भारतीयो ! उठो, जागो, अग्नि को पैदा करो क्योंकि तुम शत्रु संहारक कृष्ण के साक्षात् तेज हो। वक्षस्थल पर स्थित ही सनातन अग्नि के द्वारा शत्रुओं को जलाते हुये उन्हें नष्ट करो। उन्हें यहाँ से भगा दो।

विशेष - यहाँ भारतीय लोगों को शत्रु-संहारक श्रीकृष्ण के समान तेजस्वी बतलाते हुए उन्हें अपने तेज द्वारा शत्रुओं को नष्ट करने हेतु प्रेरित किया गया है।

सप्रसङ्ग संस्कृत-व्याख्या - 

प्रसङ्गः - अयं श्लोकः अस्माकं पाठ्यपुस्तक 'शाश्वती' प्रथमभागस्य 'सन्तति प्रबोधनम्' शीर्षक पाठात् उद्धृतोऽस्ति। अस्मिन् श्लोकं भारतमातरम् महाकालीरूपे कविता चित्रितम् भारतीयान् च प्रेरितं यत् ते उत्तिष्ठन्तु 

संस्कृत-व्याख्या - भोः = हे भारतीयाः! उत्तिष्ठ, जागर्हि अग्निम = अनलं, सर्जय = उत्पन्नं करु। हि = यतो हि (त्वं) परस्य = शत्रोः संहारकः शौरेः = कृष्णस्य, साक्षात् तेजः असि = पराक्रमोऽसि। वक्षः स्थितेन = वक्षःस्थल विद्यमानेन एव, सनातनेन हुताशेन = अग्निना, शत्रून् = रिपून्, दहन् = ज्वलयन्, नटस्व = विनष्टं कुरु। तान् अत्रतः पलायनं करोतु। 

विशेषः - 

  1. अस्मिन् पद्ये कविना भारतीयाः कृष्णस्य तेजः निगदितम्। 
  2. अस्मिन् पद्ये उपजाति वृत्तं वर्तते। 
  3. व्याकरणम् - शौरे: - शूर + इञ्। कृष्णस्य शौरि (ष. ए. व.)। सर्जय-सृज् धातु लोट् लकार म. पु. एकवचन। हुताशेन-हुतं अश्नाति, यः सः तेन। दहन्-दह् + शतृ। साक्षाद्धि-साक्षात् + हि (हल् सन्धि)। तेजोऽसि-तेजः + असि (पूर्व रूप)। 

6. अस्त्येव लोहं ......................................................... परहा भवार्यः॥6॥ 

अन्वयः - लोहं निशितः च खङ्ग अस्ति एव, इह क्रूरा मत्ता शतघ्नी नदति। (त्वं) कथं निरस्त्रः असि? शेषे मृतः असि, स्वजातिम् रक्ष, परहा आर्यः भव॥ 

कठिन-शब्दार्थ : 

  • निशितः = पैना किया हुआ। 
  • क्रूरा = भयंकर।
  • मत्ता = मदमस्त। 
  • शतघ्नी = तोप, बन्दूक। 
  • नदति = बोलती है।
  • निरस्त्रः = अस्त्रों से रहित। 
  • परहा = शत्रुओं को मारने वाला। 
  • रक्ष = रक्षा करो। 

प्रसंग - प्रस्तुत श्लोक 'सन्तति प्रबोधनम्' शीर्षक पाठ से अवतरित है। प्रस्तुत श्लोक में कवि का कथन है कि तुम्हारे पास अस्त्र हैं, अतः शत्रुघाती श्रेष्ठ आर्य बनकर अपनी जाति की रक्षा करो 

हिन्दी अनुवाद/व्याख्या - तुम्हारे लोहे से बने हुये अस्त्र हैं, पैनी की गई तलवार है (साथ ही) यहाँ भयंकर मतवाली तोप बोल रही है (तोप गरज रही है)। (तुम) कैसे शस्त्रहीन हो? मरे हुये के तुल्य हो, सो रहे हो। अपनी जाति की रक्षा करो तथा शत्रुओं को मारने वाले आर्य श्रेष्ठ बनो। 

विशेष - यहाँ परतन्त्रता काल में असहाय भारतीय लोगों के भीतर छिपे हुए पराक्रम का स्मरण कराते हुए उन्हें शत्रुओं का संहार करने की प्रेरणा दी गई है। 

