expr:class='"loading" + data:blog.mobileClass'>

सोमवार, 12 सितंबर 2022

कथं शब्दानुशासनं कर्तव्यम्

चतुथर्वशः पाठः

कथं शब्दानुशासनं कर्तव्यम्
जेसीईआरटी तथा एनसीईआरटी के कक्षा-12 के संस्कृत पाठ्यपुस्तक-शाश्वती भाग 2 के चतुर्दशः पाठ: कथं शब्दानुशासनं कर्तव्यम्  का शब्दार्थ सहित हिन्दी अनुवाद एवं भावार्थ तथा उस पर आधारित प्रश्नोत्तर सीबीएसई सत्र-2022-2023 के लिए यहाँ दिए गए हैं।यहाँ दिए गए हिंदी अनुवाद तथा भावार्थ की मदद से विद्यार्थी पूरे पाठ को आसानी से समझकर अभ्यास के प्रश्नों को स्वयं कर सकते हैं।
यह पाठ महर्षि पतञ्जलि विरचित महाभाष्य से उद्धृत है। इसमें शब्दों के अनुशासन का वर्णन किया गया है। इस पाठ में वर्णन किया गया है कि हमें कैसे शब्दों का उपदेश करना चाहिये। अर्थात् केवल शब्दों का उपदेश करना चाहिये, अथवा अपशब्दों का अथवा दोनों का। इसी का समाधान प्रस्तुत पाठ में पौराणिक आख्यानक के माध्यम से किया गया है।
शब्दानुशासनमिदानीं कर्तव्यम्। किं शब्दोपदेशः कर्तव्यः, आहोस्विदपशब्दोपदेशः, आहोस्विदुभयोपदेश इति ? अन्यतरोपदेशेन कृतं स्यात्। तद्यथा-भक्ष्यनियमेनाभक्ष्यप्रतिषेधो गम्यते । 'पश्च पश्चनखा भक्ष्याः' इत्युक्ते गम्यत एतत्- अतोऽन्येऽभक्ष्या इति ॥
अभक्ष्यप्रतिषेधेन च भक्ष्यनियमः। तद्यथा- 'अभक्ष्यो ग्राम्यकुक्कुट अभक्ष्यो प्राम्यसूकर: ' इत्युक्ते गम्यत एतत्-आरण्यो भक्ष्य इति ।। एवमिहापि।
यदि तावच्छब्दोपदेशः क्रियते, गौरित्येतस्मिन्नुपविष्टे गम्यत एतत् गाव्यादयोऽपशब्दा इति। अथाप्यपशब्दोपदेशः क्रियेत, एतत् गौरित्येष शब्द इति ॥
किं पुनरत्र ज्यायः ?
लघुत्वाच्छबदोपदेशः । लघीयाच्छब्दोपदेशः। 
गरीयानपशब्दोपदेशः। एकैकस्य शब्दस्य बहवोऽपभ्रंशाः । तद्यथा-गौरित्यस्य शब्दस्य गावी गोणी गोता गोपोतलिका-इत्येवमादयोऽपभ्रंशाः ।
इष्टान्वाख्यानं खल्वपि भवति ॥ अथैतस्मिन्शब्दोपदेशे सति किं शब्दानां प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः- गौरश्वः पुरुषो हस्ती शकुनिर्मृगो ब्राह्मण इत्येवमादयः शब्दाः पठितव्या?
नेत्याह। अनभ्युपाय एष शब्दानां प्रतिपत्तौ प्रतिपदपाठः। एवं हि श्रूयते-“बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम "॥ बृहस्पतिश्च प्रवक्ता, इन्द्रश्चाध्येता, दिव्यं वर्षसहस्रमध्ययनकाल:, न चान्तं जगाम । किं पुनरद्यत्वे? यः सर्वथा चिरं जीवति वर्षशतं जीवति ।
चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति-आगमकालेन, स्वाध्यायकालेन, प्रवचनकालेन, व्यवहारकालेनेति। तत्र चास्यागमकालेनैवायुः पर्युपयुक्तं स्यात् । तस्मादनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठः ॥
कथं तमे शब्दाः प्रतिपत्तव्या: ?
किश्चित्सामान्यविशेषवल्लक्षणं प्रवर्त्यम् । येनाल्पेन यत्नेन महतो महतः शब्दौघान् प्रतिपद्येरन् ॥
किं पुनस्तत्?
उत्सर्गापवादौ । कश्चिदुत्सर्गः कर्तव्यः, कश्चिदपवादः ॥ कथञ्जातीयकः पुनरुत्सर्गः कर्तव्यः कथञ्जातीयको ऽपवादः ? | सामान्येनोत्सर्गः कर्तव्यः । तद्यथा-"कर्मण्यण्" । तस्य विशेषेणापवादः । तद्यथा-' -"आतोऽनुपसर्गे कः "
1. संस्कृतभाषायाम् उत्तरत ।
(क) मनुष्यस्य आयुः कति वर्षाणि मन्यते?
(ख) कस्य नियमेन अभक्ष्यप्रतिषेधो गम्यते?
(ग) गाम्यकुक्कुटः मक्ष्यः अमक्ष्यः वा?
(घ) कः ज्यायः अस्ति?
(ङ) कः गरीयान् अस्ति ?
2. रेखाङ्कितपदानि आवृत्य प्रश्ननिर्माणं कुरुत |
(क) एकैकस्य शब्दस्य बहव: अपभ्रंशाः सन्ति ।
(ख) शब्दानां प्रतिपत्ती प्रतिपदपाठः कर्तव्यः।
(ग) बृहस्पतिः इन्द्राय प्रतिपदशब्दान् उक्तवान्।
(घ) चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति ।
 (ङ) सामान्येन उत्सर्गः कर्तव्यः ।
3 विपरीतार्थैः सह मेलनं कुरुत ।
(क) भक्ष्यम्            -तदानीम्
(ख) लघीयान्         -अनिष्टान् 
 (ग) एकः               -अभक्ष्यम्
(घ) इष्टान् -            -गरीयान्
(ङ) इदानीम्          -बहव:
4. अधोलिखितवाक्यानि पठित्वा शुद्धं वा अशुद्धं समक्षं लिखत ।
(क) अन्यतरोपदेशेन कृतं स्यात् ।
(ख) इष्टान्वाख्यानं खल्वपि भवति । 
(ग) यः सर्वथा चिरं जीवति वर्षशतं न जीवति ।
(घ) चतुर्भिश्च प्रकारैर्विद्योपयुक्ता न भवति ।
(ङ) आगमकालेनैवायुः कृत्स्नं पर्युपयुक्तं स्यात् ।
5. शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत ।
(क) शब्दानुशासनम्
(ख) भक्ष्यम्
(ग) इदानीम्
(घ) चिरम्
(ङ) प्रवक्ता
(क) इदानी-
(च) कृत्स्नम्
6. रिक्तस्थानानि पूरयत ।
प्रतिपदपाठः कर्तव्यः, शब्दोपदेशाः, अपभ्रंशाः, अपशब्दोपदेशाः, अभक्ष्यप्रतिषेधः, शब्दानुशासनम्
(क)इदानीं-------------------कर्त्तव्यम्।

