संस्कृत आदर्श प्रश्नपत्रम्-5
CLASS-XII,
Full Marks - 100 Pass Marks - 33
Time - 3 Hours
Candidates are required to give their answers in their own words as far as
practicable.
परीक्षार्थी यथासंभव अपने शब्दों में ही उत्तर दें।
Figures in the margin indicate full marks.
उपांत के अंक पूर्णांक निर्दिष्ट करते हैं।
Answer all questions.
सर्वेषां प्रश्नानामुत्तरं लिखत । (सभी प्रश्नों के उत्तर लिखें)
खण्ड - क
( अपठितांश अवबोधनम् )
1. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत - 10
मातृभूमिः पुत्रोऽहं पृथिव्याः इत्यस्ति वेदवाक्यम् । जन्मदात्री माता एव केवलं माता न भवतिजन्मभूमिरपि अस्माकं माता । अस्याः जन्मभूम्याः ऋणं प्रत्येकम् अपि देशवासिने वर्तते । यस्य देशस्यअन्नेन अमृततुल्येन जलेन वायुना च प्राणान् धारयामः वयं कदापि तस्मात् अनृणाः भवितुं न शक्नुमः । यस्मिन् देशे जनाः स्वदेशस्य सुखदुःखाभ्यां निश्चिन्ताः केवलं स्वार्थ साधयन्ति सः देश: कालक्रमेण विनाशं लभते । परं यस्य देशवासिषु देशसेवायाः उत्कृष्टाः भावनाः अवसरे प्राप्ते सति आत्मार्पणमपि कुर्वन्ति, तेषां देशः उन्नतेः उन्नततमे शिखरे विराजते ।
प्रश्नाः
(क) एकपदेन उत्तरत -1x2=2
(i) जन्मभूमिरपि अस्माकं का ?-1
(ii) जन्मभूम्याः ऋणं कस्मै वर्त्तते ?-1
(ख) पूर्णवाक्येन उत्तरत -2x2=4
(i) कः देशः उन्नतेः उन्नततमे शिखरे विराजते ?-2
(ii) जन्मभूम्याः ऋणं कस्मै वर्त्तते ?-2
(ग) निर्देशानुसारम् उत्तरत -1x2=2
(i) 'अस्याः ऋणम्' अत्र अस्याः सर्वनामपदं कस्मै प्रयुक्तम् ?-1
(ii) 'ऋण रहिताः' अस्मिन् अर्थे किं पदं गद्यांशे प्रयुक्तम् ?-1
(घ) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।-
2 खण्ड -ख
(संस्कृतेन रचनात्मकं लिखितकार्यम् )
2.शुल्कक्षमाम् अधिकृत्य प्राचार्यं प्रति आवेदनपत्रं लिखत।-5
3. मञ्जूषायाः उचितानि पदानि विचित्य कथां पूरयत -1/2x10 = 5
वसन्तर्तुः ऋतूणां (i)----- कथ्यते। (ii)------ अयं (iii)------- ऋतुराजवसन्तनाम्ना (iv) प्रकृतिः ऋतुराजवसन्तस्य (v)----- अभिनन्दनं स्वागतं (vi)------- करोति । वसन्तः प्रकृति-कामिन्याः (vii) - करोति । वस्तुतः वसन्तः प्रकृतेः (viii)----- अस्ति । यतः अस्य ऋतोः (ix)-------- प्रकृतिः (x) जायते।
मञ्जूषा- शृंगारम्, ऋतुः, आगमनेनैव, राजां, तारुण्यम्, अतएव, आकार्यते, प्रफुल्लिता, हार्दिकम, च
4. मञ्जूषायाः उचितानि वाक्यानि चित्वा वार्तालापं पूरयत -5
राघवः - भो रमणीक ! भवान् कथम् ईदृशः महान् जातः ?
रमणीकः – (i)-----
राघवः - भोः ! कथं मूर्खाणां कृपया भवान् बुद्धिमान् जातः ?
