expr:class='"loading" + data:blog.mobileClass'>

गुरुवार, 10 अप्रैल 2025

झारखंड अधिविद्या परिषद,वार्षिक परीक्षा-2025

झारखंड अधिविद्या परिषद,
वार्षिक परीक्षा-2025
भाग-अ
(बहुविकल्पीय प्रश्नः )
प्रश्नसङ्ख्या १ तः ३० पर्यन्तं बहुविकल्पप्रकारः भवति।प्रत्येकस्य प्रश्नस्य चत्वारः विकल्पाः सन्ति । सम्यक् विकल्पं चित्वा उत्तरपत्रे लिखन्तु। प्रत्येकं प्रश्नः १ अङ्कस्य अस्ति। -1 x 30 = 30
प्रश्न संख्या 1-30 वस्तुनिष्ठप्रश्नाः सन्ति ।
सर्वे प्रश्नाः समानाङ्काः ।
सर्वे प्रश्नाः अनिवार्याः ।
प्रदत्तेषु विकल्पेषु समुचितम् उत्तरं चिनुत ।
अपठितांश-अवबोधनम्-
निर्देश-अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः उत्तरत-
अनुच्छेदः-
संगणकं तु विज्ञानस्य अत्यधिकं विकसितं बुद्धिमत् च यन्त्रस्ति। मुद्रण सञ्चार-सैन्य-चिकित्सा-विज्ञानादिक्षेत्रेषु अस्य व्यापकः प्रभावः दृश्यते । असाधारणी अस्ति गणनशक्तिः स्मरणशक्तिः च।अनलसम् अविरतं च कर्म करोति इदम्। आधुनिकयुगस्य तु कल्पवृक्षः अयम्। परमद्यतनीयाः जनाः अलसाः भूत्वा लघुकार्याय अपि सङ्गणकाश्रिताः भवन्ति। 'बुद्धेः विकासः अवरुद्धः न भवेत्' अतः जागरुकाः भूत्वा अस्य प्रयोगः कर्तव्यः। बाला: अपि दिनानुदिनम् क्रीडा-कारणेन अस्य वशीभूताः जायमानाः सन्ति। ते बहिः क्रीडितुं न इच्छन्ति येन शारीरिकविकासः सम्पक्त्या न जायमानो वर्तते।
प्रश्नाः
1.अद्यतनीयुगस्य कल्पवृक्ष: किं मन्यते?
(A) स्मरणशक्ति: 
(B) सड्गणकम् 
(C) कल्पवृक्षः 
(D) विकास: 
2. सड्गणकस्य स्मरणशक्ति: कीदृशी ?
 (A) अनलसम्
 (B) जागरुका:
 (C) असाधारणी
 (D) चिकित्सा
 3. 'अनलसम् अविरतं च कर्म करोति इदम् ।' अस्मिन् वाक्ये क्रियापदं किम् ?
 (A) करोति
 (B) अविरतं 
(C) अनलसम्
 (D) कर्म 
4. 'व्यापकः प्रभावः' अत्र विशेषणपदं किम् ? 
(A) पक: 
(B) भाव: 
(C) प्रभाव:
 (D) व्यापक:
 5. 'कार्यम्' इति पदस्य समानार्थकं पदम् अनुच्छेदात् चित्चा लिखत । 
(A) क्रीडितुं 
(B) अविरतं 
(C) कर्म 
(D) असाधारणी
पठितावबोधनम्- 
निर्देश : 
अधोलिखितं गद्यांशं, पद्यं, नाट्य च पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः- 
गद्यांशः-
 'इत्येवं विचार्य सर्वस्वदक्षिणं यज्ञं कर्तुमुपक्रान्तवान् । ततः शिल्पिभिरतीव मनोहरो मण्डपः कारितः। सर्वापि यज्ञसामग्री समाहृता। देवमुनिगन्धर्वसिद्धाश्च समुद्राह्वानार्थं कश्चिद् ब्राह्यणः समुद्रतीरे प्रेषितः। गन्धपुष्पादिषोडशोपचारं विधायाSब्रवीत्।" 
6. शिल्पिभिः कः कारितः ? 