(ख) भक्ष्यनियमेन--------------------गम्यते ।

(ग) गरीयान्--------------------------।

(घ) एकैकशब्दस्य बहवः----------------भवन्ति।

(ङ) लघुत्वात्----------------------।

(च) शब्दोपदेशे सति शब्दानां प्रतिपत्तौ----------------------।



योगस्य वैशिष्ट्यम्

योगस्य वैशिष्ट्यम्

 जेसीईआरटी तथा एनसीईआरटी के कक्षा-12 के संस्कृत पाठ्यपुस्तक-शाश्वती भाग 2 के त्रयोदशः पाठ: योगस्य वैशिष्ट्यम्  का शब्दार्थ सहित हिन्दी अनुवाद एवं भावार्थ तथा उस पर आधारित प्रश्नोत्तर सीबीएसई सत्र-2022-2023 के लिए यहाँ दिए गए हैं।यहाँ दिए गए हिंदी अनुवाद तथा भावार्थ की मदद से विद्यार्थी पूरे पाठ को आसानी से समझकर अभ्यास के प्रश्नों को स्वयं कर सकते हैं।
परिचित योगसूत्र पर आधारित है। जिसमें योगाभ्यास के माध्यम से जीवन को संयमित बनाने के लिए शारीरिक, मानसिक एवं बौद्धिक रूप से विशिष्ट उपायों का उल्लेख किया गया है तथा योग के विभिन्न स्वरूपों का लक्षण वर्णन किया गया है। प्रस्तुत पाठ का संवाद के माध्यम से रोचक रूप में विवेचन किया गया है। पाठ में निहित विषयवस्तु छात्रों के बहुमुखी विकास के लिए अत्यंत उपयोगी है।
(कक्षायाः दृश्यम् अद्य कक्षा विशेषरूपेण सुसज्जिता अस्ति। भित्तिषु योगविषयस्य विविध चित्राणि जितानि सन्ति।)
स्वप्निल:-बलराम!अद्य कक्षायां कोऽपि विशिष्ट कार्यक्रमः ?
बलराम:- अरे मित्रा त्वं न जानासि ? इदानीं तु योगशिक्षायाः कालांश: ।
मोहिनी:- एषः तु नूतन विषयः किं प्रतिदिनम् ईदृशी कक्षा प्रचलिष्यति ?
बलराम:-आम्, अधुना तु अस्माकं कृते योगशिक्षा अतीव उपयोगिनी अस्ति।
सागरिका:-अहो सुखदमाश्चर्यम् । अहमपि गृहे मातुः मुखाद् योगशिक्षायाः विषये
श्रुतवती तथा उक्तम्- 'योग: स्वास्थ्यकरः।'
सागर:-कि विद्याध्ययनेऽपि अस्योपयोगः वर्तते ?
मोहिनी:-आम्,अस्मिन् विषये योगशिक्षकः, विशेषरूपेण वदिष्यति।
(योगशिक्षक कक्षायां प्रविशति ) 
छात्रा:-नमो नमः आचार्य। स्वागतम् अत्र भवतां कक्षायाम्।
योगाचार्य:-छात्राः भवन्तः सम्प्रति समुत्सुकाः दृश्यन्ते। काऽपि विशिष्टा जिज्ञासा
अस्ति किम्?
सागर:- भो आचार्यः वयं सर्वे योगस्य उपयोगितायाः विषये सम्यग्रूपेण ज्ञातुम्
उत्सुकाः स्मः।
योगाचार्य:-प्रियच्छात्राः किं भवन्तः जानन्ति यत् योगशास्त्रे शरीरस्य मनसः च नियमन प्रतिपादितं वर्तते। अस्य ज्ञानेन अभ्यासेन च भवन्तः स्वाध्यायेऽपि एकाग्रता वर्धयितुम् सक्षमाः भविष्यन्ति ।
मनीष:-अस्माभिः समाचारपत्रेषु पठितम् यत् विश्वेऽपि योगदिवसः सोत्साहम् मान्यते।
योगाचार्य:-साधूक्तम्। जूनमासस्य एकविंशतितमः दिवसः अन्तराष्ट्रिययोगदिवसरूपेण तु सर्वत्र मान्यते
मोहिनी:-आचार्य ! सम्प्रति वयं योगविषये सविस्तरं ज्ञातुम् इच्छामः । (योगाचार्यः पाठमाध्यमेन योगशिक्षा शिक्षयति)
योगाचार्य:-प्रियच्छात्राः ध्यानेन शृणुत।
                योगश्चित्तवृत्तिनिरोधः
मोहन:-चित्तवृत्तिनिरोधः । अथ किं तात्पर्यम् अस्य ?
योगाचार्य:-चित्तवृत्तीनां भेदः लक्षणम् चावगच्छन्तु प्रथम, ततः विस्तरेण योधयामि'प्रमाणविपर्ययविकल्पनिद्रास्मृतयः' इति।
 प्रमाणम् अर्थात् प्रत्यक्षानुमानागमाः प्रमाणानि।
विपर्ययः अर्थात् विपर्ययो मिथ्याज्ञानमतरूपप्रतिष्ठम्।
विकल्पः अर्थात् शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ।
निद्रा-अभावप्रत्ययालम्बनावृत्तिर्निद्रा । 
स्मृति:-अनुभूतविषयासम्प्रमोषः स्मृतिः ।
(सर्वं श्यामपट्टे योगाचार्यः लिखति अवबोधयति च छात्राः च प्रसन्नमनसा अवगच्छन्ति,स्वपुस्तिकासु चाऽपि लिखन्ति)
सागर:-आचार्य ! अन्यदपि ज्ञातुमुत्सुकाः वयं विस्तरेण। 
योगाचार्य:-अधुना योगाङ्गानां नामानि लक्षणानि चावबोधयामि-
यमनियमासनप्राणायामप्रत्याहार-धारणाध्यानसमाधयोऽष्टावङ्गानि '
सागरिका:-कः तात्पर्यः अस्य एतादृशस्य दीर्घवाक्यस्य ? किञ्चिदपि नावगम्यते....
योगाचार्य:-अलं चिन्तया,एकैकं कृत्वा बोधयामि।
यमः-अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः।
 नियमः-शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।
आसनम्-स्थिरसुखमासनम्।
प्राणायामः-तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ।
प्रत्याहारः-स्वविषयसम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ।
धारणा-देशबन्धश्चित्तस्य धारणा।
ध्यानम्- तत्र प्रत्ययैकतानता ध्यानम्।
समाधिः-तदेवार्थमात्रनिर्भास स्वरूपशून्यमिव समाधिः।
एतत्सर्वमपि योगाचार्य श्यामपट्टे लिखित्वा बोधयति छात्राश्च स्वस्वपुस्तिकासु लिखन्ति, अवबुध्यन्ति च। 
स्वप्निल:-आचार्य। योगाङ्गानां नामानि तु अस्माभिः सुष्ठु ज्ञातानि अवबुद्धानि चाऽपि । साम्प्रतं योगाङ्गानां फलमपि ज्ञातुं महती उत्कण्ठा वर्तते ।
योगाचार्यः-आम् आम् तदपि बोधयामि शृण्वन्तु, लिखन्तु, अवबुध्यन्तु च तावत्-
यम:
अहिंसा-अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ।
सत्यम्-सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ।
अस्तेयम्-अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ।
 ब्रह्मचर्यम्-ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः |
अपरिग्रहः-अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः।
बलराम:-अतीव ज्ञानवर्धिका एषा कक्षा पुस्तकालयं गत्वाऽपि एतावत् ज्ञान
प्राप्तुमशक्यमासीत् वादृशम् अद्य अस्यां कक्षायां प्राप्तम्।
नियमः-
शौचम्-शौचास्वाङ्गजुगुप्सा परैरसंसर्गः सत्त्वशुद्धिसौमनस्य ऐका ग्रेन्द्रियजयात् आत्मदर्शनयोग्यत्वानि च।
सन्तोष:-सन्तोषादनुत्तमसुखलाभः ।
तपः - कार्येन्द्रियसिद्धिः अशुद्धिाक्षयात्तपः ।
स्वाध्यायः-स्वाध्यायादिष्टदेवतासम्प्रयोगः ।
ईश्वरप्रणिधानम् - समाधिसिद्धिरीश्वरप्रणिधानात्।
(तदैव घण्टावादनम् भवति)
सर्वे छात्राः-आचार्य! कृपया आसन-प्राणायामेत्यादिकं स्पष्टीकृत्य एव कक्षां समापयतु। अर्धे मा त्यजतु ।
योगाचार्यः-आम् आम् बोधयामि अग्रे अपि।
आसनम्-ततो द्वन्द्वानभिघातः
प्राणायामः- ततः क्षीयते प्रकाशावरणम्। धारणासु च योग्यता मनसः ।
प्रत्याहारः-ततः परमावश्यतेन्द्रियाणाम्।
धारणा ध्यान-समाधिः- त्रयमेकत्र संयमः । तज्जयात्प्रज्ञालोकः ।
योगाचार्यः-शोभनम्। श्वः प्रायोगिकं व्यवहारं करिष्यामः, येन भवन्तः यमनियमेत्यादीनां प्रत्यक्षमनुभवं विधास्यन्ति।
(एवं कथयित्वा कक्षातः प्रस्थानं करोति आचार्यः। छात्राः अपि हृष्टमनसा परस्परं योगचर्चा कुर्वाणः सन्ति ।) 
1. अधोलिखितप्रश्नानां उत्तराणि संस्कृतेन लिखत
(क) योगः कः कथ्यते ?
(ख) मातुः मुखाद् योगशिक्षायाः विषये का श्रुतवती ?
(ग) छात्राः कस्मिन् विषये ज्ञातुम् उत्सुकाः सन्ति?
(घ) प्रमाणानि कानि ?
(ङ) स्मृतिः का कथ्यते? 
(च) निद्रा का भवति ?
(छ) योगाङ्गानि कानि ?
(ज) अहिंसा का कथ्यते?
(झ) अपरिग्रहः कः भवति ?
(ञ) के नियमाः ?
2. वाक्यांशानाम् आशयं स्पष्टीकुरुत ।
(क) स्थिरसुखमासनम् ।
(ख) देशबन्धश्चित्तस्य धारणा ।
(ग) ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः।
(घ) सन्तोषादनुत्तमः सुखलाभः। 
(ङ) स्वाध्यायादिष्टदेवतासम्प्रयोगः ।
(ब)

'अ' स्तम्भस्य वाक्यांशैः सह 'ब' स्तम्भस्य वाक्यांशान् मेलयत ।

(अ)                                                                                 (ब)

(क) शब्दज्ञानानुपाती वस्तुशून्यः                                      धारणा
(ख) स्थिरसुखम्                                                             वीर्यलाभः
(ग) देशबन्ध चित्तस्य                                                      सर्वरत्नोपस्थानम्
(घ) अस्तेयप्रतिष्ठायाम्                                                    विकल्पः
(ङ) ब्रह्मचर्यप्रतिष्ठायाम्                                                   ध्यानम्
(च) प्रत्येकतानता                                                            आसनम्
4. रिक्तस्थानानां पूर्ति कुरुत ।
(क) योगशास्त्रे शरीरस्य मनसः.................................प्रतिपादनं वर्तते।
मान्यते।
(ख) अन्ताराष्ट्रिययोगदिवसः जूनमासस्य "प्रणिधानानि नियमाः.........................मान्यते।
(ग) शौचसन्तोषतपः.......................................क्रियाफलाश्रयत्वम्।
(ङ).......................................मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ।
5. अधोलिखितपदानां सन्धिं विच्छेदं वा कुरुत ।
(क) स्वागतम्
(ख) कालांश:
(ग) अति+इव
(घ) विद्याध्ययनेऽपि
(ङ) स+उत्साहम्
(च) सम्यग्रूपेण
(छ) सन्निधिः
6. अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिङ्गम् च लिखत ।
(क) अस्माकम्
(ख) मनसः
(ग) चिन्तया
(घ) अङ्गानि
(ङ) तस्मिन्
(च) महती
(छ) प्रतिष्ठायाम्
7. पाठमाधृत्य योगस्य महत्तां स्वशब्देषु वर्णयत ।



किन्तोः कुटिलता

 

 