रमणीकः – (ii)-----।
राघवः – एवम् । परेषाम् अनुभवात् शिक्षां गृहीत्वा भवान् बुद्धिमान् जातः किम् ?
रमणीक: – (iii)-----
राघवः – कः तावत् मूर्खः ?
रमणीकः – (iv) ।
राघवः - कः तावत् मूर्खतमः ?
रमणीक: – (v)
मञ्जूषा- सत्यम् । यः परेषाम् अनुभवात् शिक्षते सः एव बुद्धिमान् ।, यः न अन्यस्य न चापि आत्मनः अनुभवात् शिक्षते।, यः परस्य अनुभवात् न शिक्षते, पुनः आमूलात् प्रयत्न करोति, मूर्खाणां कृपया एव ।, आम्। अहं मूर्खेः कृतानि कार्याणि अपश्यं तानि अत्यजम् ।
खण्ड - ग
( अनुप्रयुक्त व्याकरणम् )
5. अधोलिखितशब्दान् सन्धि-विच्छेदं कृत्वा लिखत - 1x6 = 6
(क) देवर्षि
(ख) तथैव
(ग) चयनम्
(घ) मात्रादेशः
(ङ) लघूर्मिः
(च) प्रत्यहम् ।
6. अधोलिखितानां समस्तपदानां विग्रहान् लिखत -1x6 = 6
(i) कुलपतिः,
(ii) गजराजः,
(iii) महादेवः,
(iv) महानदी,
(v) नीलकमलम्,
(vi) चौरभयम्
7. अधोलिखित वाक्येषु प्रकृति-प्रत्ययान् संयुज्य वाक्यपूर्ति कुरुत -1x8 =8 (i) (पूज्+अनीयर्) ............. सर्वत्र पूज्यते ।
(ii) रामः रावणं (हन् + क्त्वा) .............स्वगृहम् आगतवान्।
(ii) उत्तमः छात्रः प्रतिदिनं ( पठ् + तुमुन् ) ....विद्यालयं गच्छति ।
(iv) त्वया सर्वदा सत्यं ( वद् + अनीयर् ) .......।
(v) प्रथमं राष्ट्र ( रक्ष् +तव्यत्).............. ततः उत्सवाः इति ।
(vi) शिष्येण गुरोः आज्ञा ( पाल् + अनीयर् ) ............।
(vii) छात्रैः अध्ययनम्(कृ +तव्यत्)................।
(viii)मोहनः गृहं(गम्+ क्त्वा)................खादति।
(i) पुस्तके ............... चित्राणि सन्ति । ( अनेक )
(ii) गोपालस्य हस्ते ........... पेटिका वर्त्तते । ( एक )
(iii) सर्वे जनाः ................ सन्ति ।( प्रसन्न )
(iv) गृहस्य प्राङ्गणे पुष्पपादपाः ................ । ( रोपनीय )
(v) पर्यावरणस्य विनाशकः .................. स्यात् । ( दण्डित )
9.उचितविभक्तिकं पदं चित्वा रिक्तस्थानानि पूरयत -1x5 = 5
(i) ――― जनाः सुखम् कामयन्ते । (सर्व)
(ii) सूर्यः――― दिशि उदेति । (पूर्व )
(iii) लता परीक्षायाम् ――― आसीत् । (प्रथम)
(iv) रामः धावेन――― आसीत् । (द्वितीय)
(v) बालकय मोदकं――― (रोचते/रुचति)
खण्ड-घ
( पठितांश अवबोधनम् )
10.अधोलिखित गद्यांश पठित्वा तदाधारितप्रश्नानाम् उत्तराणि निर्देशानुसार
लिखत (निम्नलिखित गद्यांशको पढ़कर उन पर आधारित प्रश्नों कश
लिखें) :
सप्त समुद्राः अस्मद्वेदेऽपि प्रकटाः भवन्ति।वृक्षाःलेखनी भवेयुः
समुद्रोऽपि मसी भवेत्,परं भगवद्वाक्यानि समाप्तानि न भवन्ति। प्रतिद्वीपं
