संस्कृत सामान्य अध्ययन
*महाकाव्यम्-
महाकाव्यं सर्गैः निबद्धं भवति । तत्र अष्टाधिकसर्गाः अवश्यमेव भवेयुः। महाकाव्ये धीरोदात्तादिगुणयुक्तं नायकं भवति । शृङ्गारवीरशान्तकरुणरसेषु एकः रसः मुख्यः भवति तथा अन्ये रसाः तस्य अङ्गभूताः भवन्ति । काव्यस्य उपजीव्यम् ऐतिहासिकम् अथवा सज्जनाश्रितं भवति । महाकाव्यस्य फलं चतुर्वर्गेषु एकं भवति । लज्जास्पदविषयस्य महाकाव्येषु वर्णनं न क्रियते । महाकाव्यस्य उदाहरणं यथा रघुवंशम्, कुमारसम्भवम् इत्यादि ।
*खण्ड काव्यम्-
महाकाव्यस्य एकदेशानुसारि खण्डकाव्यं भवति। खण्डकाव्ये एकदेश एव चित्रितो भवति।खण्डकाव्यं हि वस्तुतो लघुकाव्यमेव।खण्डकाव्ये जीवनस्य एकस्यैव पक्षस्य चित्रितो भवति।खण्डकाव्ये जीवनस्य एक एव पक्षस्य अधिकतया प्रस्तूयते।खण्डकाव्यं लघुकलेवरं भवति।खण्डकाव्यं हि मुख्यतश्चतुर्विधं दृश्यते शार्ङ्गरिकम्, धार्मिकम्, नैतिकं साङ्ग्राहिकञ्च ।
* नाटकम्-
यः नाटयित्वा सहृदयानां संतोषः उत्पन्न: करोति सः नाटकम् अस्ति।अत्र दुःखजनकस्य सुखजनकस्य च वृत्तान्तस्य वर्णनं भवति । नाटके पञ्च सन्धय: सति- मुखम्, प्रतिमुखम्, गर्भः, विमर्शः, निर्वहणं च। अस्मिन् श्रङ्गारादि विशिष्टरसाः भविन्त । अस्मिन न्यूनतमः पञ्च अङ्का भवन्ति तथा अधिकतम,दश अङ्काः भवन्ति । उत्तररामचरिते सप्त अङ्काः सन्ति। मालविकाग्निमित्रम् नाटके सप्त अङ्काः सन्ति।वेणीसंहारे अभिज्ञानशाकुन्तले च षट् अङ्काः सन्ति।
*गद्यकाव्यम्-
छन्द रहित रचना गद्य काव्यम् अस्ति । कृष्णयजुर्वेदे गद्यः प्रयुक्तः अस्ति। गद्यकाव्यम लेखने सुविधा जनकं भवति ।अथर्ववेदे अपि गद्यः प्रयुक्तः अस्ति। आयुर्वेदे ज्योतिषे च अपि गद्यः प्रयुक्तः अस्ति। भाषणे अपि गद्यः सरलः भवति।
*पद्यकाव्यम्-
छन्द युक्त रचना पद्य काव्यम् अस्ति।वेदे,पुराणे च पद्यः प्रयुक्तःअस्ति। यस्मिन् काव्ये केवलं पद्यानि एव विराजन्ते तत् पद्यकाव्यम् उच्यते । अत्र कविना श्लोकैः एव विषयस्य वर्णनम् क्रियते।संस्कृत साहित्ये पञ्च महाकाव्यानि सन्ति-रघुवंशम्, कुमारसम्भवम्, किरातार्जुनीयम्, शिशुपालवधम्, नैषधीयचरितम्।
*चम्पूकाव्यम्-
गद्यपद्यमिश्रितं काव्यं चम्पूकाव्यं कथ्यते। चम्पूकाव्येषु तु गद्यपद्ययोः मात्रा प्रायेण समाः भवति।चम्पूकाव्यं वर्णनप्रधानम् भवति। इदम् अलङ्कारबहुलं एवं सरसं भवति। पञ्चतन्त्रम् प्रसिद्धम् चम्पूकाव्यम् अस्ति।अन्य चम्पूकाव्यं अस्ति-नलचम्पूः,चम्पूरामायणम्,गङ्गावतरणचम्पूः तथा रामचन्द्रचम्पूः इत्यादिकम्।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें
जयतु संस्कृतम्।