किन्तोः कुटिलता

   जेसीईआरटी तथा  एनसीईआरटी के कक्षा-12 के संस्कृत पाठ्यपुस्तक-शाश्वती भाग 2 के  द्वादशः पाठ: किन्तोः कुटिलता  का शब्दार्थ सहित हिन्दी अनुवाद एवं भावार्थ तथा उस पर आधारित प्रश्नोत्तर सीबीएसई सत्र-2022-2023 के लिए यहाँ दिए गए हैं।यहाँ दिए गए हिंदी अनुवाद तथा भावार्थ की मदद से विद्यार्थी पूरे पाठ को आसानी से समझकर अभ्यास के प्रश्नों को स्वयं कर सकते हैं।
यह पाठ देवर्षि श्रीकलानाथ शास्त्री द्वारा सम्पादित पं. श्री भट्ट मथुरानाथ शास्त्री के निबन्धसंग्रह 'प्रबन्ध - पारिजातः' से संकलित किया गया है।
पं. भट्ट मथुरानाथ शास्त्री के पिता पं. भट्ट द्वारकानाथ जयपुर निवासी थे। पं. भट्ट मथुरानाथ का जन्म जयपुर में सन् 1889 ई. में हुआ और निधन भी वहीं 4 जून, 1964 ई. को हुआ। आपकी पूर्वज परम्परा अत्यन्त प्रतिभा सम्पन्न रही। इन्होंने महाराजा संस्कृत कॉलेज से साहित्याचार्य की उपाधि प्राप्त की और वहीं व्याख्याता बन गए। आप जयपुर से प्रकाशित 'संस्कृतरत्नाकर' पत्रिका के सम्पादक रहे। भट्ट मथुरानाथ शास्त्री प्रणीत संस्कृत की रचनाओं में ‘जयपुरवैभवम्’, ‘गोविन्दवैभवम्', 'संस्कृतगाथासप्तशती' और 'साहित्यवैभवम्' विशेष उल्लेखनीय हैं। इनके अतिरिक्त इन्होंने चालीस कथाएँ और सौ से भी अधिक निबन्ध संस्कृत में लिखे । इनकी ‘सुरभारती', 'सुजन - दुर्जन- सन्दर्भ:' और 'युद्धमुद्धतम्' नामक पद्य रचनाएँ भी उल्लेखनीय हैं। यहाँ संकलित पाठ में श्री भट्ट जी ने दिखाया है कि जब कभी किसी कथन के साथं 'किन्तु' लग जाता है, तब बहुधा वह पहले कथन के अच्छे भाव को समाप्त कर उसे दोषपूर्ण और सम्बोधित व्यक्ति के लिए दुःख पैदा करने वाला, उसके उत्साह का नाशक और शत्रुरूप बना देता है। ऐसे अवसर विरल होते हैं जहाँ 'किन्तु' सम्बोधित व्यक्ति के लिए सुखदायक सिद्ध होता है।