प्रतिपर्वतं प्रतिसमुद्रं नानाजातयोऽनन्ता जन्तवस्तिष्ठन्ति। या पृथिवी ये
पर्वताः ये समुद्रा सर्वाभ्यः पृथिवीभ्यः सर्वेभ्यः पर्वतेभ्यः सर्वेभ्यः समुद्रेभ्यः
उपरि तिष्ठन्ति तान् 'स्वर्गं' इति वदन्ति। या पृथिवी ये पर्वताः ये समुद्राः
सर्वाभ्यः पृथिवीभ्यः सर्वेभ्यः पर्वतेभ्यः सर्वेभ्यः समुद्रेभ्योऽधो भागे तिष्ठन्ति
स 'नरक' इति वदन्ति।निश्चितं किल सिद्धैः स्वर्गनरकादिकं सर्वं
ब्रह्माण्डान्न किञ्चिद्वहिरस्तीति।ते सप्तगगनाश्रिताः सप्त ग्रहाः स्वर्गं परितो
मेखलावत् परिभ्रमन्तीति वदन्ति; न स्वर्गस्योपरि। अथ स्वर्गस्य यदि मन
आकाशं जानन्ति अस्मदीयास्तमर्श इति वदन्ति। स्वर्गभूमिं कुर्शीति
वदन्ति।
(क) एक पदेन उत्तरत (एक शब्द में उत्तर दें): 1/2✕2=1
(i) कति समुद्राः अस्मद्वेदेऽपि प्रकटाः भवन्ति?
(ii) कानि समाप्तानि न भवन्ति ?
(ख) पूर्ण वाक्येन उत्तरत (एक वाक्य में उत्तर दें): 1x2=2
(i)प्रतिद्वीपं,प्रतिपर्वतं,प्रतिसमुद्रं के तिष्ठन्ति ?
(ii) कान् 'स्वर्गं' इति वदन्ति ?
(ग) यथानिर्देशम् उत्तरत (निर्देश के अनुसार उत्तर दें): 1x2=2
'जन्तवः' इति पदस्य विशेषणम् अत्र किं प्रयुक्तम् ?
11.अधोलिखित पद्यांश पठित्वा तदाधारित प्रश्नानाम् उत्तराणि
निर्देशानुसार लिखत(निम्नलिखित गद्यांश, पद्यांश एवं नाट्यांश को
पढ़कर उन पर आधारित प्रश्नों के उत्तर लिखें) :
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥
प्रश्नाः-
(क) एकपदेन उत्तरत (एकशब्द में उत्तर दें): 2x1/2=1
(i)बुद्धियुक्तो किं जहाति ?
(ii) कर्मसु किम् कौशलम् ?
(ख) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें): 1x2=2
(i)कः सुकृतदुष्कृते उभे जहाति ?
(ii) कदा योगाय युज्यते ?
(ग)निर्देशानुसारं उत्तरत (निर्देश के अनुसार उत्तर दें):1x2=2
‘बुद्धिमान्' इत्यस्य अत्र किं पर्यायपदं प्रयुक्तम्?
12. अधोलिखित नाट्यांश पठित्वा तदाधारित प्रश्नानाम् उत्तराणि
निर्देशानुसार लिखत(निम्नलिखित नाट्यांश को पढ़कर उन पर
आधारित प्रश्नों के उत्तर लिखें) :
स्वप्निलः- बलराम! अद्य कक्षायां कोऽपि विशिष्टः कार्यक्रमः?
बलरामः-अरे मित्र! त्वं न जानासि? इदानीं तु योगशिक्षायाः कालांशः।
मोहिनी-एषः तु नूतनः विषयः। किं प्रतिदिनम् ईदृशी कक्षा प्रचलिष्यति? बलरामः-आम्, अधुना तु अस्माकं कृते योगशिक्षा अतीव उपयोगिनी आस्ति।
सागरिका-अहो! सुखदमाश्चर्यम्।अहमपि गृहे मातुः मुखाद् योगशिक्षायाः विषये श्रुतवती। तया उक्तम्- 'योगः स्वास्थ्यकरः।'
सागरः-कि विद्याध्ययनेऽपि अस्योपयोगः वर्तते?