(A) गृहम् 
(B) मूर्ति:
(C) मनोहरमण्डपः 
(D) विद्यालय: 
7. कस्य आह्वानार्थं ब्राह्मणः प्रेषितः ?
 (A) समुद्रस्य
 (B) देवस्य 
(C) पुत्रस्य 
(D) असुरस्य 
8. 'कारुभिः' अस्य क: पर्याय: ?
 (A) लताभि: 
(B) मातृभिः 
(C) शिल्पिभि: 
(D) सर्वाभिः
9. 'आगत्य' अस्य विलोमपदं किम् ?
 (A) आगम्य 
(B) प्रणम्य 
(C) अवगम्य 
(D) गत्वा 
10. 'विचार्य' पदे कः प्रत्ययः प्रयुक्तः ?
 (A) ल्यप् 
(B) अनीयर्
 (C) क्त्वा
 (D) शतृ 
पद्यम्-
 "पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्रम, 
दीर्घग्रीव: स भवति, खुरास्तस्य चत्वार एव।
 शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाप्रमात्रान्,
 किं व्याख्यानैव्रजति स पुनर्दूरमेहपेहि यामः ॥"
11. दीर्घग्रीवः क: भवति ? 
(A) अज:
(B) अश्व: 
(C) कपोतः 
(D) वराह:
12. अश्वः कानि अत्ति ? 
(A)शष्पाणि 
(B) आम्राणि 
(C)कमलानि 
(D) नेत्राणि 
13. 'सततम्' अस्य केः पर्यायः ? 
(A)सत्यम् 
(B) अजस्रम् 
(C) असत्यम् 
(D) खुराः 
14.'अग्रे' अस्य विलोमपदं किम् ? 
(A)विपुलम् 
(B) दीर्घग्रीवः 
(C) पश्चात् 
(D) तच्च 
15. 'भवति' पदे कः लकारः ? 
(A) लट् 
(B) लृट् 
(C) लोट् 
(D) लङ्
नाट्यांशः- 
"कौसल्या जात ! अस्ति ने माता ? स्मरसि वा तातम् ? 
लवः-नहि । 
कौसल्या-ततः कस्य त्वम् ? 
लवः-भगवतः सुगृहीतनामधेयस्य वाल्मीकेः. । 
कौसल्या-अयि जात । कथयितव्यं कथय। 
लवः-एतावदेव जानामि । (प्रविश्य सम्भ्रान्ताः) 
वटवः-कुमार! कुमार! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते,सोऽयमधुनाऽस्माभिः स्वयं प्रत्यक्षीकृतः।" 
16. 'वाल्मीकेः' अस्य किं विशेषणम् ? 
(A) सुगृहीतनामधेयस्य 
(B) कुमारः 
(C) भूतविशेषो 
(D) कोऽपि 
17. अस्माभिः कः भूतविशेषः प्रत्यक्षीकृतः ?
(A) अजः
(B) चित्रकः
(C)व्याघ्रः
(D)अश्वः
18. भूतविशेषोऽश्व कुत्र अनुश्रूयते ?
(A) ग्रामेषु
(B)जनपदेषु
(C) वनेषु
(D)गृहेषु
19. 'अनुश्रूयते' अस्य कर्तृपदं किम् ?
(A) बटवः
(B) लवः
(C) कौसल्या
(D) जनकः
20, 'कथयितव्यं' पदे कः प्रत्ययः प्रयुक्तः ?