कुटिलेनामुना 'किन्तु'-ना कियत्कालात् क्लेशितोऽस्मि। यत्र यत्राहं गच्छामि तत्र तत्रैवास्य शत्रुता सम्मुखस्थिता भवति। अस्य 'किन्तोः' कारणात् कस्मिन्नपि कार्ये सफलता दुर्घटास्ति। बहून् वारान् दृष्टवानस्मि यत्कार्यं सर्वथा सज्जं सम्पद्यते, सर्वप्रकारैः सिद्धिहस्तगता भवति, यथैव सफलताया मूर्तिः सम्मुखमागच्छन्ती विलोक्यते तथैव क्रूरोऽयं किन्तुर्मध्ये प्रविश्य सर्वं विनाशयति।                              हिन्दी-अनुवादः-इस कुटिल 'किन्तु' शब्द से मैं कितने ही समय से पीड़ित हूँ। मैं जहाँ-जहाँ जाता हूँ, वहाँ-वहाँ ही इसकी शत्रुता सामने आ खड़ी होती है। इस 'किन्तु' के कारण किसी भी कार्य में सफलता अति-कठिन है। मैंने बहुत बार देखा है कि जो काम पूरी तरह से तैयार होता है, सब प्रकार से सफलता हाथ में आने वाली होती है, जैसे ही सफलता की मूर्ति सामने आती हुई दिखाई पड़ती है, वैसे ही यह क्रूर 'किन्तु' बीच में घुसकर सब नष्ट-भ्रष्ट कर देता है।                                                                                                                                  राज्यतो लब्धाया भूमेरभियोगो बहोः कालान्यायालये चलति स्म। अस्मिन्नभियोगे प्राविवाकमहोदयो निर्णयं श्रावयन् अवोचत् ....'वयं पश्यामो यदभियोक्तुः पक्षादावश्यकानि सर्वाण्येव प्रमाणान्युपस्थितानि सन्ति। राज्यतो लब्धाया भूमेर्दानपत्रमप्युपस्थापितमस्ति। न्यायालयेन परिज्ञातं यत् इयं भूमिरभियोक्तुरधि कारभुक्ताऽस्ति........।'                                                                                                                      हिन्दी-अनुवादः-राज्य से प्राप्त भूमि का अभियोग बहुत समय से न्यायालय में चल रहा था। इस अभियोग में जज महोदय ने निर्णय सुनाते हुए कहा-'हम देखते हैं कि अभियोक्ता के पक्ष की ओर से सभी आवश्यक प्रमाण उपस्थित कर दिए गए हैं। राज्य से प्राप्त भूमि का दानपत्र भी उपस्थित कर दिया गया है। न्यायालय ने अच्छी तरह जान लिया है कि यह भूमि अभियोक्ता के अधिकार वाली है.............।'                                                     अहं निश्चिन्तताया एकं शान्तं निःश्वासममुचम्। मया सर्वथा स्थिरीकृतं यद्भाग्य-लक्ष्मीरनुपदमेव मे कन्धरायां विजयमाल्यं प्रददातीति। परं प्राड्विवाकमहोदयः पुनरग्रे प्रावोचत्- .... किन्तु राजस्व-विभागस्य प्रधानः किलैकोऽधिकारी एतद्विरोधे एक पत्रं प्रेषितवानस्ति। एतदुपर्यपि लक्ष्यदानमावश्यकं मन्यामहे।' मम सर्वोऽप्युत्साहः पलायाञ्चक्रे। 'किन्तु'-कुन्तो ममान्त:-करणं समन्तात् कृन्तति स्म। निजहृदयमवष्टभ्य न्यायं प्रशंसन् गृहमागमम्।                                                                                                                  हिन्दी-अनुवादः-मैंने निश्चिन्तता से एक शान्त श्वास छोड़ी। मैंने पूरी तरह से निश्चय कर लिया कि भाग्यलक्ष्मी तुरन्त ही मेरे गले में विजयमाला पहनाने वाली है। परन्तु जज महोदय ने फिर आगे कहा-'............किन्तु राजस्व विभाग के एक मुख्य अधिकारी ने इसके विरोध में एक पत्र भेजा है। इस पर भी एक नज़र डालना मैं आवश्यक समझता हूँ।' मेरा सारा उत्साह फुर्र हो गया (गायब हो गया)। किन्तु' रूपी भाला मेरे चित्त को चारों तरफ से काट रहा था। मैं अपने हृदय को सान्त्वना । देकर न्याय की प्रशंसा करते हुए घर वापस आ गया।                                       दृष्टं मया यदेष 'किन्तुः' दयाधर्मादिष्वपि अनधिकारचेष्टातो न विरतो भवति। प्रातः कालस्यैव कथास्ति.... धर्मव्यवस्थापकमहोदयस्य समीपे एको दीन: करुणक्रन्दनपुरःसरं न्यवेदयत्-"महाराज! नववार्षिकी मे कन्या। जातस्य तस्या विवाहस्य अद्य तृतीयो दिवसः। नाद्यापि चतुर्थीकर्म सम्पन्नं येन विवाहः पूर्णः परिगण्येत। तस्याः पतिः सहसाऽम्रियत। हा हन्त! तस्या अबोधबालिकाया अग्रे किं भावि? अस्तकर्मसंख्यावृद्धौ किं ममोच्चकुलमपि सहायकं भविष्यति? आज्ञापयन्तु श्रीमन्तः किं मया साम्प्रतं कर्तव्यम्।" डतमहोदयो गभीरतममद्रयाऽवोचत...."अवश्यमिदं दयास्थानम। वर्तमानकाले समाजस्य भीषणपरिस्थिते: पर्यालोचन इदमेवोचितं प्रतीयते यत् एवं विधस्थले पुनर्विवाहस्य व्यवस्था दीयेत.... 'किन्तु' वयं मुखेन कथमेतत् कथयितुं शक्नुमः। प्राचीनमर्यादापि तु रक्षितव्या स्यात्।"                                          हिन्दी-अनुवादः-मैंने देखा है कि यह 'किन्तु' दया धर्म आदि में भी अपनी अनधिकार चेष्टा से रुकता नहीं है। प्रात: काल की ही बात है....... धर्मव्यवस्थापक महोदय के पास एक गरीब ने करुणक्रन्दन पूर्वक निवेदन किया-"महाराज! नौ वर्ष की मेरी कन्या है। उसका विवाह हुए तीन दिन बीत गए। आज भी 'चतुर्थी कर्म' पूरा नहीं हुआ, जिससे विवाह पूर्ण गिना जाए। उसका पति अचानक मर गया। हाय! उस अबोध बालिका का अब आगे क्या होगा? 'अस्तकर्म' की संख्या बढ़ाने में क्या मेरा उच्च कुल भी सहायक होगा ? आप आज्ञा कीजिए कि मुझे क्या करना है?" पण्डित महोदय ने गम्भीरतम मुद्रा में कहा-"यह तो अवश्य ही दयनीय स्थिति है। वर्तमान समय में समाज की किन्तोः कुटिलता भीषण परिस्थिति को देखते हुए यही उचित प्रतीत होता है कि ऐसी दशा में पुनर्विवाह की व्यवस्था दे दी जाए (नियम बना दिया जाए)। 'किन्तु हम अपने मुख से यह बात कैसे कह सकते हैं? प्राचीन मर्यादा की रक्षा भी तो की जानी चाहिए।"                                                                                             कुत्रचित् सोऽयं 'किन्तुः' नितान्तमनुतापं जनयति। अनेकवर्षाणां परिश्रमस्य फलस्वरूपं मन्निर्मितमेकं नवीनसंस्कृतपुस्तकमादाय साहित्यमर्मज्ञस्य एकस्य देशनेतुः समीपेऽगच्छम्। 'नेतृ'-महोदयः पुस्तकस्य गुणान् सम्यक् परीक्ष्य प्रसन्नः सन्नवोचत्... "पुस्तकं वास्तव एव अद्भुतं निर्मितमस्ति बहुकालानान्तरं संस्कृते एवंविधा नवीनता दृष्टिगताऽभवत्।... 'किन्तु' मत्सम्मत्यां तदिदं पुस्तकं भवान् संस्कृते न विलिख्य यदि हिन्दीभाषायामलिखिष्यत् तर्हि सम्यगभविष्यत्।"                                                                    हिन्दी-अनुवादः-कहीं पर तो यह 'किन्तु' अत्यधिक दुःख पैदा करता है। अनेक वर्षों के परिश्रम के फलस्वरूप अपने द्वारा रचित एक नवीन संस्कृत पुस्तक लेकर एक साहित्य-मर्मज्ञ देश के नेता के समीप पहँचा। नेता जी ने पुस्तक के गणों की उचित परीक्षा करके प्रसन्न होते हुए कहा-"पुस्तक तो वास्तव में अद्भुत लिखी गई है। बहुत समय के पश्चात् संस्कृत में इस प्रकार की नवीनता देखी गई है।........ किन्तु मेरी सम्मति में आप इस पुस्तक को संस्कृत में न लिखकर यदि हिन्दी भाषा में लिखते तो बहुत अच्छा होता।"                                                      गृहं प्रति निवर्तमानोऽहं किन्तु'-कृताया अस्या मर्मवेधकशिक्षाया उपरि समस्तेऽपि गृहमार्गे कर्णं मर्दयन्नगच्छम्। अनेन 'किन्तु'-ना मह्यं सा शिक्षा दत्तास्ति यद्यहं सत्पुरुषः स्यां तर्हि पुनरस्मिन् मार्गे पदनिक्षेपस्य नामापि न गृह्णीयाम्।                                                                                              हिन्दी-अनुवादः- घर वापस लौटते हुए मैं 'किन्तु' द्वारा दी गई इस मर्मवेधक शिक्षा पर, घर के पूरे रास्ते कान मसलता हुआ चला गया। इस 'किन्तु' ने मुझे वह शिक्षा दी थी कि यदि मैं सत्पुरुष हूँ तो फिर इस रास्ते पर पाँव रखने का नाम भी न लूँ।                                                                                                            कदाचित् कदाचित्त्वयं क्रूरः 'किन्तुः' मुखस्य कवलमप्याच्छिनत्ति। स्वल्प-दिनानामेव वार्तास्ति। आयुर्वेदमार्तण्डस्य श्रीमतः स्वामिमहाभागस्य औषधिं निषेव्य अधुनैवाहं नीरोगोऽभवम्। अस्मिन्नेव समये मित्रगोष्ठ्या निमन्त्रणं प्राप्नवम्। भोजनगोष्ठ्यां समवेतुं ममापीच्छाशक्तौ प्राबल्यस्य प्रवाहः पूर्णमात्रायां प्रवर्द्धमान आसीत्। अहं स्वामिमहोदयमप्राक्षम्... 'किमहं तत्र गन्तुं शक्नोमि।' उत्तरमलभ्यत... ‘तादृशी हानिस्तु नास्ति। 'किन्तु' गरिष्ठवस्तुनो भोजने अवधानमत्यावश्यकम् अधुनापि दौर्बल्यमस्ति।'                     हिन्दी-अनुवादः -कभी-कभी तो यह क्रूर किन्तु मुख के कवल (ग्रास) को भी छीन लेता है। थोड़े ही दिनों की बात है। आयुर्वेद मार्तण्ड श्री स्वामी जी महाराज की औषधि का सेवन करके अब मैं स्वस्थ हो गया हूँ। इसी समय मित्र मण्डली की ओर से निमन्त्रण प्राप्त हुआ। भोजनगोष्ठी (पार्टी) में सम्मिलित होने के लिए मेरी इच्छा शक्ति की प्रबलता का प्रवाह पूरी तरह से बढ़ रहा था। मैंने स्वामी जी महाराज से पूछा-"क्या मैं वहाँ जा सकता हूँ।" उत्तर मिला-"वैसे तो कोई हानि नहीं है, 'किन्तु' गरिष्ठ पदार्थों के सेवन में बड़ी सावधानी की आवश्यकता है, अभी भी कमजोरी है।"                                                                                                                                    उत्साहस्य ज्वाला या पर्वं प्रचण्डतमा आसीत् अर्द्धमात्रायां तु तत्रैव निर्वाणाभवत्। अस्तु येन केनापि प्रकारेण भोजनगोष्ठ्याविशेषाधिवेशनेऽस्मिन् सम्मिलितस्त्वभवमेव। भोजनपीठे अधिकारं कुर्वन्नेवाहमपश्यं यत् सर्वाङ्गपूर्णा एका भोज्य-व्यञ्जनानां प्रदर्शनी सम्मुखे वर्तत इति। धीरगम्भीरक्रमेणाहं भोजनकाण्डस्यारम्भमकरवम्। अहं मोदकस्यैकं ग्रासमगृह्णम्। तस्य स्वादसूत्रेण सन्दानितोऽहं यथैव द्वितीय ग्रासमगृणं तथैव 'स्वामिमहोदयस्य 'किन्तुः' मम कण्ठनलिकामरुधत्। मुखस्य ग्रासो मुख एवाऽभ्राम्यत् अग्रे गन्तुं नाशक्नोत्। 'किन्तोः' भीषण विभीषिका प्रत्येकवस्तुनि गरिष्ठतां सम्पाद्य भोजनं तत्रैव समाप्तमकरोत्।'                                                                                                                       हिन्दी-अनुवादः-उत्साह की जो ज्वाला पहले अत्यधिक प्रचण्ड हो रही थी, आधे ही मिनट में वहीं बुझ गई। भोजन के आसन पर अधिकार जमाते हुए मैंने देखा कि एक सर्वांगपूर्ण भोज्य व्यंजनों की प्रदर्शनी सामने लगी हुई है। धीर-गम्भीर क्रम से मैंने भोजनकाण्ड की शुरुआत कर दी। मैंने लड्डू का एक ग्रास लिया। उसके स्वाद सूत्र से बँधे हुए मैंने जैसे ही दूसरा ग्रास ग्रहण किया तभी स्वामी महोदय की 'किन्तु' से मेरी कण्ठनली ही रुंध गई। मुख का ग्रास मुख में ही घूम गया, आगे जा ही न सका। 'किन्तु' के भीषण भय ने प्रत्येक वस्तु में गरिष्ठता बता कर भोजन वहीं समाप्त कर दिया।"                                                                                                              अहं देशसेवां कर्तुं गृहाद् बहिरभवम्। मया निश्चितमासीत् 'एतावन्ति दिनानि स्वोदरसेवायै क्लिष्टोऽभवम्। इदानीं कियन्तं कालं देशसेवायामपि लक्ष्यं ददामि। यथैवाहं मार्गेऽग्रेसरो भवामि, तथैव मम बाल्याध्यापकमहोदयः सम्मुखोऽभवत्। मास्टरमहोदयेन प्रस्थानहेतौ पृष्टे सति सम्पूर्णसमाचारनिवेदनं ममाऽऽवश्यकमभूत्। अध्यापकमहोदयः प्रावोचत्... "तात, सर्वमिदं सम्यक्। किन्तु स्वगृहाभिमुखमपि किञ्चिद्विलोकनीयं भवेत्। येषां भरणपोषणं भवत्येवायत्तम् तान् किं भवान् निराधारमेव निर्मुच्य स्वैरं गन्तुमर्हेत्।"                                                                                                                              हिन्दी-अनुवादः-मैं देशसेवा करने के लिए घर से बाहर हुआ। मैंने निश्चय किया था कि इतने दिनों तक अपनी पेट-पूजा के लिए कष्ट उठाया है। अब कुछ समय देशसेवा में भी लगाता हूँ। जैसे ही मैं रास्ते में आगे-आगे हुआ, तभी मेरे बचपन के अध्यापक मेरे सामने आ गए। मास्टर महोदय द्वारा प्रस्थान का कारण पूछने पर मेरे लिए सारा समाचार निवेदन करना आवश्यक हो गया था। अध्यापक महोदय ने कहा-"पुत्र, यह सब तो ठीक है। 'किन्तु' अपने घर की तरफ भी थोड़ा ध्यान देना चाहिए। जिनके भरण-पोषण की आपने ज़िम्मेदारी ली है, क्या आप उन्हें बेसहारा छोड़कर अपनी इच्छानुसार जा सकते हो?"                                                                                पुनः किमासीत्।अत्रैव परोपकारविचाराणाम् इतिश्रीरभूत्। किन्तु'-महोदयेन देशसेवायाः सर्वापि विचारपरम्परा परपारे परावर्त्यत गृहाभिमुखं मुखं कुर्वन् तस्मात् स्थानादेव परावर्तिषि।                      हिन्दी-अनुवादः-फिर क्या था, यहीं पर परोपकार के विचार की इतिश्री हो गई। 'किन्तु' जी महाराज ने देशसेवा की सारी विचार परम्परा को परले पार कर (लौटा) दिया। घर की ओर मुँह करते हुए उसी स्थान से वापस लौट गया।  मयानुभूतमस्ति यदयं कुटिलः 'किन्तुः' नानादेशेषु नानारूपाणि सन्धार्य गुप्तं विचरति। यथैव लोकानां कार्यसिद्धेरवसरः समुपतिष्ठते तथैवायं प्रकटीभूय लोकानां कार्याणि यथावस्थितमवरुणद्धि। अहमेतस्य 'किन्तु' कुठारस्य कठोरतया नितान्तमेव तान्तोऽस्मि। अहं वाञ्छामि यदेतस्याक्रमणात् सुरक्षितो भवेयम्। परं नायं मां त्यक्तुमिच्छति। बहवो मार्मिका मामबोधयन् यत् त्वम् एतं सम्मुखमायान्तं दृष्ट्वैव कथं वित्रस्यसि, कुतश्च एनमपसारयितुं प्रयतसे ? किमेनं सर्वथा अहितकारिणमेव निश्चितवानसि ? नेदं सम्यक् । पशुघातकस्य छुरिकापि पाश-पतितस्य गलबन्धनं छित्त्वा समये प्राणरक्षां कुर्वती दृष्टा।' अहमपि सत्यस्यैकान्ततोऽपलापं न करिष्यामि। एतस्य कथनस्य सत्यताया मयापि परिचयः कदाचित् कदाचित् प्राप्तोऽस्ति।                                                                                                                               हिन्दी-अनुवादः- मैंने अनुभव किया कि यह कुटिल 'किन्तु' अनेक स्थानों पर अनेक रूप धारण करके गुप्त रूप से कि है। जैसे ही लोगों की कार्य सिद्धि का अवसर समीप होता है, तभी यह प्रकट होकर लोगों के कार्यों को उसी स्थिति में रोक देता है। मैं इस 'किन्तु' के कुल्हाड़े की कठोरता से बुरी तरह पीड़ित हूँ। मैं चाहता हूँ कि इसके आक्रमण से बच जाऊँ। परन्तु यह मुझे छोड़ना ही नहीं चाहता। बहुत से मर्मज्ञों ने मुझे समझाया कि तुम इसे सामने आता हुआ देखकर ही क्यों डर जाते हो और क्यों इसे दूर करने के लिए यत्नशील रहते हो ? क्यों इसे सर्वथा अहितकर ही मानते हो ? यह ठीक नहीं। पशुघातक की छुरी भी जाल में बँधे हुए के गले का बन्धन काटकर, अवसर आने पर प्राण रक्षा करती हुई देखी गई है। मैं भी सच्चाई को पूरी तरह से नहीं झुठलाऊँगा। इस कथन की सत्यता का परिचय मुझे भी कभी कभी प्राप्त हुआ है।                                                                     'शब्दैः प्रतीयते यद् गृहे चौरः प्रविष्टोऽस्ति' इति सभयमनुलपन्ती गृहिणी रात्रौ मामबोधयत्। अहं निजशौर्य प्रकाशयन् महता वीरदर्पण लगुडमात्रमादाय अन्धकार एव चौरनिग्रहाय प्रचलितोऽभवम्। गृहिणी कर्णसमीप आगत्य शरवदत्... "अन्धकार-ऽस्मिन् यासि त्वमवश्यम्, 'किन्तु दृश्यताम् स शस्त्रं न प्रहरेत्।" पुनः किमासीत्। मम वीरदर्पस्य शौर्यस्य च प्रज्ज्वलितं ज्योतिस्तत्रैव निर्वाणमभूत। चौरनिग्रहः कीदृशः, निजप्राणपरित्राणमेव मे अन्वेषणीयमभवत्। लगुडं प्रक्षिप्य कोष्ठके निलीनोऽभवम्। तत एव च कम्पित-कण्ठेन चीत्कारमकरवम्-"लोकाः ! आगच्छत, चौरः प्रविष्टोऽस्ति।"                                                 हिन्दी-अनुवादः- 'आवाज़ों से प्रतीत होता है कि घर में चोर घुस आया है'-इस प्रकार भयपूर्वक कहती हुई मेरी घरवाली ने रात्री में मुझे जगाया। मैं अपनी शूरवीरता प्रकट करते हुए बड़े घमण्ड से लाठी मात्र लेकर अन्धकार में ही चोर को पकड़ने के लिए चल पड़ा। पत्नी ने कान के पास आकर धीरे से कहा-“अन्धकार में तुम जाना ज़रूर, 'किन्तु' देखना, कहीं वह शस्त्रप्रहार न कर दे।" फिर क्या था। मेरे वीरोचित घमण्ड और शूरता की जली हुई ज्योति वहीं बुझ गई। चोर का पकड़ना कैसा, मैं अपनी प्राणरक्षा ही खोजने लगा। लाठी फेंक कर कोठे (कमरे) में छिप गया। तभी काँपते हुए स्वर से मैं चीखा-"लोगो ! आओ, चोर घुस आया है।"                                                    एकेन अमुना 'किन्तु'-ना चौरस्य चपेटाभ्योऽवमुच्य सौख्यस्य सुरक्षिते प्रकोष्ठकेऽहं प्रवेशितः। अनेन किन्तुना कस्मिन्नपि संकटसमये कदाचित् किञ्चित्कार्यं कामं कृतं स्यात् परं भूयसा तु अस्माद् भयमेव भवति। अस्य हि सार्वदिकः स्वभाव एव यत् वार्ता काममुत्तमास्तु अधमा वा परमयं मध्ये प्रविश्य तस्याः कथाया विच्छेदमवश्यं करिष्यति। एतएव कस्मिन्नपि समये कार्यसाधकत्वेऽपिलोका अस्माद वित्रस्यन्त्येव वैरिणां भा हिताधराऽपि करवालधारा क्रूराकारा प्रखरप्रकारा एव प्रसिद्धा लोकेषु। विगुणः कार्षापणः, कुत्सितश्च पुत्रः संकटे कदाचिदुपयुक्तो भवेत् परन्तु जनसमाजे द्वयोरुपर्येव नासा-भूसड्कोचो जातो जनिष्यते च। इदमेव कारणं यत् यस्यां वार्तायां 'किन्तुः' उत्पद्यते तां वार्ता लोका विगुणां गणयन्ति।               हिन्दी-अनुवादः- इस एक किन्तु ने चोर की चपेटों से छुड़वाकर मुझे सुख के सुरक्षित कोठे (कमरे) में प्रविष्ट करवा दिया। इस किन्तु ने किसी संकट के समय कभी कोई कार्य शायद किया हो, परन्तु अधिकतर तो इससे भय ही होता है। इसका सदा-सदा रहने वाला स्वभाव ही है कि चाहे बात अच्छी हो बुरी परन्तु यह बीच में प्रविष्ट होकर उस बात को अवश्य ही काट देगा। इसीलिए किसी भी समय कार्य सिद्धि में लोग इससे डरते ही हैं। वैरियों का भार उतारने के लिए शायद हितकारक तलवार की धार भी क्रूर आकार तथा तीखे रूप वाली ही संसार में प्रसिद्ध होती है। खोटा सिक्का तथा निन्दित पुत्र संकट में कभी काम भले ही आ जाए, परन्तु जनसमाज में तो दोनों के ऊपर ही नाक-भौंह सिकोड़ी जाती रही है और आगे भी सिकोड़ी जाती रहेगी। यही कारण है कि जिस किसी बात में 'किन्तु' लग लग जाता है, उस बात को लोग खटाई में पड़ी हुई बात ही समझते हैं। 

