कर्मगौरवम्
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥1॥
(यह श्लोक श्रीमद्भगवद्गीता के द्वितीय अध्याय का पचासवाँ श्लोक है।)
बुद्धियुक्तः = इसमत्व बुद्धि युक्त पुरुष
सुकृत दुष्कृते = पुण्य पाप
उभे= दोनों को
इह= इस लोकमें
(एव) = ही
जहाति=त्याग देता है अर्थात् उनसे लिपायमान नहीं होता ।
तस्मात् = इससे
योगाय =समत्वबुद्धि योगके लिये ही
युज्यख = चेष्टा कर
( यह)
योगः = समत्वबुद्धिरूप
योगः=योग ही
कर्मसु = कर्मों में
कौशलम्=चतुरता है अर्थात् कर्म बन्धन से छूटनेका उपाय है।
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥2॥
(यह श्लोक श्रीमद्भगवद्गीता के तृतीय अध्याय का आठवाँ श्लोक है।)
त्वम् =तूं
नियतम् =शास्त्र विधि से नियत किये हुए
कर्म=स्वधर्मरूप कर्म को
कुरु=कर
हि =क्योंकि
अकर्मणः =कर्म न करने की अपेक्षा
कर्म = कर्म करना
ज्यायः = श्रेष्ठ है
च = तथा
अकर्मणः =कर्म न करने से
ते = तेरा
शरीरयात्रा= शरीरनिर्वाह
अपि = भी
न= नहीं
प्रसिद्ध्येत् = सिद्ध होगा।
न कर्मणामनारम्भानैष्कर्म्यम् पुरुषोऽश्नुते।
न च सन्यसनादेव सिद्धिं समधिगच्छति ॥3॥
(यह श्लोक श्रीमद्भगवद्गीता के तृतीय अध्याय का चौथा श्लोक है।)
पुरुषः= मनुष्य
न=न (तो)
कर्मणाम् = कर्मों के
अनारम्भात्= करनेसे
नैष्कर्म्यम् = निष्कर्मताको
अश्नुते= प्राप्त होता है
च =और
संन्यसनात् एव= कर्मों को त्यागने मात्र से
सिद्धिम् =भगवत् साक्षात्कार रूप सिद्धिको
समधिगच्छति= प्राप्त होता है
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते झवश: कर्म सर्वः प्रकृतिजैर्गुणैः ॥4॥
(यह श्लोक श्रीमद्भगवद्गीता के तृतीय अध्याय का पाँचवाँ श्लोक है।)
हि =क्योंकि
कश्चित् = कोई भी (पुरुष)
जातु =किसी काल में
क्षणम् =क्षणमात्र
अपि= भी
अकर्मकृत् = बिना कर्म किये
न = नहीं
तिष्ठति = रहता है
हि =निःसन्देह
सर्वः =सब (ही पुरुष)
प्रकृतिजैः = प्रकृतिसे उत्पन्न हुए
गुणैः = गुणों द्वारा
अवशः = परवश हुए
कर्मं = कर्म
कार्यते = करते हैं।
तस्मादसक्तः सततं कार्यं कर्म समाचर।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥5॥
(यह श्लोक श्रीमद्भगवद्गीता के तृतीय अध्याय का उन्नीसवाँ श्लोक है।)
तस्मात्= इससे (तूं)
असक्तः = अनासक्त हुआ
सततम् = निरन्तर
कार्यम् = कर्तव्य
कर्म= कर्मका
समाचर=अच्छी प्रकार आचरण कर
हि =क्योंकि
असक्तः =अनासक्त
पूरुषः =पुरुष
कर्म= कर्म
आचरन् =करता हुआ
परम् = परमात्माको
आप्नोति =प्राप्त होता है
कर्मणैव हि संसिद्धिमास्थिता जनकादयः।
लोकसहमेवापि सम्पश्यन्कर्तुमर्हसि ॥6॥