(A) क्त्त्वा
(B) क्त
(C) तव्यत्
(D) ल्यप्
निर्देश: रेखांकित पदानि आधृत्य प्रश्ननिर्माणं कुरुत।
21. श्रीनायार: स्वल्पभाषी आसीत् ।
(A) कः
(B) कीदृश:
(C)केन
(D) कुत्र
22. तस्य राज्येन सह कश्चित् सम्पर्कः नास्ति ।
(A) कः
(B) कीदृशः
(C) केन
(D) कुत्र
23. पत्रस्य अर्घाधिकं भागं अनुधारा आर्द्राकरोति स्म ।
(A)कस्य
(B) कीदृशः
(C) केन
(D) कुत्र
24. श्रीदासः तत्पत्रमुद्घाटितवान् ।
(A)कः
(B) कीदृशः
(C) केन
(D) कुत्र
25 भगवान् त्वां दीर्घजीवनं कारयतु ।
(A) कः
(B) कीदृशः
(C) केन
(D) काम्
निर्देशः निर्देशानुसारम् उत्तरं चिनुत-
26. विद्ययाऽमृतमश्नुते' पाठः कस्मात् ग्रंथात् संकलितः ?
(A) तैत्तिरीयोपनिषदः
(B)ईशावास्योपनिषदः
(C) मुंडकोपनिषदः
(D) मांडूक्योपनिषदः
27. रघुवंशात् कः पाठः संकलितः ?
(A)रघुकौत्ससंवादः
(B) बालकौतुकम्
(C) सूक्ति-सुधा
(D) दीनबंधुश्रीनायारः
28. 'विक्रमस्यौदार्यम्' पाठः कस्मात् ग्रंथात् संकलितः ?
(A) रामायणात्
(B) मेघदूतात्
(C) महाभारतात्
(D) सिंहासनद्वत्रिंशिकायाः
29. 'बालकौतुकम्' इति पाठः कस्य रचना ?
(A)कालिदासस्य
(B) अवभूतेः
(C) बाणभट्टस्य
(D) सुश्रुतस्य
30. अन्तरराष्ट्रिययोगदिवसः कदा समायोज्यते ?
(A) 19 जून
(B) 20 जून
(C) 21 जून
(D) 22 जून
भाग-B
( विषयनिष्ठ प्रश्न)
खण्ड -अ
( अति लघु उत्तरीय प्रश्नः)
कस्यापि षट् प्रश्नस्य उत्तरं ददातु।
निर्देश: अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तान् प्रश्नान् निर्देशानुसारम् उत्तरत -2x6-12
भारतम् एकः विशालः प्राचीनः च देशः अस्ति। एतद् उत्तरे कश्मीरप्रदेशात् दक्षिणे कन्याकुमारी पर्यन्तम्, पूर्व असमप्रदेशात् पश्चिमे कच्छप्रदेशपर्यन्तं च विस्तृतम् अस्ति । अस्माकं भारते विभिन्नानां वर्णानां, जातीनां, धर्माणां च जनाः परस्परं मिलित्वा वसन्ति । भारते भाषा-परम्परा-धर्मवैभिन्ये अधि अत्रत्येषु नागरिकेषु एकता बर्तते । स्वतन्त्रता भारतीयनागरिकाणां मौलिक अधिकारः अस्ति। सर्वं नागरिकाः कमपि धर्म स्वीकर्तुं स्वतन्त्राः सन्ति । सर्वे धर्मा अस्मभ्यं नम्रता दया परोपकाराणाम् उपदेशं यच्छन्ति। अत एवभारते सर्वेषां धर्माणां जना भेदभावं विना निवसन्ति ।
प्रश्नाः
पूर्णवाक्येन उत्तरत -
31.भारतम् कीदृशः देशः अस्ति ?
32. भारतस्य नागरिकेषु का वर्तते ?
33.भारते जना कथं वसन्ति ?
34. यथानिर्देशम् उत्तरत -
(1) 'सन्ति' इति क्रियापदस्य कर्तृपद किम् ?
(ii) 'प्राचीनः' इति विशेषणस्य विशेष्य किम् ?