प्रश्न 1. 
संस्कृतेन उत्तरं दीयताम् - 
(क) भूमिविषयके अभियोगे 'किन्तु'-ना का बाधा उपस्थापिता ?
(ख) वाक्यमध्ये प्रविश्य सर्वं कार्यं केन विनाश्यते ? 
(ग) लेखकस्य देशसेवायाः विचारस्य कथम् इतिश्रीरभूत् ? 
(घ) नेतृमहोदयः पुस्तकप्रशंसां कुर्वन् 'किन्तु' प्रयोगेन कं परामर्शम् अददात् ? 
(ङ) भोजन-गोष्ठीस्थले कीदृशी प्रदर्शनी समायोजिता आसीत् ? 
(च) भोजनगोष्ठ्यां लेखकस्य कण्ठनलिकां कः अरुधत् ? 
(छ) धर्मव्यवस्थापक: विधवायाः पुनर्विवाहमुचितं मन्यमानोऽपि व्यवस्थां किमर्थं न ददौ ?
(ज) गृहिणी पत्युः कर्णसमीपे आगत्य शनैः किम् अवदत् ? 
(झ) लोकाः किन्तु-युक्तां वार्ता केन कारणेन विगुणां गणयन्ति ? 
(ब) किन्तोः सार्वदिकः प्रभाव: कः ? 
उत्तरम् :
(क) 'राजस्वविभागस्य प्रधानः अधिकारी तद्-विरोधे एकं पत्रं प्रेषितवान्'- इति बाधा किन्तुना उपस्थापिता। 
(ख) वाक्यमध्ये प्रविश्य सर्वं कार्यं किन्तुना विनाश्यते। 
(ग) 'किन्तु किञ्चित् स्वगृहाभिमुखं विलोकनीयम्' इति अध्यापकवचनेन लेखकस्य देशसेवायाः विचारस्य इति श्रीः अभूत्। 
(घ) नेतृमहोदयः परामर्शम् अददात्- "यदि इदं पुस्तकं हिन्दीभाषायाम् अलिखिष्यत् तर्हि सम्यग् अभविष्यत्।" 
(ङ) भोजन-गोष्ठीस्थले भोज्य-व्यञ्जनानां प्रदर्शनी समायोजिता आसीत्। 
(च) लेखकमहोदयस्य कण्ठनलिकां स्वामिमहोदयस्य 'किन्तुः' अरुधत्। 
(छ) यतः धर्मव्यवस्थापक: प्राचीनमर्यादाम् अपि रक्षितुम् इच्छति स्म, अतः सः पुनर्विवाहस्य व्यवस्थां न ददौ। 
(ज) सा अवदत्-“अन्धकारेऽस्मिन् त्वम् अवश्यं यासि, 'किन्तु' दृश्यताम्, स शस्त्रं न प्रहरेत्।" 
(झ) यतः किन्तुयुक्तायाः वार्तायाः सिद्धौ किन्तुना बाधा अवश्यमेव स्थाप्यते, अतः लोकाः किन्तुयुक्तां वार्ता विगुणां गणयन्ति। 
(ञ) एषः किन्तुः सर्वासां वार्तानां मध्ये प्रविश्य वार्तायाः विच्छेदम् अवश्यं करोति इत्येव किन्तोः सार्वदिकः प्रभावः । 