(यह श्लोक श्रीमद्भगवद्गीता के तृतीय अध्याय का बीसवाँ श्लोक है।)
जनकादयः=जनकादि ज्ञानीजन भी(आसक्तिरहित)
कर्मणा = कर्मद्वारा
एव= ही
संसिद्धिम् = परमसिद्धिको
आस्थिताः = प्राप्त हुए हैं
हि =इसलिये (तथा)
लोकसंग्रहम् = लोकसंग्रहको
संपश्यन् = देखता हुआ
अपि =भी ( तूं )
कर्तुम्= कर्म करनेको
एव=ही
अर्हसि= योग्य है
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥7॥
(यह श्लोक श्रीमद्भगवद्गीता के तृतीय अध्याय का एक्कीसवाँ श्लोक है।)
श्रेष्ठः=(क्योंकि) श्रेष्ठ पुरुष
यत्=जो
यत् = जो
आचरति = आचरण करता है
इतरः = अन्य
जनः= पुरुष (भी)
तत् = उस
तत् = उसके
एव =ही
(अनुसार बर्तते हैं)
सः = वह पुरुष
यत् = जो कुछ
प्रमाणम् =प्रमाण
कुरुते= कर देता है
लोकः =लोग (भी)
तत् = उसके
अनुवर्तते = अनुसार वर्तते हैं।
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥8॥
(यह श्लोक श्रीमद्भगवद्गीता के तृतीय अध्याय का छब्बीसवाँ श्लोक है।)
विद्वान् =ज्ञानी पुरुष (को चाहिये कि)
कर्मसङ्गिनाम् = कर्मों मेंआसक्ति वाले
अज्ञानाम् =अज्ञानियों की
बुद्धिभेदम् =बुद्धि में भ्रम अर्थात् कर्मों मेंअश्रद्धा
न जनयेत् = उत्पन्न न करे(किन्तु स्वयं)
युक्तः =परमात्माके स्वरूप में स्थित हुआ (और)
सर्वकर्माणि= सब कर्र्मो को
समाचरन्= अच्छी प्रकार करता हुआ
(उनसे भी वैसे ही)
जोषयेत् = करावे।
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते॥9॥
(यह श्लोक श्रीमद्भगवद्गीता के चौथे अध्याय का बाइसवाँ श्लोक है।)
यदृच्छालाभसंतुष्टः=अपने आप जो कुछ आ प्राप्त हो उसमें ही संतुष्ट रहनेवाला (और)
द्वन्द्वातीतः = हर्षशोकादि द्वन्द्वों से अतीत(तथा)
विमत्सरः = मत्सरताअर्थात् ईर्षा से रहित
सिद्धौ = सिद्धि और
असिद्धौ च = और असिद्धि में
समः= समत्व भाववाला पुरुष (कर्मों को)
कृत्वा =करके अपि भी
न= नहीं
निबध्यते =बंधता है।
सुखदुःखसमे कृत्वा लाभालाभौ जयाजयो।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥10।।
(यह श्रीमद्भगवद्गीता के द्वितीय अध्याय का अडतीसवाँ श्लोक है।)
सुखदुःखे = सुख दुःख
लाभालाभौ = लाभ हानि(और)
जयाजयौ= जय पराजय को
समे= समान
कृत्वा =समझकर
ततः = उसके उपरान्त
युद्धाय = युद्ध के लिये
युज्यस्व =तैयार हो
एवम् =इस प्रकार
(युद्ध करनेसे)(तूं)
पापम् = पापको
न=नहीं
अवाप्स्यसि=प्राप्त होगा।
अनाश्रितः कर्मफलं कार्य कर्म करोति यः।
स सन्यासी च योगी च न निरग्निर्न चाक्रियः॥11॥
(यह श्लोक श्रीमद्भगवद्गीता के छठे अध्याय पहला का श्लोक है।)
यः= जो पुरुष
कर्मफलम् = कर्मके फलको
अनाश्रितः = न चाहता हुआ