सप्रसङ्ग संस्कृत-व्याख्या - 

प्रसङ्ग: - अयं श्लोकः अस्माकं पाठ्यपुस्तक 'शाश्वती' प्रथमभागस्य 'सन्तति प्रबोधनम्' शीर्षक पाठात् उद्धृतोऽस्ति। अस्मिन् श्लोके कवेः कथनमस्ति यत् हे भारतीयाः। तव समीपे अस्त्राणि सन्ति, अतः शत्रुघाती श्रेष्ठ आर्यो भूत्वा स्व जातिं रक्ष 

संस्कृत-व्याख्या - तव समीपे लोहं निशितः = आयस निर्मितं उद्दीप्तः, खड्ग अस्ति = कवालः वर्तते, इह = अत्र च क्रूरा = निष्ठुरा, मत्ताः = प्रमत्ताः, शत्रघ्नी = तोपनामाख्यं अस्त्रम्, नदति = गर्जति। (त्वं) कथं = कस्मात् कारणात् निरस्रः = शस्त्र विहीनः असि? शेषे मृतः असि = मृततुल्योऽसि। स्वजातिम् = स्वबन्धुबान्धवान्, रक्ष = तेषां रक्षां कुरु। परहा = परान् हन्ति इति परहा, शत्रुसंहारकः = आर्यः भव = श्रेष्ठ आर्यो भव।। 

विशेषः - 

  1. अस्मिन् पद्ये उपजाति वृत्तं वर्तते। 
  2. व्याकरणम्-अस्त्येव-अस्ति + एव (यण् सन्धि)। शतघ्नी-शतं हन्ति या सा (बहुव्रीहि)। नदतीह-नदति + इह (दीर्घ सन्धि)। मत्ता-मद् + क्त + टाप्। परहा-परान् हन्ति यः सः (बहुव्रीहि)। जातिम्-जन् + क्तिन्। 

7. भो भो अवन्त्यो ............................................. पञ्चनदेषु शूराः॥7॥ 

अन्वयः - भोः! भोः! अवन्त्यः, मगधाः च, बङ्गाः, अङ्गाः, कलिङ्गाः सिन्धवः च, भोः दाक्षिणात्याः। आन्ध्रचोलाः! शृणुत, ये पञ्चनदेषु शूराः (सन्ति) (ते अपि) शृण्वन्तु ॥ 

कठिन-शब्दार्थ : 

  • अवन्त्यः = अवन्ति प्रदेशवासियो। 
  • मगधाः = मगध में रहने वाले। 
  • सिन्धवः = सिन्धु प्रदेशवासियो। 
  • पञ्चनदेषु = पञ्जाब में रहने वालो। 
  • शूराः = वीर। 
  • शृण्वन्तु = सुनें। 
  • आन्ध्रचोलाः = आन्ध्र प्रदेश तथा चोल प्रदेश में रहने वालो। 

प्रसंग - प्रस्तुत श्लोक 'सन्तति प्रबोधनम्' शीर्षक पाठ से अवतरित है। प्रस्तुत पद्य में कवि ने समस्त देशवासियों को सम्बोधित करते हुये कहा है -

हिन्दी अनुवाद/व्याख्या - अरे! अरे! अवन्ति प्रदेश में रहने वालो! तथा मगधवासियो! बंगप्रदेश-वासियो! अंग प्रदेश में रहने वालो ! कलिंग तथा सिन्धु प्रदेशवासियो! हे दक्षिण प्रदेश में रहने वालो! आन्ध्र तथा चोल प्रदेशवासियो! तुम सब सुनो। (साथ ही) जो पंचनद (पंजाब) प्रदेश में रहने वाले वीर हैं, (वे भी) सुनें। 

विशेष - यहाँ भारतदेश के विभिन्न प्रदेशों का नामोल्लेख करते हुए सभी को एकतापूर्वक स्वतन्त्रता संग्राम हेतु प्रेरित किया गया है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्ग - पद्योऽयं अस्माकं पाठ्यपुस्तक 'सन्तति-प्रबोधनम्' इति पाठात् उद्धृतः। पाठोऽयं महर्षि अरविन्दस्य भवानी भारती' इति खण्डकाव्यात् संकलितोऽस्ति। अस्मिन् पद्ये भारतमाता देशस्य सर्वेभ्यः प्रदेशवासिभ्यः सन्देशं ददाति 