प्रश्न 2. 
उपयुक्तशब्दान् चित्वा रिक्तस्थानानां पूर्तिः विधेया -
(दुर्घटा, अवधानम्, सन्दानितः, स्वामिमहोदयम्, संस्कृते, विवाहस्य, शान्तम्, पलायांचक्रे, कालात्, संकटे) 
(क) अहं................. अप्राक्षं किमहं तत्र गन्तुं शक्नोमि। 
(ख) अस्य 'किन्तोः' कारणात् कस्मिन्नपि कार्ये सफलता............. अस्ति। 
(ग) तस्य स्वादसूत्रेण ...............अहं यथैव द्वितीयं ग्रासमगृहणम्, तथैव 'किन्तुः' मम कण्ठनलिकामरुधत्। 
(घ) गरिष्ठवस्तुनो भोजने.................अत्यावश्यकम्। 
(ङ) विगुणः कार्षापणः कुत्सितश्च पुत्रः.................कदाचिदुपयुक्तो भवेत्। 
(च) राज्यतो लब्धाया भूमेरभियोगो बहोः.................न्यायालये चलति स्म। 
(छ) मम सर्वोऽप्युत्साहः................ ।
(ज) अहं निश्चिन्तताया एकं.................नि:श्वासममुचम्। 
(झ) जातस्य तस्या ................. अद्य तृतीयो दिवसः। 
(ञ) बहुकालानन्तरं................. एवं विधा नवीनता दृष्टिगताऽभवत्। 
उत्तरम् :
(क) अहं स्वामिमहोदयम् अप्राक्षं किमहं तत्र गन्तुं शक्नोमि । 
(ख) अस्य 'किन्तोः' कारणात् कस्मिन्नपि कार्य सफलता दुर्घटा अस्ति। 
(ग) तस्य स्वादसूत्रेण सन्दानितः अहं यथैव द्वितीयं ग्रासमगृह्णम्, तथैव 'किन्तुः' मम कण्ठनलिकामरुधत्। 
(घ) गरिष्ठवस्तुनो भोजने अवधानम् अत्यावश्यकम्।। 
(ङ) विगुणः कार्षापणः कुत्सितश्च पुत्रः संकटे कदाचिदुपयुक्तो भवेत्। 
(च) राज्यतो लब्धाया भूमेरभियोगो बहो: कालात् न्यायालये चलति स्म।
(छ) मम सर्वोऽप्युत्साहः पलायाञ्चक्रे। 
(ज) अहं निश्चिन्तताया एकं शान्तं नि:श्वासममुचम्। 
(झ) जातस्य तस्या विवाहस्य अद्य तृतीयो दिवसः। 
(ञ) बहुकालानन्तरं संस्कृते एवं विधा नवीनता दृष्टिगताऽभवत् । 

प्रश्न 3. 
अधोलिखितैः उचितक्रियापदैः रिक्तस्थानानि पूरयत - 
परिगण्येत, परावर्तिषि, आच्छिनत्ति, मन्यामहे, दीयेत, अलिखिष्यत्। 
(क) प्रधानः एकं पत्रं प्रेषितवानस्ति। एतदुपर्यपि लक्ष्यदानमावश्यकं ...............।
(ख) गृहाभिमुखं मुखं कुर्वन् तस्मात् स्थानादेव ...........। 
(ग) यदि हिन्दीभाषायाम् ............ तर्हि सम्यगभविष्यत्। 
(घ) इदमेवोचितं प्रतीयते यत् एवंविधस्थले पुनर्विवाहस्य व्यवस्था ............. 
(ङ) कदाचित् कदाचित्त्वयं क्रूरः 'किन्तुः' मुखस्य कवलमपि ................... 
(च) नाद्यापि चतुर्थीकर्म सम्पन्नं येन विवाहः पूर्णः .............। 
उत्तरम् :
(क) प्रधानः एकं पत्रं प्रेषितवानस्ति। एतदुपर्यपि लक्ष्यदानमावश्यकं मन्यामहे। 
(ख) गृहाभिमुखं मुखं कुर्वन् तस्मात् स्थानादेव परावर्तिषि। 
(ग) यदि हिन्दीभाषायाम् अलिखिष्यत् तर्हि सम्यगभविष्यत् । 
(घ) इदमेवोचितं प्रतीयते यत् एवंविधस्थले पुनर्विवाहस्य व्यवस्था दीयेत। 
(ङ) कदाचित् कदाचित्त्वयं क्रूरः 'किन्तुः' मुखस्य कवलमपि आच्छिनत्ति। 
(च) नाद्यापि चतुर्थीकर्म सम्पन्नं येन विवाह: पूर्णः परिगण्येत।

प्रश्न 4. 
सन्धिच्छेदं कुरुत - 
उत्तरसहितम् : 
(क) तत्रैवास्य = तत्र + एव + अस्य 
(ख) सर्वाण्येव = सर्वाणि + एव 
(ग) मन्निर्मितमेकम् = मत् + निर्मितम् + एकम् 
(घ) किलैकोऽधिकारी = किल + एकः + अधिकारी 
(ङ) द्वयोरुपर्येव = द्वयोः + उपरि + एव। 

प्रश्न 5.
प्रकृति-प्रत्ययविभागः क्रियताम् - 
उत्तरसहितम् :
(क) निर्मूच्च = निर् + √मुच् + क्त्वा > ल्यप् 
(ख) आदाय = आ + √दा + क्त्वा > ल्यप् 
(ग) प्रविष्टः = प्र + √विश् + क्त (पुंल्लिङ्गम्, प्रथमा-एकवचनम्) 
(घ) आगत्य = आ + √गम् + क्त्वा > ल्यप् 
(ङ) परिज्ञातम् = परि + √ज्ञा + क्त (नपुंसकलिङ्गम् प्रथमा-एकवचनम्) 

प्रश्न 6. 
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत - 
उत्तरसहितम् :
(क) कार्ये  - कार्य-सप्तमी विभक्तिः, एकवचनम् 
(ख) अभियोक्तुः - अभियोक्त--पञ्चमी/षष्ठी विभक्तिः, एकवचनम्
(ग) बालिकायाः - बालिका–पञ्चमी/षष्ठी विभक्तिः, एकवचनम् 
(घ) न्यायालयेन - न्यायालय - तृतीया विभक्तिः, एकवचनम् 
(ङ) नेतुः - नेतृ-सप्तमी विभक्तिः, एकवचनम् 
(च) शक्तौ - शक्ति - सप्तमी विभक्तिः, एकवचनम् 
(छ) औषधिम् - औषधि - द्वितीया विभक्तिः, एकवचनम् 

प्रश्न 7. 
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरुत - 
किन्तु, गन्तुम्, मह्यम्, विभीषिका, भरणपोषणम्, दृष्ट्वा 
उत्तरम् :
(क) किन्तु - अहं धावनप्रतियोगितायां सर्वतो अग्रे आसम्, किन्तु सहसा मम पादस्खलनम् अभवत्। 
(ख) गन्तुम् - अहं विद्यालयं गन्तुम् इच्छामि। 
(ग) मह्यम् - मयं पठनम् अतीव रोचते।
(घ) विभीषिका - परीक्षायाः विभीषिका मनः उद्वेलयति। 
(ङ) भरणपोषणम् - परिवारस्य भरणपोषणं तु सर्वेषां कर्तव्यम् अस्ति। 
(च) दृष्ट्वा - अधः दृष्ट्वा कथं न गच्छसि ? 

प्रश्न 8. 
विलोमशब्दान् लिखत - 
उत्तरसहितम् : विलोमपदम् 
(क) विगुणः - सगुणः 
(ख) शौर्यम् - अशौर्यम् 
(ग) सुरक्षितः - विनष्टः 
(घ) शत्रुता - मित्रता 
(ङ) धीरः - अधीरः
(च) भयम् - निर्भयम् 

बहुविकल्पीयाः प्रश्नाः 

I. पुस्तकानुसारं समुचितम् उत्तरं चित्वा लिखत - 

(i) भोजनगोष्ठ्यां लेखकस्य कण्ठनलिकां क: अरुधत् ? 
(A) पत्नी 
(B) स्वामिमहोदस्य किन्तुः
(C) मन्त्रिमहोदयस्य किन्तुः 
(D) शिक्षकः। 
उत्तरम् :
(B) स्वामिमहोदस्य किन्तुः

(ii) वाक्यमध्ये प्रविश्य सर्वं कार्य केन विनाश्यते ? 
(A) स्वामिना 
(B) सेवकेन 
(C) अधिकारिणा 
(D) किन्तुना। 
उत्तरम् :
(C) अधिकारिणा 

(iii) गरिष्ठवस्तुनो भोजने किम् अत्यावश्यकम् ? 
(A) मिष्ठान्नम् 
(B) तिक्त-व्यञ्जनम् 
(C) अवधानम् 
(D) क्षीरम्। 
उत्तरम् :
(B) तिक्त-व्यञ्जनम् 

(vi) गृहिणी कस्य कर्णसमीपे आगत्य शनैः अवदत् ? 
(A) पत्युः 
(B) अधिकारिणः 
(C) किन्तोः 
(D) मन्त्रिणः। 
उत्तरम् :
(A) पत्युः 

(v) कस्य कारणात् कस्मिन्नपि कार्ये सफलता दुर्घटा अस्ति ? 
(A) पत्न्याः 
(B) न्युः 
(C) किन्तोः 
(D) स्वामिनः। 
उत्तरम् :
(A) पत्न्याः 

(vi) भूमेः अभियोगः कुत्र चलति स्म ? 
(A) ग्रामपञ्चायते 
(B) न्यायालये 
(C) नगरे 
(D) ग्रामे। 
उत्तरम् :
(D) ग्रामे। 

II. रेखाङ्कितपदम् आधृत्य-प्रश्ननिर्माणाय समुचितं पदं चित्वा लिखत - 

(i) क्रूरः किन्तुः मध्ये प्रविश्य सर्वं विनाशयति। 
(A) कः 
(B) काः 
(C) के 
(D) किम्। 
उत्तरम् :
(D) किम्।

(ii) राजस्वविभागस्य एकः अधिकारी एतद्विरोधे पत्रं प्रेषितवान्। 
(A) काः 
(B) कस्मात् 
(C) कस्य 
(D) कस्मिन्। 
उत्तरम् :
(C) कस्य 

(iii) कन्यायाः पतिः सहसा अम्रियत। 
(A) कस्याः 
(B) कः 
(C) कथम् 
(D) कौ। 
उत्तरम् :
(B) कः 

(iv) मानवाः क्षणमपि परपीडनात् न विरमन्ति। 
(A) किम् 
(B) कुत्र 
(C) कस्मात् 
(D) कस्य। 
उत्तरम् :
(B) कुत्र 

(v) स्वामिमहाभागस्य औषधिं निषेव्य अधुना अहं नीरोगः अभवम् । 
(A) कीदृशः 
(B) काः 
(C) के 
(D) कथम्। 
उत्तरम् :
(A) कीदृशः 