(iii) 'अन्योऽन्यम्' इत्ति अर्थ कि पदम् अत्र प्रयुक्तम् ?
(iv)'परतन्वाः' इति पदस्य कि विलोमपदम् अत्र प्रयुक्तम् ?
अधोलिखितं गद्यांश, पद्यं च पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत -
गद्यांशः-
"अस्मिन् समये एकः षोडशवर्ष-देशीयो गौरो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म । एष सुगठितदृढशरीरः श्यामश्यामैर्गुच्छगुच्छः कुञ्चितकुञ्चितैः कचकलापैः दूरागमनायासवशेन सूक्ष्म-मौक्तिक-पटलेनेव स्वेदबिन्दु ब्रजेन समाच्छादितललाट-कपोल नासाग्रोत्तरोष्ठः कोऽपि शिववीरस्य विश्वासपात्रः सिंहदुर्गात् तस्यैव पत्रमादाय तोरणदुर्गं प्रयाति ।"
प्रश्नाः
पूर्णवाक्येन उत्तरत -
35. युवा केन पर्वतश्रेण्याः उपरि गच्छति स्म ?
36. निर्देशानुसारम् उत्तरत :
(1)'गच्छति स्म' इति क्रियापदस्य कर्तृपदं किम् ?
(ii) 'स्थूल' इति पदस्य किम् विलोमपदद्मत्र प्रयुक्तम् ?
(iii)'केशसमूहैः' इति पदस्य किं पर्यावपदम् अत्र प्रयुक्तम् ?
(iv) 'तस्यैव पत्रम् आदाय इति वाक्ये 'तस्य' इति सर्वनामपदं कस्मै प्रयुक्तम् ?
पद्यम् -
प्रातः प्रयाणाभिमुखाय तस्मै
सविस्मयाः कोषगृहे नियुक्ताः।
हिरण्मयीं कोषगृहस्य मध्ये
वृष्टिं शशंसुः पतितां नभस्तः।।
37. पूर्णवाक्येन उत्तरत -
(1) कस्य मध्ये वृष्टिं शशंसुः ?
(ii) कीदृशीं वृष्टि शशंसुः ?
38. यथानिर्देशम् उत्तरत -
(i) 'शशंसुः' अस्य कर्तृपदं किम् ?
(ii) 'वृष्टिम्' अस्य विशेषणं किम् ?
खण्ड -ब
(लघु उत्तरीय प्रश्नः)
कस्यापि षट् प्रश्नस्य उत्तरं ददातु। प्रत्येकं प्रश्नस्य उत्तरं अधिकतमं १५० शब्देषु ददातु।
39. अधोलिखितस्य श्लोकस्य अन्वये रित्तस्थानपूर्ति कुरुत
ईशावास्यमिदं सर्व यत्किंच जगत्यां जगत् । 
तेन व्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद् धनम् ।।
जगत्यां यत् किम् च (1)..... इदम् सर्वम् (ii)....... तेन त्यक्तेन भुञ्जीथाः,कस्यस्वित् धनं मा (iii)...........।
40.वाक्यं शुद्ध कुरुत-
(क)मया पत्रं लिखामि ।
(ख)त्वं कुत्र गच्छति ?
(ग)राजा दशरथस्य चत्वारः पुत्राः आसीत् ।
41. उचितरूपैः रिक्तस्थानं पूरयत -
(क).......यज्ञं कुर्वन्ति ।(मुनि)
(ख).......कमलानि विकसन्ति । (तत्)
(4)छात्रा........ गच्छन्ति । (विद्यालय)
42. प्रत्ययं संयोज्य लिखत
(क) गम्+क्त्वा-
(ख) कृ+तव्यत् -
(ग) नर्तक+ङीप् -
43. अधः समस्तपदानां विग्रहाः दत्ताः, तानाश्रित्य समस्तपदानि रचयत
यथा-कुलस्य व्रतं कुलव्रतम् ।
(क) वनस्य अन्तरे-
(ख) गुणानां लुब्धाः-
(ग) प्रकृत्या सिद्धम्-
44. शब्दार्थं लिखत-
(क)अस्तेयम् -
(ख) शौचम् -
(ग) जुगुप्सा-
45. रेखाङ्कितपदस्य विभक्ति तत् कारणं च लिखत -
(क) गणेशाय नमः ।
(ख) जलं विना जीवनं शून्यः ।
(ग) कविषु कालिदासः श्रेष्ठः ।
46. अधोलिखितपदानां सन्धि विच्छेदं वा कुरुत-
(क) स्वागतम्-.............+................