मोहिनी-आम्,अस्मिन् विषये योगशिक्षकः, विशेषरूपेण वदिष्यति।
(योगशिक्षकः कक्षायां प्रविशति)
छात्राः-नमो नमः आचार्य! स्वागतम् अत्र भवतां कक्षायाम्।
योगाचार्यः-छात्राः! भवन्तः सम्प्रति समुत्सुकाः दृश्यन्ते। काऽपि विशिष्टा जिज्ञासाअस्ति किम्?
सागरः-भो आचार्य! वयं सर्वे योगस्य उपयोगितायाः विषये सम्यग्रूपेण ज्ञातुम् उत्सुकाः स्मः।
प्रश्नाः
(क) एकपदेन उत्तरत (एकशब्द में उत्तर दें): 1/2x2=1
(i)मातुः मुखाद् योगशिक्षायाः विषये का श्रुतवती ?
(ii)छात्राः कस्मिन् विषये ज्ञातुम् उत्सुकाः सन्ति ?
(ख)पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें)-2x1=2
(i)योगः कः कथ्यते?
(ii)अधुना योगशिक्षा कीदृशी आस्ति?
(ग) यथानिर्देशम् उत्तरत (निर्देश के अनुसार उत्तर दें)।-1
'अस्योपयोगः' इत्यस्य सन्धिविच्छेदं लिखत।
13.अधोलिखित श्लोकस्य अन्वयै पूरयित्वा पुनः लिखत :
(निम्नलिखित श्लोक का अन्वय पूरा कर पुनः लिखें):
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्।।
अन्वयः-विपदि---अथाभ्युदये क्षमा---वाक्पटुता युधि विक्रमः
यशसि अभिरुचि श्रुतौ---च हि इदं--- प्रकृतिसिद्धम्।
14.अधोलिखितस्य श्लोकस्य अन्वयं लिखत -
स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्॥
15.सम्बद्धाः पङ्क्ति मेलयत-2x2=4
(क)मनसि वचसि काये (i)निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ।
(ख)परगुणपरमाणून् पर्वतीकृत्य नित्यं (ii)पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।
(ग)केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला: (iii)क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।
(घ) वाण्येका समलङ्करोति पुरुष या संस्कृता धार्यते (iv)न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः।16. अधोलिखित वाक्येषु कर्तृक्रियापदयोः अन्वितिं क्रियताम् - 1☓4=4
(क)किं प्रतिदिनम् ईदृशी कक्षा---- ?(प्रचलिष्यन्ति,प्रचलिष्यति)
(ख)अधुना मम गमनसमयः----एव।(समुपागत,समुपागत्वा)
(ग)योगाचार्यः पाठमाध्यमेन योगशिक्षा---- ।(शिक्षति,शिक्षयति)
(घ)सप्त पर्वतान् सप्त कुलाचलान्----।(वदन्ति,वदति)
17. निम्नलिखित पदेषु कः प्रत्ययः इति निर्दिशत -1☓4=4
(क)राजितम्
(ख)दैष्टिकता
(ग)कुर्वाणः
(घ)विमृश्य
खण्ड -ङ
(संस्कृत साहित्य परिचयः)
18. अधोलिखित-ग्रन्थानां लेखकस्य नामानि लिखत -5
(i)रामायणम्
(ii)समुद्संगमः
(iii)अभिज्ञान शाकुन्तलम्,
(iv)प्रबन्ध परिजातः
(v) हर्षचरितम्
19. अधोलिखित विधासु कामपि एकाम् अवचित्य वैशिष्ट्यं प्रतिपादयत -5
(i)चम्पूकाव्यम्
(ii) नायकः
(iii)महाकाव्यम्
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें
जयतु संस्कृतम्।