उद्भिज्ज-परिषद्

उद्भिज्ज-परिषद्

जेसीईआरटी तथा एनसीईआरटी के कक्षा-12 के संस्कृत पाठ्यपुस्तक-शाश्वती भाग 2 के  एकादशः पाठ: उद्भिज्ज-परिषद्  का शब्दार्थ सहित हिन्दी अनुवाद एवं भावार्थ तथा उस पर आधारित प्रश्नोत्तर सीबीएसई सत्र-2022-2023 के लिए यहाँ दिए गए हैं।यहाँ दिए गए हिंदी अनुवाद तथा भावार्थ की मदद से विद्यार्थी पूरे पाठ को आसानी से समझकर अभ्यास के प्रश्नों को स्वयं कर सकते हैं।
अथ सर्वविधविटपिनां मध्यभागे स्थितः सुमहान् अश्वत्थदेवः वदति-"भो भो वनस्पतिकुलप्रदीपा महापादपाः कुसुमकोमलदन्तरुचः लता-कुलललनाश्च ! सावहिताः शृण्वन्तु भवन्तः। अद्य मानववार्रवास्माकं समालोच्यविषयः। मानवा नाम सर्वासु सृष्टिधारासु निकृष्टतमा सृष्टिः, जीवसृष्टिप्रवाहेषु मानवा इव पर-प्रतारकाः स्वार्थसाधनपराः, मायाविनः, कपट-व्यवहारकुशलाः, हिंसानिरताः, जीवाः न विद्यन्ते। भवन्तो नित्यमेवारण्यचारिणः सिंहव्याघ्रप्रमुखान् हिंस्रत्वभावनया प्रसिद्धान् श्वापदान् अवलोकयन्ति। ततो भवन्त एव कथयन्तु याथातथ्येन किमेते हिंसादिक्रियासु मनुष्येभ्यो भृशं गरिष्ठाः।श्वापादानां हिंसाकर्म किल जठरानलनिर्वाणमात्रप्रयोजकम्। प्रशान्तजठरानले सकृदुपजातायां स्वोदरपूर्ती नहि ते करतलगतानपि हरिणशशकादीन् उपघ्नन्ति। न वा तथाविध-दुर्बलजीवानां घातार्थम् अटवीतोऽटवीं परिभ्रमन्ति।
हिन्दी-अनुवादः सभी प्रकार के वृक्षों के मध्यभाग में स्थितं विशाल अश्वत्थदेव (पीपल का वृक्ष) कहता है-“हे हे वनस्पतिकुल के दीपक महान् पौधो! और पुष्प रूपी कोमल दाँतों से सुशोभित लतावंश की ललनाओ" आप ध्यानपूर्वक सुनिए - आज मनुष्य व्यवहार ही हमारी आलोचना का विषय है। सभी सृष्टिधाराओं में सबसे निकृष्ट सृष्टि मनुष्य ही है। जीव सृष्टिप्रवाहों में मनुष्य की भाँति पर-पीड़क, स्वार्थपरायण, मायावी, कपट-व्यवहार में कुशल, हिंसा में संलग्न जीव नहीं हैं। आप नित्य ही जंगलों में घूमने वाले हिंसात्मक भावना के लिए प्रसिद्ध सिंह, व्याघ्र आदि पशुओं को देखते हैं। फिर आप ही ठीक-ठीक बताएँ कि क्या ये (पशु) हिंसक-क्रियाओं में मनुष्यों से बढ़कर हैं।पशुओं का हिंसाकर्म पेट की आग बुझाने मात्र के लिए होता है। जठराग्नि के शान्त हो जाने पर, एक बार अपनी उदरपूर्ति हो जाने पर वे (पशु) हाथ में आए हुए हिरण, खरगोश आदि को भी नहीं मारते। और न ही इस प्रकार के दुर्बल प्राणियों को मारने के लिए वे एक जंगल से दूसरे जंगल में घूमते हैं। 
मनुष्याणां हिंसावृत्तिस्तु निरवधिः। पशुहत्या तु तेषाम् आक्रीडनम्। केवलं विक्लान्तचित्तविनोदाय महारण्यम् उपगम्य ते यथेच्छं निर्दयं च पशुघातं कुर्वन्ति। तेषां पशुप्रहार-व्यापारमालोक्य जडानामपि अस्माकं विदीर्यते हृदयम्। 
हिन्दी-अनुवादः -मनुष्यों की हिंसावृत्ति तो असीम है। पशुहत्या तो उनका खेल है। केवल अपने बेचैन मन को प्रसन्न करने के लिए बड़े जंगल में जाकर वे जी-भरकर निर्दयतापूर्वक पशुवध करते हैं। उनके पशुप्रहार के व्यवहार को देखकर हम जड़ वृक्षों का हृदय भी फट जाता है। 
निरन्तरम् आत्मोन्नतये चेष्टमानाः लोभाक्रान्त-हृदयाः मनुजन्मानः किल प्रतिक्षणं स्वार्थसाधनाय सर्वात्मना प्रवर्तन्ते। न धर्ममनुधावन्ति, न सत्यमनुबध्नन्ति। परं तृणवद् उपेक्षन्ते स्नेहम्। अहितमिव परित्यजन्ति आर्जवम्। अमङ्गलमिव उपघ्नन्ति विश्वासम्। न स्वल्पमपि बिभ्यति पापाचारेभ्यः न किञ्चिदपि लज्जन्ते मुहुरनृतव्यवहारात्। नहि क्षणमपि विरमन्ति परपीडनात्। 
हिन्दी-अनुवादः -निरन्तर अपनी उन्नति के लिए प्रयत्नशील, लोभ से ग्रस्त हृदय वाले मनुष्य सब प्रकार से अपनी स्वार्थसाधना के लिए प्रतिक्षण लगे रहते है। न धर्माचरण करते हैं, न सत्य को स्वीकारते हैं; अपितु स्नेह (= प्राणिमात्र के प्रति प्यार) को अतितुच्छ समझकर उसकी उपेक्षा करते हैं। सरलता को हानिकर वस्तु की भाँति त्याग देते हैं। विश्वास को अमंगल (= अपशकुन) समझकर नष्ट कर देते हैं। पापाचार से वे थोड़ा भी नहीं डरते। बार-बार के झूठे व्यवहार से उन्हें थोड़ी सी भी लज्जा नहीं होती। दूसरों को पीडित करने से वे क्षणभर भी विराम नहीं लेते। 
न केवलमेते पशुभ्यो निकृष्टास्तृणेभ्योऽपि निस्सारा एव। तृणानि खलु वात्यया सह स्वशक्तितः सुचिरमभियुध्य सम्मुखसमरप्रवर्तमाना वीरपुरुषा इव शक्तिक्षये क्षितितले निपतन्ति, न तु कदाचित् कापुरुषा इव स्वस्थानम् अपहाय प्रपलायन्त। मनुष्याः पुनः स्वचेतसा एव भविष्यत-समये संघटिष्यमाणं कमपि विपत्पातमाकलय्य परिकम्पमानकलेवराः दुःख-दुःखेन समयमतिवाहयन्ति। परिकल्पयन्ति च पर्याकुला बहुविधान् प्रतिकारोपायान् येन मनुष्यजीवने शान्तिसुखं मनोरथपथादतिक्रान्तमेव। 
हिन्दी-अनुवादः -वे (मनुष्य) न केवल पशुओं से भी अधिक निकृष्ट हैं, (अपितु) तिनकों से भी अधिक तुच्छ हैं। तिनके तो आँधी के साथ अपनी शक्ति के अनुसार देर तक लड़कर, सम्मुख उपस्थित युद्ध में लगे हुए वीर पुरुषों की भाँति शक्तिक्षीण होने पर धरती पर गिर जाते हैं, न कि एक बार भी कायरों की तरह अपना स्थान छोड़कर भागते हैं। मनुष्य तो फिर अपने मन (ज्ञान) से ही भविष्य में होने वाली किसी विपत्ति का विचार कर कँपकँपाते शरीर वाले बड़े कष्टपूर्वक अपना समय बिताते हैं। और अति व्याकुल होकर प्रतिकार के लिए अनेक प्रकार के उपाय करते हैं, जिसके कारण मनुष्य जीवन में शान्ति और सुख उनके मनोरथ के मार्ग से दूर ही रहते हैं। 

अथ ते तावत्तृणेभ्योऽप्यसाराः पशुभ्योऽपि निकृष्टतराश्च। तथा च तृणा-दिसृष्टेरनन्तरं तथाविधजीवनिर्माणं विश्वविधातुः कीदृशं नाम बुद्धिमत्ताप्रकर्षं प्रकटयति। इत्येव हेतुप्रमाणपुरस्सरं सुचिरं बहुविधं विशदं च व्याख्याय सभापतिरश्वत्थदेव उद्भिज्ज-परिषद् विसर्जयामास।                                                                 हिन्ही-अनुवादः -इस प्रकार वे (मनुष्य) तिनकों से भी तुच्छ तथा पशुओं से भी निकृष्ट हैं। वनस्पति आदि की सृष्टि के पश्चात् इस प्रकार के जीवों (मनुष्यों) का निर्माण करना विश्व के सजनहार विधाता की कैसी बुद्धिमत्ता की अधिकता को प्रकट करता है ? इस प्रकार कारण और प्रमाण निर्देशपूर्वक बहुत देर तक, बहुत प्रकार से तथा विस्तृत व्याख्या करके सभापति अश्वत्थदेव (पीपल-देव) ने वृक्षों की सभा को विसर्जित किया।


प्रश्न 1. 
संस्कृतभाषया उत्तरत - 
(क) “उद्भिज्जपरिषद्' इति पाठस्य लेखकः कः अस्ति ? 
(ख) उद्भिजपरिषदः सभापतिः कः आसीत् ? 
(ग) अश्वत्थमते मानवाः तृणवत् कम् उपेक्षन्ते ? 
(घ) सृष्टिधारासु मानवो नाम कीदृशी सृष्टिः ?
(ङ) मनुष्यायाणां हिंसावृत्तिः कीदृशी ? 
(च) पशुहत्या केषाम् आक्रीडनम् ? 
(छ) श्वापदानां हिंसाकर्म कीदृशम् ? 
उत्तरम् :
(क) 'उद्भिज्जपरिषद्' इति पाठस्य लेखकः पण्डित-हृषीकेश-भट्टाचार्यः अस्ति। 
(ख) उद्भिज्जपरिषदः सभापतिः अश्वत्थ-देवः आसीत्। 
(ग) अश्वत्थमते मानवाः तृणवत् स्नेहम् उपेक्षन्ते।
(घ) सृष्टिधारासु मानवो नाम निकृष्टतमा सृष्टि: ? 
(ङ) मनुष्यायाणां हिंसावृत्तिः निरवधिः अस्ति। 
(च) पशुहत्या मनुष्याणाम् आक्रीडनम्। 
(छ) श्वापदानां हिंसाकर्म जठरानलनिर्वाणमात्रप्रयोजकम् अस्ति।