(ख) कालांश-.............+.................
(ग) अति+इव-...............................
खण्ड -स
(दीर्घ उत्तरीय प्रश्नः)-5x4-20
चतुर्णां प्रश्नानाम् उत्तरं ददातु। प्रत्येकं प्रश्नस्य उत्तरं अधिकतमं २५० शब्देषु ददातु।
47.श्लोकमेलनं कुरुत -
'अ''                                  आ'
कर्मण्येवाधिकारस्ते    यत्किञ्च जगत्यां जगत् ।
ददाति प्रतिगृह्णाति      मा फलेषु कदाचन ।
ईशावास्यमिदं सर्व      गुह्यमाख्याति पृच्छति ।
अस्ति यद्यपि सर्वत्र     योजयते हिताय ।
पापान्निवारयति          नीरं नीरज-राजितम् ।
48.विद्यालयशुल्कक्षमापनार्थ स्वप्राचार्य प्रति एक पत्र लिखत ।
49.चम्पूकाव्यस्य वैशिष्ट्यं प्रतिपादयत । चम्पूकाव्यस्य उदाहरणम् अपि लिखत ।
50.अधोलिखित्तरचनानां लेखकानां नामानि लिखत । (केवलं पञ्चानाम् )
(क) रामायणम्-
(ख) पाषाणी कन्या-
(ग) महाभारतम्-
(घ)किरातार्जुनीयम्-
(ङ)उत्तररामचरितम्-
(च) कादम्बरी-
51. मञ्जूषासहायतया चित्रं दृष्ट्वा पञ्च चाक्यानि रचयत -

मन्जूषाः-पर्वताः,हरिताः,नदी,वृक्षाः,गृहाणि,वर्षाकाले,मेघा,सुन्दरम्,जलमग्नाः
52. मञ्जूषातः उचितसङ्केतान् गृहीत्या अधोलिखितां कथां पूरयित्वा पुनः लिखत-
मन्जूषाः-गर्वेण, दास्यति, त्वमेव, सम्मानितवान्, असत्यवादनम् ।
एकः अहङ्कारी राजा पण्डितान् आहूय अपृच्छत् । कः श्रेष्ठः अहं वा ईश्वरः वा ?" व्याकुलाः पण्डिताः अचिन्तयन् किं कुर्मः? इतः प्राणहानिः ततः,,,,,,,,,,,,,,,(1),,,,,,,,,,,,,,,।एकः वृद्धः प्रणम्य अवदत् "राजन् । निस्संदेह,,,,,,,,,,,,,,,(2),,,,,,,,,,,,,,,, श्रेष्ठः न ईश्वरः।राजा,,,,,,,,,,,,,,, (3),,,,,,,,,,,,,,, मस्तकम् उन्नयन् अपृच्छत् तत् कथम्?" वृद्धपण्डितः अवदत् -"राजन् । त्वम् अस्मान् राज्यात् निष्कासयितुं क्षमः न तु ईश्वरः । निष्कासयति चेत् कुत्र स्थानं,,,,,,,,,,,,,,, (4),,,,,,,,,,,,,,,?" राजा स्वमूर्खताम् अवगतवान् वृद्धं च,,,,,,,,,,,,,,, (5),,,,,,,,,,,,,,,।



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

जयतु संस्कृतम्।