कार्यम् = करने योग्य
कर्म = कर्म
करोति = करता है
सः = वह
संन्यासी =संन्यासी
च =और
योगी = योगी है
च = और (केवल)
निरग्निः=अग्नि को त्यागनेवाला
(संन्यासी योगी)
न = नहीं है
च=तथा(केवल) (क्रियाओंको
अक्रियः= क्रियाओं को त्यागनेवाला
(भीसंन्यासी योगी)
न=नहीं है।
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।
कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्॥12॥
(यह श्लोक श्रीमद्भगवद्गीता के तृतीय अध्याय का पचीसवाँ श्लोक है।)
भारत= हे भारत
कर्मणि = कर्म में
सक्ताः = आसक्त हुए
अविद्वांसः =अज्ञानीजन
यथा = जैसे
कुर्वन्ति = कर्म करते हैं
तथा= वैसे ही
असक्तः = अनासक्त हुआ
विद्वान् = विद्वान् (भी)
लोकसंग्रहम्=लोक शिक्षा को
चिकीर्षुः = चाहता हुआ
कुर्यात् = कर्म करे।
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥13॥
(यह श्लोक श्रीमद्भगवद्गीता के द्वितीय अध्याय का सैंतालीसवाँ श्लोक है।)
ते = तेरा
कर्मणि = कर्म करने मात्र में
एव =ही
अधिकारः = अधिकार होवे
फलेषु =
कदाचन = कभी
मा = नहीं (और तूं)
कर्मफलहेतुः=कर्मों के फल की वासनावाला
मा=(भी)मत
भूः =हो (तथा)
ते =तेरी
अकर्मणि= कर्म न करनेमें(भी)
सङ्गः= प्रीति
मा =न
अस्तु = होवे।
प्रश्न 1.
संस्कृतभाषया उत्तरत -
(क) अयं पाठः कस्मात् ग्रन्थात् सङ्कलितः ?
(ख) अकर्मणः किं ज्यायः ?
(ग) जनकादयः केन सिद्धिम् आस्थिताः ?
(घ) लोकः कम् अनुवर्तते ?
(ङ) बुद्धियुक्तः अस्मिन् संसारे के जहाति ?
(च) केषाम् अनारम्भात् पुरुषः नैष्कर्म्यं न प्राप्नोति ?
उत्तरम् :
(क) 'भगवद्गीता' ग्रन्थात् सङ्कलितः।
(ख) अकर्मणः कर्म ज्यायः।
(ग) जनकादयः कर्मणा एव सिद्धिम् आस्थिताः।
(घ) यद् यद् आचरति श्रेष्ठ: लोकः तत् अनुवर्तते।
(ङ) बुद्धियुक्तः अस्मिन् संसारे सुकृतदुष्कृते जहाति।
(च) कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्यं न प्राप्नोति।
प्रश्न 2.
नियतं कुरु कर्म त्वं .......... प्रसिद्ध्येदकर्मणः अस्य श्लोकस्य आशयं हिन्दीभाषया स्पष्टीकुरुत।
उत्तरम् :
द्वितीय श्लोक के सरलार्थ एवं भावार्थ का उपयोग करें।
प्रश्न 3.
'यद्यदाचरति ......... लोकस्तदनुवर्तते' अस्य श्लोकस्य अन्वयं लिखत।
उत्तरम् :
सप्तम श्लोक का अन्वय देखें।
प्रश्न 4.
अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत -
यथा -
वशः - अवशः उत्तरसहितम्
(क) बुद्धिहीनः - बुद्धियुक्तः
(ख) दुष्कृतम् - सुकृतम्
(ग) अकौशलम् - कौशलम्
(घ) न्यूनः - ज्यायः
(ङ) कर्मणः - अकर्मणः
(च) दुर्गुणैः - गुणैः
(छ) कदाचित् - सततम्
(ज) निकृष्टः - श्रेष्ठः
प्रश्न 5.