संस्कृत-व्याख्या - भोः ! भोः ! = रे! रे! अवन्त्यः = मालवदेश वासिनः, मगधाः = मगधदेशवासिनः, बङ्गाः = बंगदेशवासिनः, अङ्गाः = अंगदेशवासिनः, कलिङ्गाः = कलिंगदेशवासिनः, सिन्धवः च = सिन्धदेशवासिनः, भोः दाक्षिणात्याः = रे दक्षिण देशवासिनः, आन्ध्राः = आन्ध्रदेशवासिनः, चोला: = तंजोरदेशवासिनः, शृणुत = आकर्णयत। ये पञ्चनदेशु = ये पञ्चाम्बु प्रदेशे, शूराः = वीराः वर्तन्ते, (तेऽपि) शृण्वन्तु = आकर्णयन्तु।। 

विशेष - 

  1. अस्मिन् पद्ये इन्द्रवज्रा छन्दः। 
  2. पद्येऽस्मिन् 'ग' वर्णस्यावृत्तिः, अत: अनुप्रासोऽलंकारः। . 
  3. व्याकरणम्-पञ्चनदः-पञ्चानां नदीनां समाहारः (द्विगु)। शृणुतान्ध्रचोला:-शृणुत + आन्ध्रचोलाः (दीर्घ सन्धि )। 

8. ये केचिदर्चन्ति .................................................... णुध्वम्॥8॥ 

अन्वयः - ये केचित् त्रिमूर्तिम् अर्चन्ति, ननु ये मदीयाः यवनाः च एकमूर्तिम् (अर्चन्ति) हि व: माता सर्वान् तनयान् आह्वये। अये शृणुध्वम्। निद्राम् विमुञ्चध्वम्॥ 

कठिन-शब्दार्थ : 

  • त्रिमूर्तिम् = त्रिदेवों (ब्रह्मा, विष्णु, महेश) की मूर्ति को। 
  • अर्चन्ति = पूजते हैं। 
  • मदीयाः = मेरे। 
  • एक मूर्तिम् = एक निराकार परमेश्वर को। 
  • वः = तुम्हारे।
  • तनयान् = पुत्रों को, 
  • आह्वये = पुकारती हूँ, आह्वान करती हूँ। 
  • शृणुध्वम् = सुनो। 
  • विमुञ्चध्वम् = छोड़ो।

प्रसंग - यह 'सन्तति प्रबोधनम्' शीर्षक पाठ का अन्तिम श्लोक है। इसमें भारत माता सभी उन भारतवासियों को बुलाकर कह रही है, जो परमेश्वर के किसी भी रूप के उपासक हैं -

हिन्दी अनुवाद/व्याख्या - जो कोई त्रिदेवों (ब्रह्मा, विष्णु, महेश) की मूर्ति को पूजते हैं। निश्चय से जो मेरे यवन, एक निराकार परमेश्वर की अर्चना करते हैं, निश्चय ही सम्पूर्ण पुत्रों को मैं तुम्हारी भारत माता बुला रही हूँ, तुम्हारा आह्वान कर रही हूँ। तुम सब सुनो तथा निद्रा का त्याग करो। खड़े हो जाओ, अब सोने का समय नहीं है। 

विशेष - यहाँ भारतमाता के माध्यम से कवि ने सभी भारतीयों का स्वतन्त्रता हेतु आह्वान करके एकता की भावना को प्रकट किया है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - अयं 'सन्तति प्रबोधनम्' शीर्षक पाठस्य अन्तिमः श्लोकः वर्तते। अस्मिन् श्लोके भारतमाता तान् सर्वान् भारतीयान् आह्वये, ये परमेश्वरस्य कस्यचिदपि रूपस्य उपासकाः सन्ति - 

संस्कृत-व्याख्या - ये केचित् = ये केचित् भारतीयाः, त्रिमूर्तिम् = त्रिदेवम्, अर्चन्ति = पूजयन्ति। ननु = निश्चयेन, ये = भारतीयाः मदीयाः = मम, यवनाः = मुस्लिमबन्धवः सन्ति, ते एक मूर्तिम् = निराकार परमेश्वरं, अर्चन्ति = पूजयन्ति। कम्, माता = भारतमाता, सर्वान् = अखिलान्, तनयान् = पुत्रान्, आह्वये = आकारयामि, अये शृणुध्वम् = मम वचनं शृणु। निद्रां विमुञ्चध्वम् = त्यज। उत्तिष्ठत, अयं शयन समयो नास्ति। 

विशेषः -

(i) अस्मिन् पद्ये इन्द्रवज्रा छन्दः। 
(ii) व्याकरणम्-त्रिमूर्तिम्-तिसृणाम् मूर्तीनाम् समाहारः (द्विगु)। एकमूर्तिः-एक चासौ मूर्तिः (कर्मधारय)। वस्तनयान्-वः + तनयान् (विसर्ग सन्धि)। चैक-च एक (वृद्धि सन्धि)।