(क) जातकमालायाः लेखकः कः?
(ख) कथायां वर्णिते जन्मनि बोधिसत्त्वः कः बभूव ?
(ग) महासत्त्वः मीनानां कैः परमनुग्रहम् अकरोत् ?
(घ) सरः लघुपल्वलमिव कथमभवत् ?
(ङ) बोधिसत्त्वः किमर्थं चिन्तामकरोत् ?
(च) तोयं प्रतिदिनं केन स्पर्धमानं क्षीयते स्म?
(छ) आकाशे अकाला अपि के प्रादुरभवन् ?
(ज) कया आशङ्कया बोधिसत्त्वः पुनः पुनः पर्जन्यं प्रार्थितवान्?
(झ) शक्रः केषां राजा आसीत्?
(ञ) अस्माभिः कुत्र प्रयतितव्यम् ?
2. रिक्तस्थानानि पूरयत ।
(क) बोधिसत्त्वः परहितसुखसाधने अभवत्।
(ख) तत्रस्थिताः मीनाः जलाभावात् इव सञ्जाताः।
(ग) विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः आपेदे।
(घ) स महात्मा स्वकीयसत्यतपोबलमेव तेषां अमन्यत।
(ङ) तत् तोयसमृद्धिमवाप ।
3. सप्रसङ्ग व्याख्या कार्या ।
(क) बहुषु जन्मान्तरेषु परोपकार-अभ्यासवशात् तत्रस्थः अपि परहितसुखसाधने व्यापृतः अभवत्।
(ख) अस्मद्व्यसनसङ्कृष्टयः समायान्ति नो द्विषः।
(ग) शीलवताम् इह एव कल्याणाः अभिप्रायाः वृद्धिम् आप्नुवन्ति ।
4. अधोलिखितशब्दान् ल्यबन्तेषु शतृप्रत्ययान्तेषु शानच्प्रत्ययान्तेषु च विभज्य लिखत ।
आपीयमानम्, अवेक्ष्य, स्पर्धमानम्, समापीड्यमानम्, निःश्वस्य, रत्नायमानानि, अभिगम्य, संराधयन्, विमृशन्, समुल्लोकयन्।
5. विशेषणानि विशेष्यैः सह योजयत ।
(क) सरसि
इष्टानाम्
(ख) धरण्या
(ग) अपत्यानाम्
कदम्बकुसुमगौरेण
हंसचक्रवाकादिशोभिते
(घ) नवसलिलेन
अभितप्तया
(ङ) पक्षिणः
ज्वालानुगतेन
(च) बोधिसत्त्वः
तत्रस्थाः
(छ) मीनाः
सलिलतीरवासिनः
(ज) मारुतेन
करुणायमानः
6. अधोलिखितपदानि संस्कृतवाक्येषु प्रयुद्ध्वम् ।
कस्मिश्चित्, भाग्यवैकल्यात्, आपीयमानम्, लक्ष्यते, विमृशन्, अभिगम्य, प्रयतितव्यम्।
7. पर्यायवाचकं लिखत ।
मीनः, पक्षी, प्रत्यहम्, आपद्, पर्जन्यः।
8.
अधोलिखितवाक्येषु उपमानानि योजयत ।
(क) इव मीनानां परमानुग्रहं चकार।
(ख) इव तोयं प्रत्यहं क्षीयते।
(ग) इव इमे पयोदाः क्षरन्ति।
(घ) इव नवसलिलेन सरः परिपूर्ण न जातम्।
(ङ) सरः ग्रीष्मकाले इव सञ्जातम्।
योग्यताविस्तारः
अधोलिखितानां सूक्तीनाम् अध्ययनं कृत्वा प्रस्तुतपाठेन भावसाम्यम् अवधत्त-
पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलन्ति वृक्षाः। धाराधरो वर्षति नात्महेतोः परोपकाराय सतां विभूतयः ॥1॥
अष्टादशपुराणेषु व्यासस्य वचनद्वयम्। परोपकारः पुण्याय पापाय परपीडनम् ।।2।।
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्। आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥3॥ छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥4॥ ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे। परोपकारः पुण्याय पापाय परपीडनम् ।।5।
भवन्ति नम्रास्तरवः फलोद्गमैः नवाम्बुभिर्दूरविलम्बिनो घनाः। अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥6॥
प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः, प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।।7।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें
जयतु संस्कृतम्।