अधोलिखितेषु पदेषु सन्धिच्छेदं कुरुत -
जहातीह, ह्यकर्मणः, शरीरयात्रापि, पुरुषोऽश्नुते, तिष्ठत्यकर्मकृत्, प्रकृतिजैर्गुणैः, कर्मणैव, लोकस्तदनुवर्तते, जनयेदज्ञानाम्
(क) जहातीह = जहाति + इह
(ख) ह्यकर्मणः = हि + अकर्मण:
(ग) शरीरयात्रापि = शरीरयात्रा + अपि
(घ) पुरुषोऽश्नुते = पुरुषः + अश्नुते
(ङ) तिष्ठत्यकर्मकृत् = तिष्ठति + अकर्मकृत्
(च) प्रकृतिजैर्गुणैः = प्रकृतिजैः + गुणैः
(छ) कर्मणैव = कर्मणा + एव
(ज) लोकस्तदनुवर्तते = लोकः + तत् + अनुवर्तते
(झ) जनयेदज्ञानाम् = जनयेत् + अज्ञानाम्
प्रश्न 6.
अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देशं कुरुत -
जहाति, युज्यस्व, कुरु, अश्नुते, समधिगच्छति, तिष्ठति, आप्नोति, अनुवर्तते, जनयेत्, जोषयेत्।
उत्तरम् :
- जहाति - (√हा) लट्लकार, प्रथम पुरुष, एकवचन।
- युज्यस्व - (√युज्) लोट्लकार, मध्यम पुरुष, एकवचन।
- कुरु - (√कृ) लोट्लकार, मध्यम पुरुष, एकवचन।
- अश्नुते - (√अश्) लट्लकार, प्रथम पुरुष, एकवचन।
- समधिगच्छति - (√सम् + अधि√गम्) लट्लकार, प्रथम पुरुष, एकवचन।
- तिष्ठति - (√स्था) लट्लकार, प्रथम पुरुष, एकवचन।
- आप्नोति - (√आप) लट्लकार, प्रथम पुरुष, एकवचन।
- अनुवर्तते - (अनु √वृत्) लट्लकार, प्रथम पुरुष, एकवचन।
- जनयेत् - (√जिन्) विधिलिङ्, प्रथम पुरुष, एकवचन।
- जोषयेत् - (√जुष्) विधिलिङ्, प्रथम पुरुष, एकवचन।
प्रश्न 7.
अधोलिखतवाक्येषु रेखाकितपदानां विभक्तीनां निर्देशं कुरुत -
(क) योगः कर्मसु कौशलम्।
(ख) जीवने नियतं कर्म कुरु।
(ग) कर्मणा एव जनकादयः संसिद्धिम आस्थिताः।
(घ) अकर्मणः कर्म ज्यायः।
(ङ) कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्यं न अश्नुते।
उत्तरम् :
(क) कर्मसु - कर्मन्, षष्ठी-विभक्तिः, एकवचनम्।
(ख) कर्म - कर्मन्, द्वितीया-विभक्तिः, एकवचनम्।
(ग) कर्मणा - कर्मन्, तृतीया-विभक्तिः, एकवचनम्।
(घ) अकर्मणः - अकर्मन्, पञ्चमी-विभक्तिः, एकवचनम्।
(ङ) कर्मणाम् - कर्मन्, षष्ठी-विभक्तिः, एकवचनम्।
प्रश्न 8.
प्रदत्तमञ्जूषायाः समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु -
अनारतम्, मनीषा, गात्रम्, दुष्कर्म, प्राज्ञः, कलुषम्, शेमुषी, अविरतम्, कोविदः, कायः, मतिः, पातकम् , देहः, मनीषी, अश्रान्तम्।
उत्तरसहितम् :
प्रश्न 9.
कर्म आश्रित्य संस्कृभाषायां पञ्च वाक्यानि लिखत -
उत्तरम् :
(i) अकर्मणः कर्म ज्यायः भवति।
(ii) अकर्मणः शरीरयात्रा अपि न सम्भवति।
(iii) अतः असक्तः सततं कर्तव्यं कर्म समाचरेत्।
(iv) जनकादयः कर्मणा एव संसिद्धिम् आस्थिताः।
(v) योगः कर्मसु कौशलम्।
प्रश्न 10.
पाठे प्रयुक्तस्य छन्दसः नाम लिखत -
उत्तरम् :
'अनुष्टुप् छन्दः।
प्रश्न 11.