प्रश्न 2. 
रिक्तस्थानानि पुरयत - 
(क) मानवा नाम सर्वासु सृष्टिधारासु ..................सृष्टिः। 
(ख) मनुष्याणां .................. निरवधिः। 
(ग) नहि ते करतलगतानपि .............. उपघ्नन्ति। 
(घ) परं तृणवद् उपेक्षन्ते..................। 
(ङ) न केवलमेते पशुभ्यो निकृष्टास्तृणेभ्योऽपि ................ एव। 
उत्तरम् :
(क) मानवा नाम सर्वासु सृष्टिधारासु निकृष्टतमा सृष्टिः। 
(ख) मनुष्याणां हिंसावृत्तिः निरवधिः। 
(घ) विधि: - मनुष्याणां मनोविनोदाय वा मायाविनः सन्ति। 
(ग) नहि ते करतलगतानपि हरिण-शशकादीन् उपघ्नन्ति। 
(घ) परं तृणवद् उपेक्षन्ते स्हेनम्।
(ङ) न केवलमेते पशुभ्यो निकृष्टास्तृणेभ्योऽपि निस्साराः एव। 

प्रश्न 3. 
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत - 
मायाविनः, श्वापदान्, निरवधिः, विसर्जयामास, बिभ्यति, पर्याकुला:, लज्जन्ते, विरमन्ति, कापुरुषाः, प्रकटयति। 
उत्तरम् :
(वाक्यप्रयोगः) 
(क) मायाविनः - सृष्टिधारासु मानवाः सर्वाधिकाः मायाविनः सन्ति। 
(ख) श्वापदान् - मानवाः स्वमनोविनोदाय श्वापदान् हन्ति। 
(ग) निरवधि: - मनुष्याणां हिंसावृत्तिः निरवधिः अस्ति।
(घ) विसर्जयामास - सभापतिः सभां विसर्जयामस। 
(ङ) बिभ्यति - मानवाः पापाचारेभ्यः किमपि न बिभ्यति। 
(च) पर्याकुला: - विपत्तिषु मानवाः पर्याकुलाः भवन्ति। 
(छ) लजन्ते - मानवाः अनृतव्यवहारात् किञ्चिद् अपि न लज्जन्ते। 
(ज) विरमन्ति - स्वार्थसाधनपरा: मानवाः परपीडनात् न विरमन्ति। 
(झ) कापुरुषा: - कापुरुषाः तु आत्मरक्षाम् अपि कर्तुं न शक्नुवन्ति। 
(ञ) प्रकटयति - शिशुः क्रोधं प्रकटयति। 
प्रश्न 4. 
सप्रसगं हिन्दीभाषया व्याख्या कार्या - 
मनुष्याणां हिंसावृत्तिस्तु निरवधिः। पशुहत्या तु तेषाम् आक्रीडनम्। केवलं विक्लान्तचित्तविनोदाय महारण्यम् उपगम्य ते यथेच्छं निर्दयं च पशुघातं कुर्वन्ति। तेषां पशुप्रहार-व्यापारमालोक्य जडानामपि अस्माकं विदीर्यते हृदयम्। 
उत्तरम् :
प्रसंग - प्रस्तुत गद्यांश हमारी पाठ्यपुस्तक 'शाश्वती-द्वितीयो भागः' के 'उद्भिज्ज-परिषद्' नामक पाठ से लिया गया है। यह पाठ पण्डित हृषीकेश भट्टाचार्य के निबन्धसंग्रह 'प्रबन्ध-मञ्जरी' से संकलित है। इस निबन्ध में वृक्षों की सभा के सभापति पीपल ने मनुष्य की हिंसक प्रवृत्ति के प्रति तीखा व्यंग्य-प्रहार किया गया है।
सा के दो प्रमख रूप हैं - (1) स्वाभाविक भख की शान्ति के लिए हिंसा (2) मन बहलाने के लिए हिंसा। मांस मनुष्य का स्वाभाविक भोजन नहीं है। परन्तु सिंह-व्याघ्र आदि पशुओं का स्वाभाविक भोजन मांस ही है। अतः ऐसे पशुओं को न चाहते हुए भी केवल पेट की भूख शान्त करने हेतु पशुवध करना पड़ता है। 

परन्तु इन पशुओं की यह विशेषता भी है कि भूख शान्त होने पर पास खड़े हुए हिरण आदि का भी ये वध नहीं करते। पशुओं का पशुवध भूख शान्ति तक ही सीमित होता है। परन्तु मनुष्य की पशुहिंसा असीम है। क्योंकि वह तो अपने बेचैन मन की प्रसन्नता के लिए ही पशुवध करता है। मनुष्य की इस विलक्षण एवं भयावह हिंसावृत्ति पर वृक्षों की सभा के सभापति अश्वत्थ (पीपल) को अत्यन्त खेद है और जड़ होने पर भी मनुष्य के इस दुष्कर्म से उसका हृदय फटा जा रहा है। 
प्रश्न 5. 
प्रकृति-प्रत्ययविभागः क्रियताम् - 
निकृष्टतमा, उपगम्य, प्रवर्तमाना, अतिक्रान्तम्, व्याख्याय, कथयन्तु, उपजन्ति, आक्रीडनम्। 
उत्तरम् :
प्रश्न 6. 
सन्धिच्छेदं कुरुत - 
मानवा इव, भवन्तो, स्वोदरपूर्तिम्, हिंसावृत्तिस्तु, आत्मोन्नतिम्, स्वल्पमपि। 
उत्तरम् :
(क) मानवा इव = मानवाः + इव 
(ख) भवन्तो नित्यम् = भवन्तः + नित्यम् 
(ग) स्वोदरपूर्तिम् = स्व + उदरपूर्तिम् 
(घ) हिंसावृत्तिस्तु = हिंसावृत्तिः + तु 
(ङ) आत्मोन्नतिम् = आत्म + उन्नतिम् 
(च) स्वल्पमपि = सु + अल्पम् + अपि 
प्रश्न 7. 
अधोलिखितानां समस्तपदानां विग्रहं कुरुत - 
महापादपाः, सृष्टिधारासु, करतलगतान्, वीरपुरुषाः, शान्तिसुखम्। 
उत्तरम् :
(क) महापादपाः - महान्तः पादपाः-कर्मधारयः। 
(ख) सृष्टिधारासु - सृष्टिः एव धारा, तासु-कर्मधारयः। 
(ग) करतलगतान् - करतलं गतान्-द्वितीया-तत्पुरुषः। 
(घ) वीरपुरुषाः - वीराः पुरुषा:-कर्मधारयः। 
(ङ) शान्तिसुखम् - शान्तिः च सुखं च तयोः समाहारः-द्वन्द्वः। 

बहुविकल्पीयाः प्रश्नाः
I. पुस्तकानुसारं समुचितम् उत्तरं चित्वा लिखत - 
(i) 'उद्भिज्जपरिषद्' इति पाठस्य लेखकः कः अस्ति ? 
(A) आर्यभट्टः 
(B) हृषीकेश: भट्टाचार्यः 
(C) बाणभट्टः 
(D) अम्बिकादत्तव्यासः। 
उत्तरम् :
(B) हृषीकेश: भट्टाचार्यः 
(ii) उद्भिज्जपरिषदः सभापतिः कः आसीत्? 
(A) देवाधिपतिः 
(B) देवराज इन्द्रः 
(C) आम्रः 
(D) अश्वत्थदेवः। 
उत्तरम् :
(C) आम्रः 
(iii) अश्वत्थमते मानवाः तृणवत् कम् उपेक्षन्ते? 
(A) आत्मानम् 
(B) खगान् 
(C) स्नेहम् 
(D) पशून्।
उत्तरम् :
(B) खगान् 
(iv) सृष्टिधारासु मानवो नाम कीदृशी सृष्टिः ? 
(A) उत्कृष्टतमा 
(B) निकृष्टतमा 
(C) उत्तमा 
(D) बृहत्तमा। 
उत्तरम् :
(A) उत्कृष्टतमा
(v) मनुष्याणां हिंसावृत्तिः कीदृशी ? 
(A) निरवधिः 
(B) सावधिः 
(C) मासावधिः 
(D) वर्षावधिः। 
उत्तरम् :
(A) निरवधिः 
(vi) पशुहत्या केषाम् आक्रीडनम् ? 
(A) पुरुषाणाम् 
(B) स्त्रीणाम् 
(C) सिंहानाम् 
(D) मनुष्याणाम्। 
उत्तरम् :
(D) मनुष्याणाम्। 
II. रेखाङ्कितपदम् आधृत्य-प्रश्ननिर्माणाय समुचितं पदं चित्वा लिखत - 
(i) सावहिताः शृणवन्तु भवन्तः।  
(A) कः 
(B) के 
(C) को 
(D) काः। 
उत्तरम् :
(B) के 
(ii) मनुष्याणां हिंसावृत्तिस्तु निरवधिः। 
(A) केषाम् 
(B) कस्याम्
(C) कस्मात् 
(D) कैः। 
उत्तरम् :
(A) केषाम् 
(iii) मनुजन्मानः प्रतिक्षणं स्वार्थसाधनाय प्रवर्तन्ते। 
(A) कम् 
(B) के 
(C) किमर्थम्
(D) कथम्। 
उत्तरम् :
(B) के
(iv) मानवाः क्षणमपि परपीडनात् न विरमन्ति।
(A) कस्मात् 
(B) कम् 
(C) किम् 
(D) किमर्थम्।
उत्तरम् :
(D) किमर्थम्।
(v) मनुष्याः महारण्यम् उपगम्य यथेच्छं पशुघातं कुर्वन्ति ? 
(A) के 
(B) काः 
(C) कस्मै 
(D) किम्। 
उत्तरम् :
(A) के 
(vi) जीवसृष्टिप्रवाहेषु मानवाः इव हिंसानिरताः जीवाः न विद्यन्ते। 
(A) के 
(B) कथम् 
(C) कीदृशाः 
(D) काः। 
उत्तरम् :
(B) कथम्