कार्यं वा साधयेयम्, देहं वा पातयेयम्
प्रश्न 1.
संस्कृतेन उत्तरं दीयताम् -
(क) सायं समये भगवान् भास्कर: कुत्र जिगमिषुः भवति ?
(ख) अस्ताचलगमनकाले भास्करस्य वर्णः कीदृशः भवति ?
(ग) नीडेषु के प्रतिनिवर्तन्ते ?
(घ) शिववीरस्य विश्वासपात्रं किं स्थानं प्रयाति स्म ?
(ङ) प्रतिक्षणमधिकाधिका श्यामतां कानि कलयन्ति ?
(च) शिववीरविश्वासपात्रस्य उष्णीषम् कीदृशमासीत् ?
(छ) मेघमाला कथं शोभते ?
उत्तरम् :
(क) सायं समये भगवान् भास्करः अस्तं जिगमिषुः भवति।
(ख) अस्ताचलगमनकाले भास्करस्य वर्णः अरुणः भवति।
(ग) नीडेषु कलविड्काः प्रतिनिवर्तन्ते।
(घ) शिववीरस्य विश्वासपात्रं तोरणदुर्गं प्रयाति स्म।
(ङ) प्रतिक्षणमधिकाधिका श्यामतां वनानि कलयन्ति।
(च) शिववीरविश्वासपात्रस्य उष्णीषं राजतसूत्रितम्, बहुल-चाकचक्यम्, वक्रम्, हरितवर्णं च आसीत्।
(छ) मेघमाला दीर्घशुण्डमण्डितानां दिग्गजानां दन्तावलाः इव भयानकाकारा शोभते।
प्रश्न 2.
समीचीनोत्तरसङ्ख्यां कोष्ठके लिखत -
अ. शिवराजविजयस्य रचयिता कः अस्ति ?
(क) बाणभट्टः
(ख) श्रीहर्षः
(ग) अम्बिकादत्तव्यासः
(घ) माघः
उत्तरम् :
(ग) अम्बिकादत्तव्यासः
आ. कतिवर्षदेशीयो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म।
(क) चतुर्दशवर्षदेशीयः
(ख) द्वादशवर्षदेशीयः
(ग) पञ्चदशवर्षदेशीयः
(घ) षोडशवर्षदेशीयः
उत्तरम् :
(घ) षोडशवर्षदेशीयः।
इ. शिववीरस्य विश्वासपात्रं किम् आदाय तोरणदुर्गं प्रयाति ?
(क) संवादम् आदाय
उत्तर :
(ख) पत्रम् आदाय
(ग) पुष्पगुच्छम् आदाय
(घ) अश्वम् आदाय
उत्तरम् :
(ख) पत्रम् आदाय
प्रश्न 3.
रिक्तस्थानानि पूरयत।
(क) अथाकस्मात् परितो मेघमाला ................ प्रादुरभूत्।
(ख) क्षणे क्षणे ................खुराश्चिक्कणपाषाणखण्डेषु प्रस्खलन्ति।
(ग) पदे पदे ................ वृक्षशाखाः सम्मुखमाघ्नन्ति।
(घ) कृतप्रतिज्ञोऽसौ ................ निजकार्यान्न विरमति।
उत्तरम् :
(क) अथाकस्मात् परितो मेघमाला पर्वतश्रेणी: इव प्रादुरभूत्।
(ख) क्षणे क्षणे हयस्य खुराश्चिक्कणपाषाणखण्डेषु प्रस्खलन्ति।
(ग) पदे पदे दोधूयमानाः वृक्षशाखाः सम्मुखमाघ्नन्ति।
(घ) कृतप्रतिज्ञोऽसौ शिववीरचरः निजकार्यान्न विरमति।
प्रश्न 4.
अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत
भास्करः मेघमाला, वनानि, मार्गः वीरः, गगनतलम्, झञ्झावातः मासः, सायम्।
उत्तरम् :
(वाक्यप्रयोगः)
(क) भास्करः (सूर्यः) - पूर्वदिशायां भास्करः उदयति।
(ख) मेघमाला (मेघसमूहः) - मेघमाला आकाशम् आच्छादयति।
(ग) वनानि (अरण्यानि) - नगरं परितः वनानि सन्ति।
(घ) मार्गः (पन्थाः) - महान्धकारे मार्गः न अवलोक्यते।
(ङ) वीरः (वीर्यवान्) - युद्धे वीरः एव जयति।
(च) गगनतलम् (आकाशतलम्) - रात्रौ अन्धकार: गगनतलम् आच्छादयति।
(छ) झञ्झावातः (वात्याचक्रम्, 'तूफान' इति हिन्दीभाषायाम्) - सहसा झञ्झावातः प्रादुरभवत्।
(ज) मासः ('महीना' इति हिन्दी भाषायाम्) - मासोऽयम् आषाढः।
(झ) सायम् (सन्ध्यासमय:) - सायं समये भगवान् भास्करः अस्तं गच्छति।
प्रश्न 5.
अधोलिखितानां पदानां सन्धिच्छेदं कृत्वा सन्धिनिर्देशं कुरुत
तस्यैव, शिखराच्छिखराणि, कोऽपि, प्रादुरभूत्, अथाकस्मात्, कार्यान्न।
(क) तस्यैव
= न + एव
(ख) शिखराच्छिखराणि = शिखरात् + शिखराणि
(ग) कोऽपि = कः + अपि
(घ) प्रादुरभूत् = प्रादुः + अभूत्
(ङ) अथाकस्मात् = अथ + अकस्मात्
(च) कार्यान्न = कार्यात् + न।
प्रश्न 6.
अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत -
प्रयुक्तः, उत्थितः, उत्प्लुत्य, रुतैः, उपत्यकातः, उत्थितः, ग्रस्यमानः।
उत्तरम् :
(क) प्रयुक्तः = प्र + √युज् + क्त (पुंल्लिङ्गम् प्रथमा-एकवचनम्)
(ख) उत्थितः = उत् + √स्था + क्त (पुंल्लिङ्गम्, प्रथमा-एकवचनम्)
(ग) उत्प्लुत्य = उत् + √प्लु + ल्यप् (अव्यय)
(घ) रुतैः = रु + क्त। (नपुंसकलिङ्गम्, तृतीया-एकवचनम्)
(ङ) उपत्यकातः = उपत्यका + तसिल > तस् (अव्ययपदम्)
(च) 'ग्रस्यमानः = √ग्रस् (कर्मवाच्ये) + शानच् (पुंल्लिङ्गम्, प्रथमा-एकवचनम्)
प्रश्न 7.
अलङ्कारनिर्देशं कुरुत -
(1) वदनाम्भोजेन
(2) दिगन्तदन्तावल:
(3) सिन्दूरद्रवस्नातानामिव वरुणदिगवलम्बिनाम्।
उत्तरम् :
(1) वदनाम्भोजेन - रुपकः अलङ्कारः
(2) दिगन्तदन्तावल: - अनुप्रासः अलङ्कारः
(3) सिन्दूरद्रवस्नातामिव वरुणदिगवलम्बिनाम् - उत्प्रेक्षा अलङ्कारः
प्रश्न 8.
विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत -
मेघमाला, महान्धकारः, पवर्तश्रेणी:, महोत्साहः, विश्वासपात्रम्, हरितोष्णीषशोभितः।
उत्तरम् :
(क) मेघमाला = मेघानां माला (षष्ठी-तत्पुरुषः)
(ख) महान्धकारः = महान् अन्धकारः (कर्मधारयः)
(ग) पर्वतश्रेणी: = पर्वतानां श्रेणी: (षष्ठी-तत्पुरुषः)
(घ) महोत्साहः = महान् उत्साहः (कर्मधारयः)
(ङ) विश्वासपात्रम् = विश्वासस्य पात्रम् (षष्ठी-तत्पुरुषः)
(च) हरितोष्णीषशोभितः = हरितेन उष्णीषेण शोभितः (तृतीया-तत्पुरुषः)
प्रश्न 9.
पाठ्यांशस्य सारं हिन्दीभाषया आङ्ग्लभाषया वा लिखत -
उत्तरम् :
पाठ का सार पहले दिया जा चुका है, वहीं देखें।
प्रश्न 10.
पाठ्यांशे प्रयुक्तानि अव्ययानि चित्वा लिखत -
उत्तरम् :
च (और)
सायम् (सायंकाल)
इव (की तरह, मानो)
अथ (इसके बाद, फिर)
अकस्मात् (अचानक)
परितः (चारों ओर)
परतः (दूसरी ओर)
ततः (उसके बाद)
उपर्युपरि (ऊपर-ऊपर)
एव (ही)
अपि (भी)
तावत् (तभी)
अकस्मात् (अचानक)
पुनः (फिर)
इह (यहाँ, इस विषय में)
न (नहीं)
परम् (परन्तु)
वा (अथवा, या)
इति (यह, इसप्रकार)
प्रतिक्षणम् (पल-पल)
आदाय (लेकर)
पर्वतश्रेणीतः (पर्वतश्रेणी से)
अधित्यकातः (अधित्यका से)
उपत्यकातः (उपत्यका से)
बहुविकल्पीया: प्रश्नाः
I. पुस्तकानुसारं समुचितम् उत्तरं चित्वा लिखत -
(i) सायं समये भगवान् भास्करः कुत्र जिगमिषुः भवति ?
(A) गङ्गायाम्
(B) समुद्रम्
(C) अस्तम्
(D) उदयम्।
उत्तरम् :
(B) समुद्रम्
(ii) अस्ताचलगमनकाले भास्करस्य वर्णः कीदृशः भवति ?
(A) अरुणः
(B) हरितः
(C) श्वेतः
(D) पीतः।
उत्तरम् :
(A) अरुणः
(iii) नीडेषु के प्रतिनिवर्तन्ते ?
(A) गर्दभाः
(B) अश्वाः
(C) गजाः
(D) कलविकाः।
उत्तरम् :
(D) कलविकाः।
(iv) शिववीरस्य विश्वासपात्रं किं स्थानं प्रयाति स्म ?
(A) वनानि
(B) चित्राणि
(C) भवनानि
(D) भुवनानि।
उत्तरम् :
(A) वनानि
II. रेखाङ्कितपदम् आधृत्य प्रश्ननिर्माणाय समुचितं पदं चित्वा लिखत -
(i) अकस्मात् परितो मेघमाला पर्वतश्रेणी: इव प्रादुरभूत्।
(A) कया।
(B) केन
(C) का
(D) कम्।
उत्तरम् :
(C) का
(ii) क्षणे क्षणे हयस्य खुराश्चिक्कणपाषाणखण्डेषु प्रस्खलन्ति।
(A) कस्य
(B) कया
(C) कस्मात्
(D) कस्मिन्।
उत्तरम् :
(A) कस्य
(iii) पदे पदे दोधूयमानाः वृक्षशाखाः सम्मुखमाघ्नन्ति।
(A) काः
(B) कीदृश्यः
(C) कति
(D) के।
उत्तरम् :
(B) कीदृश्यः
(iv) कृतप्रतिज्ञोऽसौ शिववीरचरः निजकार्यान्न विरमति।
(A) कस्मात्
(B) कस्याः
(C) कस्मिन्
(D) कः।
उत्तरम् :
(D) कः।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें
जयतु संस्कृतम्।