जनः कीदृशैः गुणैः कार्यं करोति ? अधोलिखितं श्लोकमाधृत्य लिखत -
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवश: कर्म सर्वः प्रकृतिजैर्गुणैः॥
उत्तरम् :
जनः प्रकृतिजैः गुणैः कार्यं करोति। अतः कश्चित् अपि क्षणमपि अकर्मकृत् न तिष्ठति।
बहुविकल्पीय-प्रश्नाः
I. समुचितम् उत्तरं चित्वा लिखत -
(i) अकर्मणः किं ज्यायः।
(A) कर्म
(B) विकर्म
(C) सत्कर्म
(D) कुकर्म।
उत्तरम् :
(A) कर्म
(ii) जनकादयः केन सिद्धिम् आस्थिताः ?
(A) अकर्मणा
(B) विकर्मणा
(C) कर्मणा
(D) सत्कर्मणा।
उत्तरम् :
(C) कर्मणा
(iii) बुद्धियुक्तः अस्मिन् संसारे के जहाति?
(A) सुकृते
(B) दुष्कृते
(C) अकर्मणी
(D) सुकृतदुष्कृते।
उत्तरम् :
(D) सुकृतदुष्कृते।
(iv) केषाम् अनारम्भात् पुरुषः नैष्कर्म्यं न प्राप्नोति ?
(A) निष्कर्मताम्
(B) कर्मणाम्
(C) निष्कर्मणाम्
(D) स्वार्थकर्मणाम्।
उत्तरम् :
(B) कर्मणाम्
(v) कैः गुणैः सर्वः अवशः कर्म कार्यते?
(A) प्रकृतिजैः
(B) पूर्वसञ्चितैः
(C) प्रारब्धैः
(D) सुसंस्कारैः।
उत्तरम् :
(A) प्रकृतिजैः
II. रेखाङ्कितपदम् आधृत्य प्रश्ननिर्माणाय समुचितं पदं चित्वा लिखत -
(i) अस्माकम् कर्मणि अधिकारः वर्तते।
(A) केषाम्
(B) कस्य
(C) कस्मिन्
(D) कस्याः।
उत्तरम् :
(C) कस्मिन्
(ii) अकर्मणः कर्म ज्यायः।
(A) केषाम्
(B) कस्मात्
(C) कुत्र
(D) केन।
उत्तरम् :
(B) कस्मात्
(iii) जनकादयः कर्मणा एव सिद्धिम् आस्थिताः।
(A) केन
(B) कस्मात्
(C) कस्यै
(D) कस्मै।
उत्तरम् :
(A) केन
(iv) योगः कर्मसु कौशलम्।
(A) कः
(B) किम्
(C) केषु
(D) कम्।
उत्तरम् :
(C) केषु
(v) जीवने नियतं कर्म कुरु।
(A) कीदृशम्
(B) किम्
(C) कुत्र
(D) कुतः।
उत्तरम् :
(A) कीदृशम्
योग्यताविस्तारः
अधोलिखितानां सूक्तीनामध्ययनं कृत्वा प्रस्तुतपाठेन भावसाम्यम् अवधत्त -
1. गच्छन् पिपीलको याति योजनानां शतान्यपि।
अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति॥
2. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रवशन्ति मुखे मृगाः॥
3. कर्मणा जायते सर्वं, कर्मैव गतिसाधनम्।
तस्मात् सर्वप्रयलेन, साध कर्म समाचरेत्॥
4. चरन्वै मधु विन्दति, चरन् स्वादुमुदम्बरम्।
सूर्यस्य पश्य श्रेमाणं, यो न तन्द्रयते चरन्।
5. जलबिन्दुनिपातेन क्रमश: पूर्यते घटः।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥
6. दुष्कराण्यपि कार्याणि, सिध्यन्ति प्रोद्यमेन वै।
शिलापि तनुतां याति, प्रपातेनार्णसो मुहुः॥
7. कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति, न कर्म लिप्यते नरे॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें
जयतु संस्कृतम्।